अक्षर आकार:

श्रीरामाष्टोत्तरशतनामावलिः ६

shrIrAmAShTottarashatanAmAvaliH 6

श्रीरामाष्टोत्तरशतनामावलिः ६

ॐ सर्वदेवसमाराध्यपदपङ्कजशोभिताय नमः । वेदमौलिसमाम्नातपरमानन्दवैभवाय नमः । मुनिवृन्दसमाराध्यदिव्यमङ्गलविग्रहाय नमः । दिव्यगन्धरसाद्याढ्यपरलोकविराजिताय नमः । दिव्यमोहनरूपाढ्यनित्यसूरिनिषेविताय नमः । महामणिविचित्राङ्गमण्टपान्तर्विराजिताय नमः । श्रीभूमिनीलासंसेव्यपादपीठलसत्पदाय नमः । शङ्खचक्रगदापद्मसंशोभितकराम्बुजाय नमः । लोकरक्षणसम्प्राप्तविविधाकृतिपूजिताय नमः । पौलस्त्यविक्रमप्लुष्टविधिमुख्यसुरस्तुताय नमः ॥ १० देवाभयप्रदानार्थपरसौलभ्यसागराय नमः । वानरीकृतविद्यादिदेवनायकसन्नुताय नमः । चक्रवर्तिगृहावासरोचनायुतचेतनाय नमः । कौसल्याभक्तिपूर्त्यर्थतद्गर्भवसतिप्रियाय नमः । ऋष्यश‍ृङ्गमुनिश्रेष्ठकारितेष्टिफलोद्गमाय नमः । यज्ञपावकसञ्जातपायसान्नस्वरूपधृते नमः । तत्प्राशनसुसंहृष्टकौसल्यागर्भसम्भवाय नमः । चैत्रशुद्धनवम्याढ्यपुनर्वसुविनिर्गताय नमः । रामाजनसमाह्लादशङ्खचक्रादिशोभिताय नमः । रामनामविराजच्छ्रीभक्तसङ्घकृतार्हणाय नमः ॥ २० भरतादिमहोदारभ्रातृमध्यविराजिताय नमः । वयस्यकेलिसञ्जातसुन्दरस्वेदभूषिताय नमः । कस्तूरीतिलकोद्भासिचूर्णकुन्तलराजिमते नमः । राकाचन्द्रनिभश्रीमद्वदनाम्बुजशोभिताय नमः । विकासोन्मुरवपद्मश्रीमन्दहासातिसुन्दराय नमः । प्रियभाषणसंसक्तभक्तसङ्ख्यविराजिताय नमः । राजलक्षणमाधुर्यसन्तोषितमहीपतये नमः । विश्वामित्रानुगश्रीमल्लक्ष्मणानुचरादृताय नमः । ताटकाख्यमहामृत्युभयविध्वंसकारकाय नमः । यशप्रत्यूहकृद्रक्षोविक्षोभणकृताभयाय नमः ॥ ३० कुशिकात्मजसम्प्रोक्ततुषाराद्रिसुताकथाय नमः । गौतमाख्यमुनिश्रेष्ठवनितापापभञ्जकाय नमः । चन्द्रशेखरकोदण्डभञ्जनात्तमहोन्नतये नमः । जानकीहस्तसन्दत्तहारशोभिभुजान्तराय नमः । वधुयुक्तसहोदर्यवन्दिताघ्रिसरोरुहाय नमः । भार्गवास्त्रगृहीतश्रीसन्तोषितमहीपतये नमः । वसिष्ठादिमुनिप्रीतजननीजनपूजिताय नमः । जानकीमानसोल्लासकुमुदोद्भासिचन्द्रमसे नमः । ज्ञानवृद्धवयोवृद्धशीलवृद्धसुसम्मताय नमः । माधुर्याढ्यमहौदार्यगुणलुब्धमहीप्रियाय नमः ॥ ४० महागजसमारूढदर्शनेच्छुजनावृताय नमः । कैकेयीवाक्यसन्तप्तमहीपतिसमीपगाय नमः । अनायासगृहीतस्ववनवासविराजिताय नमः । मुनिरक्षात्वरात्यक्तजनन्यादिजनार्थनाय नमः । सीतासौमित्रिसंसेव्यरथोत्तमविराजिताय नमः । गुहानीतवटक्षीरधृतकेशजटाततये नमः । गङ्गातीरपरित्यक्तखिन्नसारथिमित्रवते नमः । भरद्वाजमुनिप्रोक्तचित्रकूटनिवासकृते नमः । मृततातसुसंस्कारक्षणागतसहोदराय नमः । बहुन्यायसमाख्यानवितीर्णनिजपादुकाय नमः ॥ ५० वसिष्ठादिमहीदेवदेवनाथादिपूजिताय नमः । खरभीतमुनिव्रातसूचितात्मव्यवस्थितये नमः । शरभङ्गमहायोगिनित्यलोकप्रदायकाय नमः । अगस्त्यादिमहामौनिपूजिताङ्घ्रिसरोरुहाय नमः । राक्षसार्तमुनिश्रेष्ठसंरक्षणकृताभयाय नमः । विराधवधसन्तुष्टदेहिवृन्दनिषेविताय नमः । गृध्रराजमहाप्रीतिस्थितपञ्चवटीतटाय नमः । कामार्तराक्षसीकर्णनासिकाच्छेदनादराय नमः । खरकोपविनिष्क्रान्तखरमुख्यनिषूदनाय नमः । मायामृगतनुच्छन्नमारीचतनुदारणाय नमः ॥ ६० सीतावचनसङ्खिन्नसौमित्रिभृशकोपनाय नमः । शुन्योटजसमालोकव्यथिताशयभिन्नधिये नमः । वृत्तबोधिजटाय्वर्थदत्तलोकमहोन्नतये नमः । मुत्ताशापकबन्धोक्तजानकीप्राप्तिनिश्चयाय नमः । शबरीचिरकालाप्ततद्भुक्तफलसंस्पृहाय नमः । भिक्षुरूपप्रतिच्छन्नहनुमद्वचनादराय नमः । स्निग्धसुग्रीवविस्रम्भदत्तवीर्यपरीक्षणाय नमः । विद्धवालिसमाख्यातशास्त्रसारविनिर्णयाय नमः । वर्षर्तुसर्वसमयगिरिप्रस्रवणस्थिताय नमः । विस्मृताखिलसुग्रीवप्रेषितात्मसहोदराय नमः ॥ ७० नतसुग्रीवसन्दिष्टहनुमहद्दत्तभूषणाय नमः । प्राप्तचूडामणिप्रेक्षासंस्मारितगुरुत्रयाय नमः । वायुसूनुवितीर्णस्वशरीरालिङ्गनोज्ज्वलाय नमः । कपिसैन्यमहोत्साहप्राप्तनीरधिसत्तटाय नमः । विभीषणपरित्राणप्रथितात्ममहाव्रताय नमः । महोदधिमहावेगजातक्रोधातिभीषणाय नमः । शरार्तवार्धिरत्नौघपूजिताब्जपदद्वयाय नमः । कार्यप्रकत्यूहविध्वंससम्पूजितमहेश्वराय नमः । महासेतुमहादेवविधिमुख्यसुरार्चिताय नमः । वालिसूनुदशग्रीवसमाश्राविततद्धिताय नमः ॥ ८० समागतघटीकर्णमुखराक्षससूदनाय नमः । दशग्रीवशिरोराजत्किरीटाग्र्यविभेदकाय नमः इन्द्रजिद्वधकार्याप्तसुमित्रासुतवन्दिताय नमः । राक्षसाधिपविद्ध्वंसदेवसङ्घकृतस्तुतये नमः । वह्निप्रवेशदीप्ताङ्गजानकीप्रीतमानसाय नमः । चक्रवर्तिमहेशानविधिमुरव्यस्तुतोन्नतये नमः । अभिषिक्तसमायातविभीषणकृतस्तुताय नमः । निजपादाब्जसंसक्तरक्षोवैभवशंसनाय नमः । यूथनायकतत्पत्नीविभीषणपरीवृताय नमः । पुष्पकागतिसुप्रीतभरद्वाजकृतार्चनाय नमः ॥ ९० भरतानन्दसन्दोहवर्धनादृतमारुतये नमः । महासाम्राज्यलब्धश्रीनन्दिताखिलचेतनाय नमः । काशीक्षेत्रमहेशानचिन्तितात्ममहामनवे नमः । मृतौ तद्दत्ततन्मन्त्रलब्धमुक्तिपदस्तुताय नमः । श्चीरामतापिनीप्रोक्तविश्रुतानन्तवैभवाय नमः । मकाराक्षरसञ्जातशिवांशहनुमत्प्रियाय नमः । निजचारित्रसम्पूतवाल्मीकिवरदायकाय नमः । नामवैभवलेशांशविध्वंसितविपत्ततये नमः । चेतनासेचनानन्दनिजवैभवभूषिताय नमः । अविशेषवितीर्णार्तरक्षणोत्थमहोन्नतये नमः ॥ १०० महेशविदितानन्दनिजवैभवभूषिताय नमः । लक्ष्मीविष्ण्वंशसम्पूर्णसीतारामशरीरवते नमः । विष्णुशभुमहामन्त्रसाराक्षरसुनामवते नमः । मित्रभावसमायातभक्तरक्षैकदीक्षिताय नमः । सकृत्प्रपन्नजनतासंरक्षणधुरन्धराय नमः । श्रितचित्तपरानन्ददायिमङ्गलविग्रहाय नमः । धर्मार्थकाममोक्षाख्यफलसर्वार्थदायकाय नमः । भक्तेष्टफलदानोत्ककरुणासान्द्रचेतसे नमः ॥ १०८ इति श्रीरामाष्टोत्तरशतनामावलिः ६ समाप्ता ।