अक्षर आकार:

श्रीरामाष्टोत्तरशतनामस्तोत्रम् ३

shrIrAmAShTottarashatanAmastotram 3

श्रीरामाष्टोत्तरशतनामस्तोत्रम् ३

श्रीगणेशाय नमः ॥ वाल्मीकिरुवाच । यैस्तु नामसहस्रस्य पतनं न भवेत्सदा । रचितं नित्यपाठाय तेभ्यः स्वल्पाक्षरं मया ॥ १॥ अष्टोत्तरशतं नाम्नामादरेण पठन्तु ते । रामपादारविन्दश्रीप्राप्तिं तेषां च प्रार्थये ॥ २॥ गुणानां चिन्तनं नित्यं दुर्गुणानां विवर्जनम् । साधकानां सदा वृत्तिः परमार्थपरा भवेत् ॥ ३॥ यथा तु व्यसने प्राप्ते राघवः स्थिरनिश्चयः । विजयं प्राप्तवानन्ते प्राप्नुवन्तु च सज्जनाः ॥ ४॥ श्रीगणेशाय नमः । सम्राड्दक्षिणमार्गस्थः सहोदरपरीवृतः । साधुकल्पतरुर्वश्यो वसन्तऋतुसम्भवः ॥ ५॥ सुमन्त्रादरसम्पूज्यो यौवराज्यविनिर्गतः । सुबन्धुः सुमहन्मार्गी मृगयाखेलकोविदः ॥ ६॥ सरित्तीरनिवासस्थो मारीचमृगमार्गणः । सदोत्साही चिरस्थायी स्पष्टभाषणशोभनः ॥ ७॥ स्त्रीशीलसंशयोद्धिग्नो जातवेद प्रकीर्तितः । स्वयम्बोधस्तमोहारी पुण्यपादोऽरिदारुणः ॥ ८॥ साधुपक्षपरो लीनः शोकलोहितलोचनः । संसारवनदावाग्रिः सहकार्यसमुत्सुकः ॥ ९॥ सेनाव्यूहप्रवीणः स्त्रीलाञ्छनकृतसङ्गरः । सत्याग्रही वनग्राही करग्राही शुभाकृतिः ॥ १०॥ सुग्रीवाभिमतो मान्यो मन्युनिर्ज्जितसागरः । सुतद्वययुतः सीताश्वार्भगमनाकुलः ॥ ११॥ सुप्रमाणितसर्वाङ्गः पुष्पमालासुशोभितः । सुगतः सानुजो योद्धा दिव्यवस्त्रादिशोभनः ॥ १२॥ समाधाता समाकारः समाहारः समन्वयः । समयोगी समुत्कर्षः समभावः समुद्यतः ॥ १३॥ समदृष्टिः समारम्भः समवृत्तिः समद्युतिः । सदोदितो नवोन्मेषः सदसद्वाचकः पुमान् ॥ १४॥ हरिणाकृष्टवैदेहीप्रेरितः प्रियदर्शनः । हृतदार उदारश्रीर्जनशोकविशोषणः ॥ १५॥ हनुमद्वाहनोऽगम्यः सुगमः सज्जनप्रियः । हनुमद्दूतसपन्नो मृगाकृष्टः सुखोदधिः ॥ १६॥ हृन्मन्दिरस्थचिन्मूर्तिर्मृदू राजीवलोचनः । क्षत्राग्रणीस्तमालाभो रुदनक्लिन्नलोचनः ॥ १७॥ क्षीणायुर्जनकाहूतो रक्षोघ्नो ऋक्षवत्सलः । ज्ञानचक्षुर्योगविज्ञो युक्तिज्ञो युगभूषणः ॥ १८॥ सीताकान्तश्चित्रमूर्तिः कैकेयीसुतबान्धवः । पौरप्रियः पूर्णकर्मा पुण्यकर्मपयोनिधिः ॥ १९॥ सुराज्यस्थापकश्चातुर्वर्ण्यसंयोजकः क्षमः । द्वापरस्थो महानात्मा सुप्रतिष्ठो युगन्धरः ॥ २०॥ पुण्यप्रणतसन्तोषः शुद्धः पतितपावनः । पूर्णोऽपूर्णोऽनुजप्राणः प्राप्यो निजहृदि स्वयम् ॥ २१॥ वैदेहीप्राणनिलयः शरणणतवत्सलः । शुभेच्छापुर्वकं स्तोत्रं पठनीयं दिने दिने । अष्टोत्तरशतं नाम्नां राघवस्य पठेन्नरः ॥ २२॥ इष्टं लब्ध्वा सदा शान्तः सामर्थ्यसहितो भवेत् । नित्यं रामेण सहितो निवासस्तस्य वा भवेत् ॥ २३॥ इति श्री अनन्तसुतश्रीदिवाकरविरचितं श्रीरामाष्टोत्तरशतनामस्तोत्रं ३ सम्पूर्णम् ॥