अक्षर आकार:

श्रीरामचन्द्रवेदपादस्तवः

Shri Ramachandravedapadastavah

श्रीरामचन्द्रवेदपादस्तवः

(श्रीभरद्वाजमहर्षिप्रणीतः) श्रीमद्रामं रघूत्तंसं सच्चिदानन्दलक्षणम् । भवन्तं करुणावन्तं गाये त्वां मनसा गिरा ॥ १॥ रामे दूर्वादलश्यामे जानकी कनकोज्ज्वला । भाति मद्दैवते मेघे विद्युल्लेखेव भास्वरा ॥ २॥ त्वदन्यं न भजे राम निष्कामोऽन्ये भजन्तु तान् । भक्तेभ्यो ये पुरा देवा आयुः कीर्तिं प्रजां ददुः ॥ ३॥ भजनं पूजनं राम करिष्यामि तवानिशम् । श्रियं नेच्छामि संसाराद्भयं विन्दति मामिह ॥ ४॥ श्रीराम जानकीजाने भुवने भवने वने । स्वभक्तकुलजातानामस्माकं भविता भव ॥ ५॥ राम रामेति रामेति वदन्तं विकलं भवान् । यमदूतैरनुक्रान्तं वत्सं गौरिव धावति ॥ ६॥ स्वच्छन्दचारिणं दीनं राम रामेति वादिनम् । भवान्मामनुनिम्नेन यथा वारीव धावति ॥ ७॥ राम त्वं हृदये येषां सुखं लभ्यं वनेऽपि तैः । मण्डं च नवनीतं च क्षीरं सर्पिर्मधूदकम् ॥ ८॥ प्रार्थये त्वां रघूत्तंस मा भून्मम कदाचन । सर्वतीर्थेषु सर्वत्र पापेभ्यश्च प्रतिग्रहः ॥ ९॥ सर्वे मदर्थं कुरुतोपकारं श्रीराममाकर्णय कर्ण नित्यम् । मूर्धन्नमालोकय नेत्र जिह्वे स्तुहि श्रुतं गर्तसदं युवानम् ॥ १०॥ भवान् रघूत्तंस तु दैवतं मे यं सच्चिदानन्दघनस्वरूपम् । एकं परं ब्रह्म वदन्ति नित्यं वेदान्तविज्ञानसुनिश्चितार्थाः ॥ ११॥ भवत्कृपापाङ्गविलोकितेन वैकुण्ठवासः क्रियते जनेन । ज्ञात्वा भवन्तं शरणागतोऽस्मि यस्मात्परं नापरमस्ति किञ्चित् ॥ १२॥ दीनान्भवद्भक्तकुलप्रसूतान्भवत्पदाराधनहीनचित्तान् । अनाथबन्धो करुणैकसिन्धो पितेव पुत्रान् प्रति नो जुषस्व ॥ १३॥ भवान् भवव्याघ्रभयाभिभूतं जराभिभूतं सह लक्ष्मणेन । सदैव मां रक्षतु राघवेशः पश्चात्पुरस्तादधरादुदस्तात् ॥ १४॥ var रक्ष राघवेश - रक्षतु राघवेशः कामाद्यपथ्येन विवर्धमानं रोगं मदीयं भवनामधेयम् । दूरीकुरु त्वं यदहं त्रिलोक्यां भिषक्तमं त्वां भिषजां श‍ृणोमि ॥ १५॥ श्रीरामचन्द्रः स जयत्यजस्रं लङ्कापुरीद्रोणगिरौ पयोधौ । यस्य प्रसादादभवद्धनूमानणोरणीयान्महतो महीयान् ॥ १६॥ श्रीराम रामेति रघूत्तमेति नामानि जल्पेद्यदि तस्य तत्क्षणात् । दिशो द्रवन्त्येव युयुत्सवः सदा भियं दधाना हृदयेषु शत्रवः ॥ १७॥ अनादिमव्यक्तमनन्तमाद्यं स्वयं परं ज्योतिषमप्रमेयम् । विलोकये दाशरथे कदा त्वामादित्यवर्णं तमसः परस्तात् ॥ १८॥ श्रीराघव स्वीयपदारविन्दे सेवां भवान्नः सततं ददातु वयं स्वजन्मान्तरसञ्चितानि ययाति विश्वा दुरिता तरेम ॥ १९॥ भो चित्त चेत्कामयसे विभूतिं तमेव सम्प्रार्थय वीरमेकम् । रघूत्तमं श्रीरमणं सदा यः श्रीणामुदारो धरुणो रयीणाम् ॥ २०॥ वन्देऽरविन्देक्षणमम्बुदाभमाकर्णनेत्रं सुकुमारगात्रम् । यं जानकी हर्षयती वनेऽपि प्रियं सखायं परिषस्वजाना ॥ २१॥ सीताजाने नैव जाने त्वदन्यं त्यक्तश्रीस्त्रीपुत्रकामः सदाऽहम् । त्वां स्मृत्वाऽन्ते देवयानाधिरूढस्तत्त्वायामि ब्रह्मणा वन्दमानः ॥ २२॥ अहं भरद्वाजमुनिर्निरन्तरं श्रीराममेकं जगदेकनायकम् । संवर्णये काव्यरसादिवित्तमं कविं कवीनामुपमश्रवस्तमम् ॥ २३॥ पठन्ति स्तुतिं ये नरा ऋद्धिकामाः समृद्धिं चिरायुष्यमायुष्यकामाः । लभन्ते ह निस्संशयं पुत्रकामाः लभन्ते ह पुत्रान् लभन्ते ह पुत्रान् ॥ २४॥ वेदपादाभिधस्तोत्रं स्नात्वा भक्त्या सकृन्नरः । यः पठेद्राघवस्याग्रे जीवाति शरदः शतम् ॥ २५॥ इति श्रीभरद्वाजमहर्षिप्रणीतः श्रीरामचन्द्रवेदपादस्तवः समाप्तः ।