अक्षर आकार:

श्रीमद्रामायणसारश्रीरामस्तोत्रम्

shrImadrAmAyaNasArashrIrAmastotram

श्रीमद्रामायणसारश्रीरामस्तोत्रम्

ॐ श्रीरामजयम् ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । नमः श्रीत्यागराजाय मदाचार्यवराय च । श्रीसीतारामभक्ताय गुरुदेवाय ते नमः ॥ ॐ सीतावराय विद्महे । त्यागगेयाय धीमहि । तन्नो रामः प्रचोदयात् ॥ अथ श्रीमद्रामायणसारश्रीरामस्तोत्रम् । श्रीरामप्रेमरूपाय रामायणसुगीतये । त्यागब्रह्मगुरुस्वामिसत्पादाय नमो नमः ॥ १॥ श्रीत्यागब्रह्मगेयाय श्रीसीताराममूर्तये । श्रीमानसाब्धिसोमाय श्रीराघवाय ते नमः ॥ २॥ निर्गुणब्रह्मरूपाय नरोत्तमावतारिणे । गुणास्पदाय गुण्याय रघुश्रेष्ठाय ते नमः ॥ ३॥ सीतां श्रीरामपत्नीं च श्रीलक्ष्मीं जनकात्मजाम् । गङ्गीभूतसुपावित्र्यां श्रीमातरं नमाम्यहम् ॥ ४॥ कारुण्यवीक्षितां सत्त्वां माधुर्यतमभाषिणीम् । सङ्गीतसुस्वरां सीतां श्रीमातरं नमाम्यहम् ॥ ५॥ तप्तजाम्बूनदाभां तां तपनोभूततापसीम् । तापत्रयाग्निशाम्यां सां श्रीमातरं नमाम्यहम् ॥ ६॥ तेजोजितक्षपानाथां क्षितिजां क्षान्तिविग्रहाम् । त्यागराजनुतां श्रेष्ठां वन्दे रामसतीं वराम् ॥ ७॥ सर्वमङ्गलसम्पन्नां सर्वभव्यगुणाश्रयाम् । सर्वमङ्गलधात्रीं च श्रीमातरं नमाम्यहम् ॥ ८॥ रामो ब्रह्मस्वयंजातो भावनावो भवापहः । नामतारकसत्सारो रामो रक्षतु मां सदा ॥ ९॥ श्रीमन्नारायणोविष्णुर्भूतलावतराव्ययः । रामायणमहाकाव्यनाथश्रीरामचन्द्रसः ॥ १०॥ अखिलाधारमूलश्च अवाङ्मानसगोचरः । अखिलाण्डैकनाथश्च अखिलाशरदाशुगः ॥ ११॥ दुराप आप्तसौलभ्यो दुरितेभहरिर्हरिः । दूरीकृताघसङ्घातो दूरपारकृपोदधिः ॥ १२॥ मानवावतराव्यक्तः पक्षिवानरसेवितः । चिरकालधरापालो विदुसाधुसुवन्दितः ॥ १३॥ जन्ममृत्युजरावर्जो जगदारामरामकः । जगदुद्धारणातुल्यो जयरामो जयावहः ॥ १४॥ देवतासार्वभौमश्च देवादिमार्गिताच्युतः । देवाधिदेवभूजापो दीनमानवरक्षकः ॥ १५॥ लीलावतारपूज्यश्च लीलाचतुरमोहनः । लोकधारी त्रिलोकाप्तस्त्रिलोकसन्नुतोत्तमः ॥ १६॥ मोहदारी सुहृन्मोहो मोहकारी च मोक्षकः । मोहनाकाररामश्च मौनिराजसुपूजितः ॥ १७॥ गुणसान्द्रो गुणातीतो गरदाशनवाहनः । गतकामसुहृत्कामो गतमोहातिमोहितः ॥ १८॥ दशावतारलीलश्च दशाननारिरामसः । दाशरथ्यतिसौलभ्यो दासमानससंरमः ॥ १९॥ परिपूर्णावतारश्च परिपूर्णमनोरथः । परिपालितसद्भक्तः पार्वतीरमणप्रियः ॥ २०॥ दक्षशिक्षकसन्नूतो दान्तरक्षणसुव्रतः । दासार्तिशामनाप्तश्च दानवासुरभेदनः ॥ २१॥ गङ्गाजनकगम्भीरो बदरीधामपावनः । प्रकृत्यद्भुतरूपश्च दीक्षागुरुर्मनःस्थलः ॥ २२॥ भागीरथ्यलकानन्दासङ्गमस्थलसालयः । रघुनाथः ससीतश्च गङ्गाभिमुखसालयः ॥ २३॥ देवप्रयागदैवश्च पुण्यस्थलसुकीर्तितः । पुराणालयसंस्थश्च पुराणः पुरुषोत्तमः ॥ २४॥ साधुमानससञ्चारः साधुसज्जनसन्नुतः । साकेतपुरिसंजातः सामादिनिगमाश्रितः ॥ २५॥ भुक्तिमुक्तिदलीलश्च मनोगुप्तसुनामकः । भवाब्धितारणोपायो मन्त्रतारकगुप्तसः ॥ २६॥ नामतारकसत्सारो रूपतारकसद्गुणः । नामरूपातिशायी च तारणार्थभवायनः ॥ २७॥ तारकाद्भुतचारित्रस्तारकानदनामकः । तारकारम्यरूपश्च तारकानन्दरामकः ॥ २८॥ तारकानन्दसन्नामधेयसारसुकीर्तितः । तारकाधिपवक्त्रश्च तारागणस्फुरत्स्मितः ॥ २९॥ भानुवंशललामाजः श्रीमद्दशरथात्मजः । कौसल्यादिव्यपुत्रश्च सर्वलक्षणसंयुतः ॥ ३०॥ सौमित्र्यनुजसुप्रीतः शत्रुघ्नभरताग्रजः । सर्वलोकसमिष्टश्च शशिपूर्णशुभाननः ॥ ३१॥ अकलङ्कमुखालोकः अब्जनेत्रःसुधावचः । अनर्घभूषणोरस्कः अमरार्चितपादसः ॥ ३२॥ अरुणोदयसङ्काशस्तरुणारुणसत्पदः । अर्णोदश्यामगात्राभः करुणारसपूरितः ॥ ३३॥ मन्दस्मितमुखाम्भोजः कुन्दकुड्मलदन्दशः । बिम्बोष्ठश्चारुवक्त्रश्च अतिलावण्यरामसः ॥ ३४॥ आजानुबाहुतेजस्वी अरविन्दाक्षशीकरः । अगश्रेष्ठातिगम्भीरः अजरुद्रादिसन्नुतः ॥ ३५॥ विधृतेषुधिकोदण्डो वीततामसराजसः । विधुकोटिशसम्भासो वागीशनुतराजसः ॥ ३६॥ कोदण्डपाणिविख्यातः काशीशनुततारकः । कुटिलालकलावण्यः कवीनहृदयालयः ॥ ३७॥ कपोलमुकुरो माप्त उमोमाप्ताप्तनामकः । कुमनोगणभीमश्च कुसुमाकरमण्डितः ॥ ३८॥ द्युत्ययुतविभाकोशो गमनद्विरदाद्भुतः । माधुर्यस्वरगाम्भीर्यो जितापघनसुस्वनः ॥ ३९॥ धर्मात्मधन्यधीरश्च धर्मपालनसुव्रतः । धर्मार्थकाममोक्षश्च धाराधराभविग्रहः ॥ ४०॥ दिव्यो दाशरथी दान्तो दिननाथान्वयाब्धिचः । दिव्यलावण्यशौर्यश्च दीनबन्धुर्धराधिपः ॥ ४१॥ साकेतराजकौमारः सर्वोन्नतगुणास्पदः । सत्यकामः सुशीलश्च सत्कारुण्यसुवैभवः ॥ ४२॥ मुनिभावितसत्यश्च मुनिमानसपूजितः । मुनिवन्दितरामश्च मुनिजीवनजीवनः ॥ ४३॥ रामः कौशिकमित्रश्च मुनियागसुपालनः । तरुणारुणसंदृश्यो मुनिपूजितसत्पदः ॥ ४४॥ पादस्पर्शजिताहल्याशापः पापविमोचनः । पादस्मरणपालश्च पापान्धपटभास्करः ॥ ४५॥ जितशङ्करचापश्च श्रीजानकीमनोहरः । सीताहृदब्जखद्योतः सीतारामो रघूत्तमः ॥ ४६॥ त्राणशौर्यसुबाणश्च जामदग्न्यमदापहः । जितरामो जिताप्तश्च सर्वानन्दकरः सुखः ॥ ४७॥ वीरो जनकजामाता जानकीप्राणनायकः । वरानन्दसुकन्दश्च मैथिलीमानसारमः ॥ ४८॥ कल्याणसुन्दराकारः कल्याणराजमोहनः । सीतामोहनरामश्च कल्याणरूपसच्छविः ॥ ४९॥ मातापित्रतिनन्दश्च अयोध्याजनमोदनः । श्याममेघशरच्चन्द्रनिभसीतासमेतसः ॥ ५०॥ एकवागेकपत्नीक एकबाणैकवीर्यवान् । एकतृष्णापहैकश्च एकवस्तुवपुर्धरः ॥ ५१॥ आत्मारामो जितात्मा च जितकामो जितेन्द्रियः । मानसारामरामश्च अभिरामः सुगारमः ॥ ५२॥ मृदुभाषः स्वरानन्दो माधुर्यपूर्णसुस्वरः । वाचस्पतिनुतो वाचो वाङ्मालिकासुभूषितः ॥ ५३॥ नामसुस्वरमाधुर्यो नामप्रभावतारकः । नामरामसुशब्दश्च रामो धर्मपराक्रमः ॥ ५४॥ त्यक्तपट्टाभिषेकश्च तातवाक्यसुपालनः । सीतानुगगतारण्यो लक्ष्मणानुजसेवितः ॥ ५५॥ गुहारामस्तपोभान्तस्तीर्णगङ्गो भवापहः । तापसार्चितसत्पादो भराजमुखशोभनः ॥ ५६॥ योगीन्द्रभावितात्मा च भरद्वाजर्षिसंस्तुतः । यमुनासङ्गतागङ्गापूतप्रयागपावनः ॥ ५७॥ चित्रकूटगिरिप्रस्थो वाल्मीकिऋषिदर्शितः । सौमित्रिनिर्मितारम्यपर्णशालसुवासितः ॥ ५८॥ सीतारामो वनारामः सौमित्रिसेवतोषितः । साधुचित्पद्मभाकोशः सीतावरानुजाश्रितः ॥ ५९॥ स्नातमन्दाकिनीसीतासहारामवनाश्रितः । अतिरम्यवनानन्दः सीतानुजसमेतसः ॥ ६०॥ भरताश्लिष्टमाहात्मा पादुकापूतकेकयः । नन्दिग्रामाभिषिक्तद्विपादुकायोध्यपालनः ॥ ६१॥ उत्सृष्टचित्रकूटश्च अनसूयात्रिसङ्गतः । दिव्यालङ्कृतभार्यश्च तापसाशीर्वचास्पदः ॥ ६२॥ सम्पूतदण्डकारण्यो हताशरः सुहृद्धितः । तापसार्तिविनाशश्च मुनिसन्नुतसत्सुखः ॥ ६३॥ पञ्चवट्यारमारामस्तपस्वी यतमानसः । पाटितासुरवृन्दश्च वृन्दारवृन्दवन्दितः ॥ ६४॥ खरदूषणसंहारो निशाचरहराव्ययः । वैदेहीहर्षसंश्लिष्टो वैदेहीभाग्यभव्यसः ॥ ६५॥ ऋषिदेवपरामोद ऋषिसङ्कुलसंस्तुतः । ऋषभारूढवन्द्यश्च ऋषिवेषमहायशाः ॥ ६६॥ तामसासुरसंहारस्तापसार्तिनिवारणः । तापसानन्दलीलश्च तापनीयारमारमः ॥ ६७॥ वारिजानननेत्रश्च वरवीरः शुभाकरः । वनमाली वरानन्दो वसुधातनयाप्रियः ॥ ६८॥ मायामारीचसम्पाटो मायातीतस्वरूपवान् । मायादारी महाबाहुर्मायाम्बुदसमीरणः ॥ ६९॥ लुप्तसीतामहाप्रेष्ठः क्षितिजान्वेषणायुतः । परित्यक्तजनस्थानस्त्यक्तपञ्चवटीतटः ॥ ७०॥ आसादितजटायुश्च आत्मबन्धुः सुभाषितः । भूजाहरणसन्देशक्रोधितासाध्यवीरसः ॥ ७१॥ जटायुमोक्षसंस्कारो राजाधिपो वनेचरः । जनाधारो जरापेतो राजीवलोचनापरः ॥ ७२॥ शबर्युपहृताशश्च शबरीभक्त्युपाश्रयः । शबरीमोक्षसाक्षी च सर्वसाक्षी दिनान्वयः ॥ ७३॥ पम्पातीरसुसञ्चारः पम्पापारसुसञ्चरः । ऋष्यमूकप्रतिप्रस्थो राजर्षिवेषतेजसः ॥ ७४॥ हनुमत्सङ्गतश्शस्तः सभ्रातृकश्च मावरः । सीतान्वेषणयुक्तश्च हनुमच्छ्लोकितानुतः ॥ ७५॥ सुग्रीवोपेतसुग्रीवः सौमित्रिसेविताग्रथः । मित्रीकृतेनपुत्रश्च मित्रवंशप्रदीपकः ॥ ७६॥ दृष्टजानक्यलङ्कारः कीशप्राञ्जलिसेवितः । सालसम्पाटनाक्लिष्टः सुग्रीवप्रत्ययावहः ॥ ७७॥ पालितादत्तवाक्यश्च प्राप्तराज्यसुहृत्कपिः । माल्यवद् वृष्टिवासश्च त्यक्तकामो मदापहः ॥ ७८॥ दत्ताङ्गुलीयपौरस्यप्रभावनामतारकः । दनुजाहवनिश्शङ्को हनुमद्धेनतारणः ॥ ७९॥ हनुमन्नीतसन्देशसीतादर्शननन्दितः । हर्यानीतवधूभूषचूडामण्यतिहर्षितः ॥ ८०॥ परिष्वक्तमरुज्जातो माधुर्यपूर्णभाषणः । परिचारवनौकश्च मारुत्यारूढवीर्यवान् ॥ ८१॥ समुद्रतीरसम्प्राप्तो विभीषणकृताञ्जलिः । सर्वलोकशरण्यश्च विभीषणाभयप्रदः ॥ ८२॥ सत्यवाक्सत्यकर्मा च अभिषिक्तविभीषणः । शत्रुमित्रसमालोकःशरणागतपाव्रतः ॥ ८३॥ सागरोपासशूरश्च अब्धिवेलकुशास्तरः । आशुगाशनशायी च अब्धितीरोपशायनः ॥ ८४॥ क्रुध्यक्रोधो जितक्रोधः पाथोधिमदहारकः । आपगेशार्चितानूत आप्तकामाप्तपालनः ॥ ८५॥ सेतुबन्धनशान्तश्च शुद्धान्तरङ्गसेवितः । सेव्यः सेवकसंरक्षो हनुमद्वाहनोत्तमः ॥ ८६॥ रणधीरःशरासारो रामो भीमपराक्रमः । राक्षसाभीषणानन्यो रिपुसूदनसच्छरः ॥ ८७॥ भास्करांशुशरावर्षो भास्करायुततेजसः । भास्करान्वयशूरश्च नुतभास्करभासुरः ॥ ८८॥ कुम्भजागस्त्यगेयश्च मुनिसज्जनसन्नुतः । कोदण्डपाणिपुण्यश्च शरनैपुण्यसागरः ॥ ८९॥ राक्षसव्यूहनाशश्च हतरावणराक्षसः । रिपुभीषणबाणश्च जिताधर्मसुधर्मपा ॥ ९०॥ धर्मसंस्थापनानन्तो दत्तराज्यविभीषणः । देवदेवार्चितानूतः पुष्पावर्षाभिषिक्तवान् ॥ ९१॥ नीतसीतासुपूतश्च अग्निप्रज्ज्वलशौचतः । श्रीमन्नारायणानन्तो लक्ष्मीसहावतीर्णवान् ॥ ९२॥ ब्रह्माण्डनायको रामो ब्रह्माशङ्करसंस्तुतः । पितृस्वस्त्ययनाश्युक्तः पितृसंश्लिष्टसत्सुतः ॥ ९३॥ विमानपुष्पकारूढः सीतारामपरन्तपः । सभ्रातृलक्ष्मणापूज्यः सुग्रीवहनुमच्छ्रितः ॥ ९४॥ जाम्बवद्वानरानीको नाकमार्गप्रयाणकः । ज्ञाताज्ञातस्थलादर्शसीतेच्छापरिपूरकः ॥ ९५॥ भरद्वाजाश्रमागन्तुर्मुनिपूजनसन्नुतः । भरताहर्षसंश्लिष्टः कौसल्यानन्दवर्धनः ॥ ९६॥ साकेतसागराब्जश्च कोलाहलजनाञ्जलिः । सुस्वागतजनारामो भरतायुक्तपादुकः ॥ ९७॥ नन्दिग्रामप्रवेशश्च सुपूतभरताश्रमः । गुरुवन्दनसंयुक्तः पुनर्दत्तकुभेरयः ॥ ९८॥ विशोधितजटाजूटः स्नानानुलेपनोज्ज्वलः । कौशेयवासभासश्च कौशल्याप्रियपुत्रसः ॥ ९९॥ सर्वालङ्कारभार्यश्च अयोध्यानगरीप्रयः । साकेतधामसूर्यश्च अयोध्यानगरीप्रियः ॥ १००॥ साकेतराजराजन्यः पट्टाभिषेकवैभवः । अतिकोलाहलानन्दसर्वोन्नतसुवैभवः ॥ १०१॥ सुसिंहासनरत्नाभः ससीतः सुरसेवितः । वसिष्ठवामदेवाद्यभिषिक्तो वररामसः ॥ १०२॥ सर्वोदधिजलासिक्तः सर्वनद्यभिषेचितः । सर्वौषधिरसासिक्तो दिव्याभिषेकराजितः ॥ १०३॥ सर्वोपनिषदासक्तः सर्ववेदार्थसारसः । सर्वाधारः परार्थश्च सर्वशास्त्रपदार्थसः ॥ १०४॥ सर्वमङ्गलसंयुक्तः सर्वजीवनजीवनः । सर्वभव्यगुणश्रायः सर्वनेत्रोत्सवच्छविः ॥ १०५॥ सुमुत्यरत्नहारश्च शताब्जहेममालिनः । इन्द्रनीलप्रकाशश्च इक्ष्वाकुवंशभास्करः ॥ १०६॥ शत्रुघ्नसंधृतच्छत्रः सौमित्रिभरताञ्जलिः । वालव्यजनसुग्रीवो विभीषणान्यचामरः ॥ १०७॥ गाननर्तननन्दश्च सङ्गीतप्रियसुस्वरः । काकुत्स्थराजसिंहश्च काकर्लवंशजस्तुतः ॥ १०८॥ भर्मचेलविराजश्च लसन्मकुटकुण्डलः । भातुवंशाधिराजश्च लोकाभिरामसुव्रतः ॥ १०९॥ लावण्यरामभद्रश्च लक्ष्मीरमणभूपतिः । लोकावनाभियुक्तश्च लोकत्राणाभिपूजितः ॥ ११०॥ तमालघननीलाभो घनाघनघनस्वरः । घृणापाङ्गो घनाभश्च घनाघघनमारुतः ॥ १११॥ पट्टाभिरामचन्द्रश्च परमानन्दवारिधिः । परमाद्भुतचारित्रः पङ्कजाक्षीसमेतसः ॥ ११२॥ कपिश्रेष्ठनुतश्रीमान् कामितार्थप्रदायकः । कायजारिनुतश्रेष्ठः कामादिरिपुदारकः ॥ ११३॥ शतिरागनुतागीतः शतकोटिरविप्रभः । शतिश्लोकसुवागर्थः शतकोटिनमस्कृतः ॥ ११४॥ श्रीत्यागब्रह्मसंदर्शपट्टाभिरामपूज्यसः । श्रीमत्सिंहासनाभूषः श्रीजानकीसुभाग्यसः ॥ ११५॥ श्रीत्यागब्रह्मवाग्वर्षस्निग्धपट्टाभिरामसः । सद्गुरुस्वामिसङ्गीतजगन्मोहनरामसः ॥ ११६॥ त्यागब्रह्मनुतागीतपुण्यचारित्रमाहिनः । श्रीसीतारामदैवश्च सर्वमङ्गलदायकः ॥ ११७॥ श्रीत्यागब्रह्महृद्वासस्तत्प्रत्यक्षसुधावचः । गुरुस्वामिसुसङ्गीतपूर्णवाससनातनः ॥ ११८॥ श्रीत्यागब्रह्मसन्नूतिदिव्यनामसुकीर्तनः । गुरुनित्योत्सवागीतो गुरुसाक्षात्कृतेश्वरः ॥ ११९॥ गुरुसङ्गीतसान्निध्यो नादसुधारसाकृतिः । सप्तस्वरनदद्घण्टः कोदण्डरामसुस्वरः ॥ १२०॥ ज्याघोषनयदेश्यश्च रससङ्गतिवाग्गतिः । गतितालशरावर्तो भजनानन्दसेवितः ॥ १२१॥ गुरुकीर्तनसत्सारो रागरत्नसुमालिकः । गुरुदेवपरानिष्ठो गुरुदेवापरः परः ॥ १२२॥ ओंकारधामसन्नाम ओंकारनादविग्रहः । ओंकारपञ्जरागुप्त ओंकारस्वरपूजितः ॥ १२३॥ श्लोकितस्वचरित्रश्च पुष्पावलिसुमण्डितः । नान्योपयुक्तचेतःपुष्पासक्तिस्तुतिसेवितः ॥ १२४॥ रामायणकथासारं श्रीरामसुकृपावहम् । रामस्तोत्रं महापुण्यं गुरुप्रेर्यं शुभप्रदम् ॥ १२५॥ मङ्गलं रामचन्द्राय सीताश्रीमणिजानये । त्यागब्रह्मसुलीनाय मङ्गलाङ्काय मङ्गलम् ॥ १२६॥ मङ्गलं गुरुदेवाय एतत्स्तोत्रप्रभाविने । रामभद्रसुलीनाय त्यागराजाय मङ्गलम् ॥ १२७॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया अनुरागेण कृतं श्रीमद्रामायणसारश्रीरामस्तोत्रं गुरौ समर्पितम् । ॐ शुभमस्तु । Source Shri Tyagarama Pushpavali 2005 Copyright Pushpa Srivatsan