अक्षर आकार:

श्रीरामभद्रमङ्गलाशासनम्

shrIrAmabhadramangalAshAsanam

श्रीरामभद्रमङ्गलाशासनम्

शरणागतसन्त्राणनिपुणाय महात्मने । अयोध्याजनभाग्याय रामभद्रायमङ्गलम् ॥ १॥ कौसल्यानन्दकन्दाय कल्याणगुणसिन्धवे । शरण्याय वरेण्याय रामभद्राय मङ्गलम् ॥ २॥ कौशिकाख्यमहायोगिसन्देशसफलीकृतौ । कृतिने नतितुष्टाय रामभद्राय मङ्गलम् ॥ ३॥ वैदेहीवदनाम्भोजलोलम्बायितचेतसे । भद्राणामपि भद्राय रामभद्राय मङ्गलम् ॥ ४॥ गौतमाश्रमसाफल्यनिदानपदपांसवे । दाशकीशादिमित्राय रामभद्राय मङ्गलम् ॥ ५॥ महापातकनिर्मुक्तिहेतुसेतुविधायिने । शिक्षितासुरजालाय रामभद्राय मङ्गलम् ॥ ६॥ विभीषणपरित्राणसंहृष्टमनसेऽनिशम् । प्राप्तसीताय रामाय रामभद्राय मङ्गलम् ॥ ७॥ प्राप्तराज्याय रामाय भरताभीष्टदायिने । सर्वबन्धुसमेताय रामभद्राय मङ्गलम् ॥ ८॥ श्रीनिवासयतीन्द्रोक्तं सीतावल्लभमङ्गलम् । ये पठन्ति महात्मानस्तेषां भूयात्तु मङ्गलम् ॥ ९॥ इति श्रीरामभद्रमङ्गलाशासनं सम्पूर्णम् ॥