अक्षर आकार:

श्रीमद्रामायणपठनोपक्रमोपसंहारक्रमः

Shlokas to be Recited during Study of Shrimad Ramayanam

श्रीमद्रामायणपठनोपक्रमोपसंहारक्रमः

॥ श्रीः॥

ध्यानमङ्गलश्लोकाः ।

(Dhyana Shloka to be recited before the commencement of Parayanam) ॥ स्मार्तसम्प्रदायः ॥ श्रीविघ्नेश्वरध्यानम् - शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १॥ वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ २॥ (अनन्तरम् श्रीमच्छङ्करभगवत्पादगुरुपरम्परा अनुसन्धेया) ॐ नारायणं पद्मभुवं वसिष्ठं शक्तिं च तत्पुत्रं पराशरं च व्यासं शुकं गौडपादं महान्तं गोविन्दयोगीन्द्रमथास्य शिष्यम् । श्री शङ्कराचार्यमथास्य पद्मपादं च हस्तामलकं च शिष्यं तं तोटकं वार्त्तिककारमन्यानस्मद् गुरून् सन्ततमानतोऽस्मि ॥ सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ -- अद्वैत गुरुपरम्परा स्तोत्रम् । श्रीसरस्वतीप्रार्थना - दोर्भियुक्ता चतुर्भिः स्फटिकमणिमयीमक्षमालां दधाना हस्तेनैकेन पद्मम् सितमपि च शुकं पुस्तकं चापरेण । भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानासमाना सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥ ३॥ श्रीवाल्मीकिनमस्क्रिया - कूजन्तं राम रामेति मधुरं मधुराक्षरम् । आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥ ४॥ वाल्मीकेर्मुनिसिंहस्य कवितावनचारिणः । श‍ृण्वन् रामकथानादं को न याति परां गतिम् ॥ ५॥ यः पिबन् सततं रामचरितामृतसागरम् । अतृप्तस्तं मुनिं वन्दे प्राचेतसमकल्मषम् ॥ ६॥ श्रीहनुमन्नमस्क्रिया - गोष्पदीकृतवाराशिं मशकीकृतराक्षसम् । रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥ ७॥ अञ्जनानन्दनं वीरं जानकीशोकनाशनम् । कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ॥ ८॥ उल्लङ्घ्य सिन्धोः सलिलं सलीलं यः शोकवह्निम् जनकात्मजायाः । आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥ ९॥ आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् । पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ॥ १०॥ यत्र यत्र रघुनाथ कीर्तनम् तत्र तत्र कृतमस्तकाञ्जलिम् । बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥ ११॥ मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजम् वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥ १२॥ श्रीरामायणप्रार्थना - यः कर्णाञ्जलिसम्पुटैरहरहः सम्यक् पिबत्यादराद् - वाल्मीकेर्वदनारविन्दगलितं रामायणाख्यं मधु । जन्मव्याधिजराविपत्तिमरणैरत्यन्तसोपद्रवं संसारं स विहाय गच्छति पुमान् विष्णोः पदं शाश्वतम् ॥ १३॥ तदुपगतसमाससन्धियोगं सममधुरोपनतार्थवाक्यबद्घम् । रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम् ॥ १४॥ वाल्मीकिगिरिसम्भूता रामसागरगामिनी । पुनातु भुवनं पुण्या रामायणमहानदी ॥ १५॥ श्लोकसारसमाकीर्णं सर्गकल्लोलसङ्कुलम् । काण्डग्राहमहामीनं वन्दे रामायणार्णवम् ॥ १६॥ वेदवेद्ये परे पुंसि जाते दशरथात्मजे । वेद प्राचेतसादासीत् साक्षाद्रामायणात्मना ॥ १७॥ श्रीरामध्यानम् - वैदेही सहितं सुरद्रुमतले हैमे महामण्डपे मध्येपुष्पकमासने मणिमये वीरासने सुस्थितम् । अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ १८॥ वामे भूमिसुता पुरश्च हनुमान् पश्चात् सुमित्रासुतः शत्रुघ्नो भरतश्च पार्श्वदलयोर्वाय्वादिकोणेषु च । सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जाम्ववान् मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम् ॥ १९॥ नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै । नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः ॥ २०॥

श्रीमद्रामायणपारायणसमापनक्रमः ।

(Mangala shloka to be recited at the end) स्वस्ति प्रजाभ्यः परिपालयन्तां न्याय्येन मार्गेण महीं महीशाः । गोब्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु ॥ १॥ काले वर्षतु पर्जन्यः पृथ्वी सस्यशालिनी । देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः ॥ २॥ अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः । अधनाः सधनाः सन्तु जीवन्तु शरदां शतम् ॥ ३॥ चरितं रघुनाथस्य शतकोटिप्रविस्तरम् । एकैकमक्षरं प्रोक्तं महापातकनाशनम् ॥ ४॥ श‍ृण्वन् रामायणं भक्त्या यः पादं पदमेव वा । स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा ॥ ५॥ रामाय रामभद्राय रामचन्द्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥ ६॥ यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते । वृत्रनाशे समभवत्तत्ते भवतु मङ्गलम् ॥ ७॥ यन्मङ्गलं सुपर्णस्य विनताकल्पयत् पुरा । अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम् ॥ ८॥ अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत् । अदितिर्मङ्गलं प्रादात्तत्ते भवतु मङ्गलम् ॥ ९॥ त्रीन् विक्रमान् प्रक्रमतो विष्णोरमिततेजसः । यदासीन्मङ्गलं राम तत्ते भवतु मङ्गलम् ॥ १०॥ ऋतवः सागरा द्वीपा वेदा लोका दिशश्च ते । मङ्गलानि महाबाहो दिशन्तु तव सर्वदा ॥ ११॥ कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॥ १२॥ इति श्रीमद्रामायणपठनोपक्रमोपसंहारक्रमः समाप्तः ।