अक्षर आकार:

श्रीरामरहस्योक्त श्रीरामाष्टोत्तरशतनामावलिः

shrIrAmarahasyokta shrIrAmAShTottarashatanAmAvaliH

श्रीरामरहस्योक्त श्रीरामाष्टोत्तरशतनामावलिः

ॐ रामाय नमः । ॐ रावणसंहारकृतमानुषविग्रहाय नमः । ॐ कौसल्यासुकृतव्रातफलाय नमः । ॐ दशरथात्मजाय नमः । ॐ लक्ष्मणार्चितपादाब्जाय नमः । ॐ सर्वलोकप्रियङ्कराय नमः । ॐ साकेतवासिनेत्राब्जसंप्रीणनदिवाकराय नमः । ॐ विश्वामित्रप्रियाय नमः । ॐ शान्ताय नमः । ॐ ताटकाध्वान्तभास्कराय नमः । १० ॐ सुबाहुराक्षसरिपवे नमः । ॐ कौशिकाध्वरपालकाय नमः । ॐ अहल्यापापसंहर्त्रे नमः । ॐ जनकेन्द्रप्रियातिथये नमः । ॐ पुरारिचापदलनाय नमः । ॐ वीरलक्ष्मीसमाश्रयाय नमः । ॐ सीतावरणमाल्याढ्याय नमः । ॐ जामदग्न्यमदापहाय नमः । ॐ वैदेहीकृतश‍ृङ्गाराय नमः । ॐ पितृप्रीतिविवर्धनाय नमः । २० ॐ ताताज्ञोत्सृष्टहस्तस्थराज्याय नमः । ॐ सत्यप्रतिश्रवाय नमः । ॐ तमसातीरसंवासिने नमः । ॐ गुहानुग्रहतत्पराय नमः । ॐ सुमन्त्रसेवितपदाय नमः । ॐ भरद्वाजप्रियातिथये नमः । ॐ चित्रकूटप्रियावासाय नमः । ॐ पादुकान्यस्तभूभाराय नमः । ॐ अनसूयाङ्गरागाङ्कसीतासाहित्यशोभिताय नमः । ॐ दण्डकारण्यसञ्चारिणे नमः । ३० ॐ विराधस्वर्गदायकाय नमः । ॐ रक्षःकालान्तकाय नमः । ॐ सर्वमुनिसङ्घमुदावहाय नमः । ॐ प्रतिज्ञातास्शरवधाय नमः । ॐ शरभभङ्गगतिप्रदाय नमः । ॐ अगस्त्यार्पितबाणासखड्गतूणीरमण्डिताय नमः । ॐ प्राप्तपञ्चवटीवासाय नमः । ॐ गृध्रराजसहायवते नमः । ॐ कामिशूर्पणखाकर्णनासाच्छेदनियामकाय नमः । ॐ खरादिराक्षसव्रातखण्डनावितसज्जनाय नमः । ४० ॐ सीतासंश्लिष्टकायाभाजितविद्युद्युताम्बुदाय नमः । ॐ मारीचहन्त्रे नमः । ॐ मायाढ्याय नमः । ॐ जटायुर्मोक्षदायकाय नमः । ॐ कबन्धबाहुदलनाय नमः । ॐ शबरीप्रार्थितातिथये नमः । ॐ हनुमद्वन्दितपदाय नमः । ॐ सुग्रीवसुहृदे नमः । ॐ अव्ययाय नमः । ॐ दैत्यकङ्कालविक्षेप्त्रे नमः । ५० ॐ सप्ततालप्रभेदकाय नमः । ॐ एकेषुहतवालिने नमः । ॐ तारासंस्तुतसद्गुणाय नमः । ॐ कपीन्द्रीकृतसुग्रीवाय नमः । ॐ सर्ववानरपूजिताय नमः । ॐ वायुसूनुसमानीतसीतासन्देशनन्दिताय नमः । ॐ जैत्रयात्रोत्सवाय नमः । जैत्रयात्रोद्यताय ॐ जिष्णवे नमः । ॐ विष्णुरूपाय नमः । ॐ निराकृतये नमः । ६० ॐ कम्पिताम्भोनिधये नमः । ॐ सम्पत्प्रदाय नमः । ॐ सेतुनिबन्धनाय नमः । ॐ लङ्काविभेदनपटवे नमः । ॐ निशाचरविनाशकाय नमः । ॐ कुम्भकर्णाख्यकुम्भीन्द्रमृगराजपराक्रमाय नमः । ॐ मेघनादवधोद्युक्तलक्ष्मणास्त्रबलप्रदाय नमः । ॐ दशग्रीवान्धतामिस्रप्रमापणप्रभाकराय नमः । ॐ इन्द्रादिदेवतास्तुत्याय नमः । ॐ चन्द्राभमुखमण्डलाय नमः । ७० ॐ बिभीषणार्पितनिशाचरराज्याय नमः । ॐ वृषप्रियाय नमः । ॐ वैश्वानरस्तुतगुणावनिपुत्रीसमागताय नमः । ॐ पुष्पकस्थानसुभगाय नमः । ॐ पुण्यवत्प्राप्यदर्शनाय नमः । ॐ राज्याभिषिक्ताय नमः । ॐ राजेन्द्राय नमः । ॐ राजीवसदृशेक्षणाय नमः । ॐ लोकतापपरिहन्त्रे नमः । ॐ धर्मसंस्थापनोद्यताय नमः । ८० ॐ शरण्याय नमः । ॐ कीर्तिमते नमः । ॐ नित्याय नमः । ॐ वदान्याय नमः । ॐ करुणार्णवाय नमः । ॐ संसारसिन्धुसम्मग्नतारकाख्यामहोज्जवलाय नमः । तारकाख्यमनोहराय ॐ मधुरोक्तये नमः । ॐ मृढच्छिन्नमधुरानायकाग्रजाय नमः । ॐ शम्बूकदत्तस्वर्लोकाय नमः । ॐ शम्बरारातिसुन्दराय नमः । ९० ॐ अश्वमेधमहायाजिने नमः । ॐ वाल्मीकिप्रीतिमते नमः । ॐ वशिने नमः । ॐ स्वयंरामायणश्रोत्रे नमः । ॐ पुत्रप्राप्ति प्रमोदिताय नमः । ॐ ब्रह्मादिस्तुतमाहात्म्याय नमः । ॐ ब्रह्मर्षिगणपूजिताय नमः । ॐ वर्णाश्रमरताय नमः । ॐ वर्णाश्रमधर्मनियामकाय नमः । ॐ रक्षापराय नमः । १०० रक्षावहाय ॐ राजवंशप्रतिष्ठापनतत्पराय नमः । ॐ गन्धर्वहिंसासंहारिणे नमः । ॐ धृतिमते नमः । ॐ दीनवत्सलाय नमः । ॐ ज्ञानोपदेष्ट्रे नमः । ॐ वेदान्तवेद्याय नमः । ॐ भक्तप्रियङ्कराय नमः । ॐ वैकुण्ठवासिने नमः । ॐ चराचरविमुक्तिदाय नमः । इति श्रीरामरहस्योक्तं श्रीरामाष्टोत्तरशतनामावलिः समाप्ता ।