अक्षर आकार:

रामचन्द्रस्तुतिः

Ramachandrastutih

रामचन्द्रस्तुतिः

वन्दामहे महेशानचण्डकोदण्डखण्डनम् । जानकीहृदयानन्दचन्दनं रघुनन्दनम् ॥ १॥ नमो रामपदाम्भोजं रेणवो यत्र सन्ततम् । कुर्वन्ति कुमुदप्रीतिमरण्यगृहमेधिनः ॥ २॥ स्वर्णैणाजिनशयनो योजितनयनो दशास्यदिग्भागे । मुहुरवलोकितचापः कोऽपि दुरापः स नीलिमा शरणम् ॥ ३॥ अधिपञ्चवटीकुटीरवर्तिस्फुटितेन्दीवरसुन्दरोरुमूर्तिः । अपि लक्ष्मणलोचनैकसख्यं भजत ब्रह्म सरोरुहायताक्षम् ॥ ४॥ कनकनिकषभासा सीतयाऽऽलिङ्गिताङ्गो नवकुवलयदामश्यामवर्णाभिरामः । अभिनव इव विद्युन्मण्डितो मेघखण्डः शमयतु मम तापं सर्वतो रामचन्द्रः ॥ ५॥ परिणयविधौ भङ्क्त्वानङ्गद्विषो धनुरग्रतो जनकसुतया दत्तां कण्ठे स्रजं हृदि धारयन् । कुसुमधनुषा पाशेनेव प्रसह्य वशीकृतो ऽवनतवदनो रामः पायात्त्रपाविनयान्वितः ॥ ६॥ रामो राजमणिः सदा विजयते, रामं रमेशं भजे रामेणाभिहता निशाचरचमूः, रामाय तस्मै नमः । रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥ ७॥ यो रामो न जघान वक्षसि रणे तं रावणं सायकैः हृद्यस्य प्रतिवासरं वसति सा तस्या ह्यहं राघवः । मय्यास्ते भुवनावली परिवृता द्वीपैः समं सप्तभिः स श्रेयो विदधातु नस्त्रिभुवनत्राणैकचिन्तापरः ॥ ८॥ राज्यं येन पटान्तलग्नतृणवत्त्यक्तं गुरोराज्ञया पाथेयं परिगृह्य कार्मुकवरं घोरं वनं प्रस्थितः । स्वाधीनः शशिमौलिचापविषये प्राप्तो न वै विक्रियां पायाद्वः स विभीषणाग्रजनिहा रामाभिधानो हरिः ॥ ९॥ कारुण्यामृतनीरमाश्रितजनश्रीचातकानन्ददं शार्ङ्गाखण्डलचापमम्बुजभवाग्नीन्द्रादिबर्हीष्टदम् । चारुस्मेरमुखोल्लसज्जनकजासौदामिनीशोभितं श्रीरामाम्बुदमाश्रयेऽखिलजगत्संसारतापापहम् ॥ १०॥ कूर्मो मूलवदालवालवदपांराशिर्लतावद्दिशो मेघाः पल्लववत्प्रसूनफलवन्नक्षत्रसूर्येन्दवः । स्वामिन्व्योमतरुः क्रमे मम कियाञ्छ्रुत्वेति गां मारुतेः सीतान्वेषणमादिशन्दिशतु वो रामः सलज्जः श्रियम् ॥ ११॥ एतौ द्वौ दशकण्ठकण्ठकदलीकान्तारकान्तिच्छिदौ वैदेहीकुचकुम्भकुङ्कुमरजः सान्द्रारुणाङ्काङ्कितौ । लोकत्राणविधानसाधुसवनप्रारम्भयूपौ भुजौ देयास्तामुरुविक्रमौ रघुपतेः श्रेयांसि भूयांसि वः ॥ १२॥ बालक्रीडनमिन्दुशेखरधनुर्भङ्गावधि प्रह्वता ताते काननसेवनावधि कृपा सुग्रीवसख्यावधि । आज्ञा वारिधिबन्धनावधि यशो लङ्केशनाशावधि श्रीरामस्य पुनातु लोकवशता जानक्युपेक्षावधि ॥ १३॥ कल्याणानां निधानं कलिमलमथनं पावनं पावनानां पाथेयं यन्मुमुक्षोः सपदि परपदप्राप्तये प्रस्थितस्य । विश्रामस्थानमेकं कविवरवचसां जीवनं सज्जनानां बीजं धर्मद्रुमस्य प्रभवतु भवतां भूतये रामनाम ॥ १४॥ कल्याणोल्लाससीमा कलयतु कुशलं कालमेघाभिरामा काचित्साकेतधामा भवगहनगतिक्लान्तहारिप्रणामा । सौन्दर्यह्रीणकामा धृतजनकसुतासादरापाङ्गधामा दिक्षु प्रख्यातभूमा दिविषदभिनुता देवता रामनामा ॥ १५॥ योऽद्धा योद्धावधीत्तान्सपदि पलभुजः सम्पराये परा ये येनायेनाश्रितानां स्तुतिरवनमितेशानचापेन चापे । लङ्कालङ्कारहर्ता ककुभि ककुभि यः कान्तया सीतयाऽऽसीत् ऊनो दूनोऽथ हृष्टः स विभुरवतु वः स्वःसभार्यः सभार्यः ॥ १६॥ ऋक्षाणां भूरिधाम्नां श्रितमधिपतिना प्रस्फुरद्भीमतारं स्फारं नेत्रानलेन प्रसभनियमितोच्चापमीनध्वजेन । रामायत्तं पुरारेः कुमुदशुचि लसन्नीलसुग्रीवमङ्गं प्लावङ्गं वापि सैन्यं दशवदनशिरश्छेदहेतु श्रियेऽस्तु ॥ १७॥ यस्तीर्थानामुपास्त्या गलितमलभरं मन्यते स्म स्वमेवं नाज्ञासीज्जज्ञिरे यन्ममचरणरजःपादपूतान्यमूनि । पादस्पर्शेन कुर्वञ्झटिति विघटितग्रावभावामहल्यां कौसल्यासूनुरूनं व्यपनयतु स वः श्रेयसा च श्रिया च ॥ १८॥ ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं पीतं वासो वसानं नवकमलरुचा स्पर्धिनेत्रं प्रसन्नम् । वामाङ्कारूढसीतामुखकमलमिलल्लोचनं नीरदाभं नानालङ्कारदीप्तं दधतमुरुजटामण्डलं रामचन्द्रम् ॥ १९॥ इति रामचन्द्रस्तुतिः समाप्ता ।