अक्षर आकार:

श्रीरामदण्डकम्

Shri Ramadandakam

श्रीरामदण्डकम्

श्रीरामध्यानम् । हत्वा युद्धे दशास्यं त्रिभुवनविषमं वामहस्तेन चापं भूमौ विष्टभ्य तिष्ठन्नितरकरधृतं भ्रामयन्बाणमेकम् । आरक्तोपान्तनेत्रः शरदलितवपुः कोटिसूर्यप्रकाशो वीरश्रीबन्धुराङ्गस्त्रिदशपतिनुतः पातु मां वीररामः ॥ अथ श्रीरामदण्डकं स्तोत्रम् । ॐ श्रीरामपरब्रह्माणे नमः । श्रीमदखिलाण्डकोटिब्रह्माण्डभाण्डदण्डोपदण्डकरण्डमलाशान्तोद्दीपित- सगुणनिर्गुणातीतसच्चिदानन्दपरात्परतारकब्रह्माह्वयदशदिक् प्रकाशं, सकलचराचराधीशम् ॥ १॥ कमलसम्भवशचीधवप्रमुखनिखिलवृन्दारकवृन्दवन्द्यमानसन्दीप्त- दिव्यचारणारविन्दं, श्रीमुकुन्दम् ॥ २॥ दुष्टनिग्रहशिष्टपरिपालनोत्कट कपटनाटकसूत्रचरित्रारञ्जितबहुविधावतारं, श्रीरघुवीरम् ॥ ३॥ कौसल्यादाशरथमनोरथामन्दानन्दकन्दलिताधिरूढक्रीडा- विलोलनशैशवं श्रीकेशवं ॥ ४॥ विश्वामित्रयज्ञविघ्नकारणोत्कटताटकासुवाहुबाहुबलविदलन- बाणप्रवीणकोपपरायणं, श्रीमन्नारायणम् ॥ ५॥ निजपादजलजरजः कणस्पर्शनीयशिलारूपशापविमुक्त- गौतमसतीविनुतमहीधवं, श्रीमाधवम्! ॥ ६॥ खण्डेन्दुधरप्रचण्डकोदण्डखण्डनोद्दण्डदर्द्दण्डकौशिक- लोचनोत्सवजनकचक्रेश्वरसमर्पितसीताविवाहोत्सवानन्दं, श्रिगोविन्दम् ॥ ७॥ परशुरामभूजाखर्वगर्वनिर्वापणपदानुगतरणविजयवर्तिष्णुं श्रीविष्णुम् ॥ ८॥ पितृवाक्यपरिपालनोत्कटजटावल्कलोद्यतसीतालक्ष्मणसहित- महितराज्याभिमतदृढव्रतसङ्कलितप्रयाणरङ्गगाङ्गावतरणसाधनं, श्रीमधुसूदनम् ॥ ९॥ भरद्वाजोपचारनिवारितश्रमक्रमनिराघाटचित्रकूटप्रवेशकक्रमं, श्रीत्रिविक्रमम् ॥ १०॥ जनकवियोगशोकाकुलितभरतशत्रुघ्नलालनानुकूल- भरतपादुकाप्रदानसुधानिर्मितान्तःकरणदुष्टचेष्टायमान- क्रूरकाकासुरगर्वोपशमनं, श्रीवामनम् ॥ ११॥ दण्डकागमनविरोधक्रोधविराधानलज्वालाजलधरं श्रीधरम् ॥ १२॥ शरभङ्गसुतीक्ष्णात्रिदर्शनाशीर्वादनिर्व्याजकुम्भसम्भव- कृपालब्धमहादिव्यास्त्रसमुदायार्जितप्रकाशं, श्रीहृषीकेशम् ॥ १३॥ पञ्चवटीतटीसङ्घटितविशालपर्णशालागतशूर्पणखानासिकाच्छेदन- मानावबोधनमहाहवारम्भणविजृम्भणरावणनियोगमायामृगसंहार- कार्यार्थलाभं, श्रीपद्मनाभम् ॥ १४॥ रात्रिञ्चरवरवञ्चनापहृतसीतान्वेषणरतपङ्क्तिकन्थरक्षोभ- शिथिलीकृतपक्षजटायुर्मोक्षबन्धुक्रियावसाननिर्बन्धनकबन्ध- वक्त्रोदरशरीरनिरादरं, श्रीमद्दामोदरम् ॥ १५॥ शबर्योपदेशपम्पातटहनुमत्सुग्रीवसम्भाषित बन्धुराद्वन्ददुन्दुभि- कलेबरोत्पतनसप्तसालच्छेदनबालिविदारणप्रसन्नयुग्रीव- साम्राज्यसुखमर्षणं, श्रीसङ्कर्षणम् ॥ १६॥ सुग्रीवाङ्गदनीलजाम्बवत्पनसकेसरिप्रमुखनिखिलकपिनायकसेना- समुदायार्चितसेवं, श्रीवासुदेवं ॥ १७॥ निजदत्तमुद्रिकाजाग्रत्समुग्राञ्जनेयविनयवचनरचनाम्बुधि- लङ्घितलङ्किणीप्राणोल्लङ्घनजनकजादर्शनाक्षकुमारमारण लङ्कापुरीदहनतत्प्रतिष्ठित- सुखप्रसङ्गधृष्टद्युम्नं, श्रीप्रद्युम्नम् ॥ १८॥ अग्रजोदग्रमहोग्रनिग्रहपलायमानापमाननीयनिजशरण्यागण्यपुण्योदय- विभीषणाभयप्रदानानिरुद्धं, श्रीमदनिरुद्धम् ॥ १९॥ अपारलवणपारावारसमुज्जृम्भितोत्करणगर्वनिर्वापणदीक्षासमर्थ- सेतुनिर्माणप्रवीणाखिलनरसुरोत्तमं, श्रीपुरुषोत्तमम् ॥ २०॥ निस्तुलप्रहस्तकुम्भकर्णेन्द्रजित्कुम्भनिकुम्भाग्निवर्णातिकायमहोदर- महापार्श्वादिदनुजतनुखण्डनायमानकोदण्डगुणश्रवणशोषणहतशेष- राक्षसव्रजं, श्री अधोक्षजम् ॥ २१॥ अकुण्ठितरणोपकण्ठदशकण्ठदनुजकण्ठीरवकण्ठलुण्ठनायमानजयार्हं, श्रिनारसिंहम् ॥ २२॥ दशग्रीवानुजपट्टभद्रत्वशक्यविभवलङ्कापुरीस्फुरणसकलसाम्राज्य- सुखोर्जितं, श्रीमदच्युतम् ॥ २३॥ सकलसुरासुराद्भुतप्रज्वलितपावकमुखपूतायमानसीतालक्ष्मणानुगत- महनीयपुष्पकाधिरोहण नन्दिग्रामस्थितभ्रातृभिर्युतजटावत्कल- विसर्जनाम्बरभूषणालङ्कृतश्रेयोविवर्धनं, श्रीजनार्द्दनम् ॥ २४॥ अयोध्यानगरपट्टाभिषेकविशेषमहोत्सवनिरन्तरदिगन्तविश्रान्तहारहीर- कर्पूरपयःपारावारापाराभवाणी कुन्देन्दुमन्दाकिनीचन्दनसुरधेनु- शरदम्बुदालीशरदम्भोली शतधाराधावल्यशुभकीर्त्तिच्छटान्तर- पाण्डुरीभूतसभाविभ्राजमाननिखिलभुवनैकसान्द्रयशस्सान्द्रं, श्री उपेन्द्रम् ॥ २५॥ भक्तजनसंरक्षणदीक्षाकटाक्षसुखोदयसमुत्सारिं, श्रीहरिम् ॥ २६॥ केशवादि चतुर्विंशतिनामगर्भसन्दर्भोचितनिज- कथाङ्गीकृतमेधावतिष्णं, श्रीकृष्णम् ॥ २७॥ सर्वसुपर्वपार्वतीहृदयकमलतारकब्रह्मनामं, श्रीसम्पूर्णकामम् ॥ २८॥ भवतरणानुयशस्सान्द्रं भवजनितभयोच्छेदविच्छात्रमच्छिद्रं भक्तजनमनोरथोन्निद्रं, श्रीभद्राचलरामभद्रम् ॥ २९॥ ॐ श्रीरामभद्रायनमः । इति श्रीरामदण्डकं समाप्तम् ।