अक्षर आकार:

श्रीरामाष्टोत्तरशतनामावलिः ७

shrIrAmAShTottarashatanAmAvaliH 7

श्रीरामाष्टोत्तरशतनामावलिः ७

ॐ सम्राजे नमः । दक्षिणमार्गस्थाय । सहोदरपरीताय । साधुकल्पतरवे । वश्याय । वसन्तऋतुसम्भवाय । सुमन्त्रादर- सम्पूज्याय । यौवराज्यविनिर्गताय । सुबन्धवे । सुमहन्मार्गिणे । मृगयाखेलकोविदाय । सरित्तीरनिवासस्थाय । मारीचमृग- मार्गणाय । सदोत्साहिने । चिरस्थायिने । स्पष्टभाषणशोभनाय । स्त्रीशीलसंशयोद्विग्नाय । जातवेदःप्रकीर्तिताय । स्वयम्बोधाय । तमोहारिणे नमः ॥ २० ॐ पुण्यपादाय नमः । अरिदारुणाय । साधुपक्षपराय । लीनाय । शोकलोहितलोचनाय । ससारवनदावाग्नये । सहकार्य- समुत्सुकाय । सेनाव्यूहप्रवीणाय । स्त्रीलाञ्छनकृतसङ्गराय । सत्याग्रहिणे । वनग्राहिणे । करग्राहिणे । शुभाकृतये । सुग्रीवाभिमताय । मान्याय । मन्युनिर्जितसागराय । सुतद्वययुताय । सीताभूगर्भगमनाकुलाय । सुप्रमाणितसर्वाङ्गाय । पुष्पमाला- सुशोभिताय नमः ॥ ४० ॐ सुगताय नमः । सानुजाय । योद्ध्रे । दिव्यवस्त्रादिशोभनाय । समाधात्रे । समाकाराय । समाहाराय । समन्वयाय । समयोगिने । समुत्कर्षाय । समभावाय । समुद्यताय । समदृष्टये । सभारम्भाय । समवृत्तये । समद्युतये । सदोदिताय । नवोन्मेषाय । सदसद्वाचकाय । पुंसे नमः ॥ ६० ॐ हरिणाकृष्टवैदेहीप्रेरिताय नमः । प्रियदर्शनाय । हृतदाराय । उदारश्रिये । जनशोकविशोषणाय । हनुमद्वाहनाय । क्ष्णाम्याय । सुगगाय । सजनप्रियाय । हनुमदूतसम्पचाय । मृगाकृष्टाय । सुखोदधये । हृन्मन्दिरस्थचिन्मूर्तये । मृदवे । राजीवलोचनाय । क्षत्राग्रण्ये । तमालाभाय । रुदनक्लिन्नलोचनाय । क्षीणायुर्जनकाहूताय । रक्षोघ्नाय नमः ॥ ८० ॐ ऋक्षवत्सलाय नमः । ज्ञानचशुषे । योगविज्ञाय । युक्तिज्ञाय । युगभूषणाय । सीताकान्ताय । चित्रमूर्तये । कैकयीसुतबान्धवाय । पौरप्रियाय । पूर्णकर्मणे । पुण्यकर्म- पयोनिधये । सुराज्यस्थापकाय । चातुर्वर्ण्यसंयोजकाय । क्षमाया द्वापरस्थाय । महते । आत्मने । सुप्रतिष्ठाय । युगन्धराय । पुण्यप्रणतसन्तोषाय नमः ॥ १०० ॐ शुद्धाय नमः । पतितपावनाय । पूर्णाय । अपूर्णाय । अनुजप्राणाय । निजहृदिस्वयम्प्राप्याय । वैदेहीप्राणनिलयाय । शरणागतवत्सलाय नमः ॥ १०८ इति श्रीरामाष्टोत्तरशतनामावलिः ७ समाप्ता ।