अक्षर आकार:

मन्त्रवर्णयुत श्रीरामाष्टोत्तरशतनामावलिः ९

Mantravarnayuta Shri Ramashtottarashatanamavali 9

मन्त्रवर्णयुत श्रीरामाष्टोत्तरशतनामावलिः ९

ॐ श्रीमत्सूर्यकुलाम्बोधिवर्धनीयकलानिधये नमः । ॐ श्रीमद्ब्रह्मेन्द्ररुद्रादिवन्दनीय जगद्गुरवे नमः । ॐ श्रीमत्सौभाग्यसौन्दर्यलावण्याम्बुधिपङ्कजाय नमः । ॐ श्रीमच्चिन्तामणीपीठस्वर्णसिंहासनेश्वराय नमः । ॐ श्रीमद्राजाधिराजेन्द्रमकुटाङ्कितपादुकाय नमः । ॐ श्रीमद्धिमाद्रिराजेन्द्रकन्याध्येयपदाम्बुजाय नमः । ॐ श्रीमत्सृष्ट्यादिविविधकार्यकारणमूर्तिमते नमः । ॐ श्रीमदम्लानतुलसीवनमालाविराजिताय नमः । ॐ श्रीमत्सुरासुराराध्यपादपद्मविराजिताय नमः । ॐ श्रीजगन्मोहनाकारदिव्यलावण्यविग्रहाय नमः । १० ॐ श्रीश‍ृङ्गाररसाम्भोधिप्रोद्यत्पूर्णसुधाकराय नमः । ॐ श्रीकण्ठकरकोदण्डपरीक्षितपराक्रमाय नमः । ॐ श्रीवत्सलाञ्छनात्यन्तमणिभूषणभूषिताय नमः । ॐ श्रीभूनीलाङ्गनासङ्गपुलकाङ्कितविग्रहाय नमः । ॐ श्रीसाम्बदेवहृत्पद्मविकासनदिवाकराय नमः । ॐ श्रीक्षीरवार्धिपर्यङ्कविहारात्यन्तबालकाय नमः । ॐ श्रीकराकारकोदण्डकाण्डोपेतकराम्बुजाय नमः । ॐ श्रीजानकीमुखाम्भोजमण्डनीयप्रभाकराय नमः । ॐ रामाजनमनोहारीदिव्यकन्दर्पविग्रहाय नमः । ॐ रमामनोज्ञवक्षोजदिव्यगन्धसुवासिताय नमः । २० ॐ रमावक्षोजकस्तूरिवासनास्वादलोलुपाय नमः । ॐ राजाधिराजराजेन्द्ररमणीयगुणाकराय नमः । ॐ रावणादिवधोद्युक्तविजृम्भितपराक्रमाय नमः । ॐ राकेन्द्वराग्निविमलनेत्रत्रयविभूषिताय नमः । ॐ रात्रिञ्चरौघमत्तेभनिर्भेदनमृगेश्वराय नमः । ॐ राजत्सौदामिनीतुल्यदिव्यकोदण्डमण्डनाय नमः । ॐ राक्षसेश्वरसंसेव्यदिव्यश्रीपादपङ्कजाय नमः । ॐ राकेन्दुकुलसम्भूतरमणीप्राणनायकाय नमः । ॐ रत्ननिर्मितभूषार्यचरणाम्बुजशोभिताय नमः । ॐ राघवान्वयसञ्जातनृपश्रेणीशिरोमणये नमः । ३० ॐ राकाशशिसमाकारवक्त्रमण्डलमण्डिताय नमः । ॐ रावणासुरकासारचण्डभानुशरोत्तमाय नमः । ॐ रणत्सङ्गीतसम्पूर्णसहस्रस्तम्भमण्डपाय नमः । ॐ रत्नमण्डपमध्यस्थसुन्दरीजनवेष्टिताय नमः । ॐ रणत्किङ्किणिसंशोधिमण्डलीकृतकार्मुकाय नमः । ॐ रत्नौघकान्तिविलसद्धोलाखेलनशीलनाय नमः । ॐ माणिक्योज्ज्वलसन्दीप्तकुण्डलद्वयमण्डिताय नमः । ॐ मानिनीजनमध्यस्थसौन्दर्यातिशयाश्रयाय नमः । ॐ मन्दस्मिताननाम्भोजमोहितानेकतापसाय नमः । ॐ मायामारीचसंहारकारणानन्दविग्रहाय नमः । ४० ॐ मकराक्षादिदुस्साध्यदुष्टदर्पापहारकाय नमः । ॐ माद्यन्मधुव्रतव्रातविलसत्केशसंवृताय नमः । ॐ मनोबुद्धीन्द्रियप्राणवागादीनांविलक्षणाय नमः । ॐ मनस्सज्कल्पमात्रेणनिर्मिताजाण्डकोटिकाय नमः । ॐ मारुतात्मजसंसेव्यदिव्यश्रीचरणाम्बुजाय नमः । ॐ मायामानुषवेषेणमायिकासुरखण्डनाय नमः । ॐ मार्ताण्डकोटिज्वलितमकराकारकुण्डलाय नमः । ॐ मालतीतुलसीमाल्यवासिताखिलविग्रहाय नमः । ॐ मारकोटिप्रतीकाशमहदद्भुतदेहभृते नमः । ॐ महनीयदयावेशकलितापाङ्गलोचनाय नमः । ५० ॐ मकरन्दरसास्वाद्यमाधुर्यगुणभूषणाय नमः । ॐ महादेवसमाराध्यमणिनिर्मितपादुकाय नमः । ॐ महामाणिक्यखचिताखण्डतूणीधनुर्धराय