अक्षर आकार:

श्रीरामजानकीस्तुतिः

shrIrAmajAnakIstutiH

श्रीरामजानकीस्तुतिः

ध्येयं सदा परिभवघ्नमभीष्टदोहं, तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् । भृत्यार्तिहं प्रणतपालभवाब्धिपोतं, वन्दे महापुरुष ते चरणारविन्दम् ॥ १॥ त्यक्त्वा सुदुस्त्यजसुरेप्सितराज्यलक्ष्मीं धर्मिष्ठ आर्यवचसा यदगादरण्यं । मायामृगं दयितयेप्सितमन्वधावत् वन्दे महापुरुष ते चरणारविन्दम् ॥ २॥ वेदान्तवेद्यमतिगुह्यमनन्तमाद्यं, तापत्रयानलनिवारणमादिमूलम् । वृन्दावनस्थलविहारविनोदलीलं, वन्दे महापुरुष ते चरणारविन्दम् ॥ ३॥ त्वमेव माता च पिता त्वमेव, त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव, त्वमेव सर्वं मम देवदेव ॥ ४॥ श्रीराघवं दशरथात्मजमप्रमेयं, सीतापतिं रघुकुलान्वयरत्नदीपम् । आजानुबाहुमरविन्ददलायताक्षं, रामं निशाचरविनाशकरं नमामि ॥ ५॥ वन्दे विदेहतनयापदपुण्डरीकं, यः सौरवृषमाहितयोगचित्तम् । हन्तुं त्रितापमनिशं मुनिहंससेव्यं, सन्मानशीलपरिपीतपरागपुञ्जम् ॥ ६॥ उल्लङ्घ्य सिन्धोस्सलिलं सलीलं यः शोक वह्निं जनकात्मजायाः । आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥ ७॥ मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठं । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥ ८॥ यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् । वाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥ ९॥ प्रथमो अनन्तरूपश्च द्वितीयो लक्ष्मणस्तथा । तृतीयो बलरामश्च कलौ रामानुजो मुनिः ॥ १०॥ संसारतापसन्दग्धशीलहेतुविवर्णितः । रामदेशिकपदाम्भोजछायाविश्राममाश्रयेत् ॥ ११॥ जय जय यतिराज फणिराज अवतारमणे । प्रबलपाखण्डमानो विजयी भव विजयी भव ॥ १२॥ इति श्रीरामजानकीस्तुतिः समाप्ता ॥