अक्षर आकार:

श्रीरामचन्द्रस्तवः

Shri Ramachandra Stava

श्रीरामचन्द्रस्तवः

(चामरम्) सूर्यवंशसम्भवोऽपि चन्द्र कान्तिशीतलो भूपतिस्तथापि निर्जितेन्द्रियो रघूत्तमः । नीलनीरदाभकान्तिमीश्वरं धनुर्धरं राघवं नमाम्यहं सदैव साधुसेवितम् ॥ १॥ यज्ञरक्षणाय शैशवेऽपि राक्षसा हता शम्भुचापभञ्जनेन जानकी त्वया वृता । विष्णुकार्मुके शरं नियुज्य भार्गवो जितस् त्वां नमन्ति भक्तितः सुराः सदैव हे विभो ॥ २॥ ताटका त्वया हता मदोद्धता महावने दूषणादिदानवास्त्वया वने विनाशिताः । तप्त-काञ्चनाभ-कान्ति-भासुरो मृगो वने प्रापितोऽन्तकान्तिकं शरेण राघव द्रुतम् ॥ ३॥ मेघनाद-कुम्भकर्ण-रावणादि-राक्षसा विक्रमेण लीलया त्वया हता रणाङ्गणे । लोकरञ्जनाय जानकी विसर्जिता प्रिया त्वां नमाम्यहं सदैव रामचन्द्र भूपते ॥ ४॥ एकबाणमेकवाक्यमेकभार्यकं विभो त्वां स्तुवन्ति साधवो सदेव भक्तिचेतसा । धर्मरक्षणाय काननं त्वयाऽऽश्रितं प्रभो त्वामनन्यभक्तितश्च पूजयन्ति मानवाः ॥ ५॥ वानरेन्द्र-वालि-नाशकाय राम ते नमः सिन्धुगर्वनाशकाय रामचन्द्र ते नमः । वायुनन्दनादि-वानरः सदैव सेवितं लक्ष्मणाग्रजं च जानकी-पति नमाम्यहम् ॥ ६॥ त्यक्तयौवराज्यमार्जवेन युक्तमीश्वरं व्याघ्रसर्पयुक्तकाननं गतं नृपेश्वरम् । राजरत्नमालिकासु सुप्रतिष्ठितं नपं सादरं सदैव नौमि भक्ति-यक्त-चेतसा ॥ ७॥ त्वत्समो न भूपतिर्भुवि प्रभो विराजते त्वत्समो सुतोऽपि देव नान्यतो हि दृश्यते । प्रीतियुक्तमानसः पतिश्च नापरो जने त्वामनन्यमानसो नमस्करोमि सन्ततम् ॥ ८॥ पापनाशिनी तथैव सर्वकामदायिनी शक्ति-कीति-मुक्तिदां स्मरेद् रघोः कथां सदा । रामचन्द्र-भूपतेः स्तवं सदैव यः पठेत तस्य तुष्टमानसो प्रभुर्दयामयो भवेत् ॥ ९॥ इति श्री आपटीकरविरचितः श्रीरामचन्द्रस्तवः सम्पूर्णः ।