नमः । ॐ मन्दरोद्भूतदुग्धाब्धिबिन्दुपुञ्जविभूषणाय नमः । ॐ यक्षकिन्नरगन्धर्वस्तूयमानपराक्रमाय नमः । ॐ यजमानजनानन्दसन्धानचतुरोद्यमाय नमः ᳚ । ॐ यमाद्यष्टाङ्गशीलादियमिहृत्पद्मगोचराय नमः । ॐ यशोदाहृदयानन्दसिन्धुपूर्णसुधाकराय नमः । ॐ याज्ञ्यवल्क्यादिऋषिभिस्संसेवितपदद्वयाय नमः । ॐ यमलार्जुनपापौघपरिहारपदाम्बुजाय नमः । ६० ॐ याकिनीकुलसम्भूतपीडाजालापहारकाय नमः । ॐ यादःपतिपयःक्षोभकारिबाणशरासनाय नमः । ॐ यामिनीपद्मिनीनाथकृतश्रीकर्णकुण्डलाय नमः । ॐ यातुधानाग्रणीभूतविभीषणवरप्रदाय नमः । ॐ यागपावकसञ्जातद्रौपदीमानरक्षकाय नमः । ॐ यक्षरक्षश्शिक्षणार्थमुद्यद्भीषणसायकाय नमः । ॐ यामार्धेनदशग्रीवसैन्यनिर्मूलनास्त्रविदे नमः । ॐ यजनानन्दसन्दोहमन्दस्मितमुखाम्बुजाय नमः । ॐ यामलागमवेदैकस्तूयमानयशोधनाय नमः । ॐ याकिनीसाकिनीस्थानषडाधाराम्भुजाश्रयाय नमः । ७० ॐ यतीन्द्रबृन्दसंसेव्यमानाखण्डप्रभाकराय नमः । ॐ यथोचितान्तर्यागादिपूजनीयमहेश्वराय नमः । ॐ नानावेदादिवेदान्तैः प्रशंसितनिजाकृतये नमः । ॐ नारदादिमुनिप्रेमानन्दसन्दोहवर्धनाय नमः । ॐ नागराजाङ्कपर्यङ्कशायिसुन्दरविग्रहाय नमः । ॐ नागारिमणिसङ्काशदेहकान्तिविराजिताय नमः । ॐ नागेन्द्रफणिसोपाननृत्यलीलाविशारदाय नमः । ॐ नमद्गीर्वाणमकुटमणिरञ्जितपादुकाय नमः । ॐ नागेन्द्रभूषणप्रेमातिशयप्राणवल्लभाय नमः । ॐ नानाप्रसूनविलसद्वनमालाविराजिताय नमः । ८० ॐ नवरत्नावलीशोभितापादतलमस्तकाय नमः । ॐ नवमल्लीप्रसूनाभिशोभमानशिरोरुहाय नमः । ॐ नलिनीशङ्खचक्रासिगदाशार्ङ्गेषुखेटधृते नमः । ॐ नादानुसन्धानपरैरवलोक्यनिजाकृतये नमः । ॐ नरामरासुरव्रातकृतपूजोपहारकाय नमः । ॐ नखकोटिप्रभाजालव्याप्त ब्रह्माण्डमण्डलाय नमः । ॐ नतश्रीकरसौन्दर्यकरुणापाङ्गवीक्षणाय नमः । ॐ नवदूर्वादलश्यामश‍ृङ्गारकारविग्रहाय नमः । ॐ नरकासुरदोर्दर्पशौर्यनिर्वापणक्षमाय नमः । ॐ नानाप्रपञ्चवैचित्र्यनिर्माणात्यन्तपण्डिताय नमः । ९० ॐ माध्याह्न्यार्कप्रभाजालपुञ्जकिञ्जल्कसन्निभाय नमः । ॐ मनुवंश्यकिरीटाग्रशोभमानशिरोमणये नमः । ॐ मलयाचलसम्भूतदिव्यचन्दनचर्चिताय नमः । ॐ मन्दराधारकमठाकारकारणविग्रहाय नमः । ॐ महदादिप्रपञ्चान्तर्व्याप्तव्यापारविग्रहाय नमः । ॐ महामायासमावेशिताण्डकोटिगणेश्वराय नमः । ॐ मरामरेतिसञ्जप्यमानमौनीश्वरप्रियाय नमः । ॐ महत्सगुणरूपैकव्यक्तीकृतनिराकृतये नमः । ॐ मत्स्यकच्छपवाराहनृसिंहाद्यवतारकाय नमः । ॐ मन्त्रमन्त्रार्थमन्त्राङ्गमन्त्रशास्त्रविशारदाय नमः । १०० ॐ मत्तेभवक्त षड्वक्त्र प्रपञ्चवक्त्रैस्सुपूजिताय नमः । ॐ मायाकल्पितविध्यण्डमण्टपान्तर्बहिस्थिताय नमः । ॐ मनोन्मन्यचलेन्द्रोर्ध्वशिखरस्थदिवाकराय नमः । ॐ महेन्द्रसाम्राज्यफलसन्धानाप्तत्रिविक्रमाय नमः । ॐ मातृकामण्डलव्याप्तकृतावरणमध्यगाय नमः । ॐ मनोहरमहानीलमेघश्यामवपुर्धराय नमः । ॐ मध्यकालान्त्यकालादिकालभेदविवर्जिताय नमः । ॐ महासाम्राज्यपट्टाभिषेकोत्सुकहृदाम्बुजाय नमः । १०८ इति मन्त्रवर्णयुत श्रीरामाष्टोत्तरशतनामावलिः समाप्ता ।