अक्षर आकार:

श्रीरामाष्टप्रासस्तुतिः

Shri Ramashtaprasastutih

श्रीरामाष्टप्रासस्तुतिः

कर्ता कञ्जभवात्मना त्रिजगतां भर्ता मुकुन्दात्मना हर्ता यश्च हरात्मनाघमखिलं स्मर्ता च यस्योज्झति । धर्तारं धनुषः शरैस्सह तमादर्तारमार्तान्वयं सर्तारोऽप्यपथे श्रिता रघुपतिं वर्तामहे निर्भयाः ॥ १॥ कारागारसमानसंसृतिनिराकाराय सच्चिन्मयं धीरा यं शरणं व्रजन्ति भुवने नीरागमोहस्मयाः । तारादेवरमुख्यवानरपरीवाराय नीराकर- स्फाराटोपहराय रावणजिते वीराय तस्मै नमः ॥ २॥ किं देवैरितरैः प्रपन्नभरणे सन्देहकृद्भिर्नृणां विन्देयं यदि तान् विमूढ इति मां निन्देयुरार्या न किम् । किं देयं किमदेयमित्यविदुरं तं देहिनामिष्टदं वन्दे कञ्चन वञ्चनामृगरिपुं मन्देतरश्रेयसे ॥ ३॥ गात्रेषु श्रममग्निमान्द्यमुदरे नेत्रे जडत्वं सह श्रोत्रेणादिशती जरा विशति चेत् कोऽत्रेरयेन्मास्त्विति । दात्रे यत्तु नमोऽधुनाऽपि कलये स्तोत्रेण वित्ताशया मैत्रे जन्मजुषे कुले कृतनतिर्नेत्रे तदुज्झाम्यहम् ॥ ४॥ जातो यो मिहिरान्वये नियमिना नीतो मखं रक्षितुं शातोदर्यपि येन गौतममुनेः पूतोपलत्वं जहौ । छातोमापतिकार्मुकं सदसि यं सीतोपलेभे पतिं नातो राघवतोऽपरं शरणमित्यातोद्यमाघोषये ॥ ५॥ नाहं पुत्रकलत्रमित्रविषये स्नेहं विहातुं क्षमः साहङ्कारमिदं मनश्च न कृतोत्साहं गुरूपासने । देहं नश्वरमन्तकस्य न दया हा हन्त तेनोज्झितुं मोहं नौमि रुचा विडम्बितपयोवाहं रघूणां पतिम् ॥ ६॥ श्रीहीनं व्यथयन्ति ये धनमदादेहीति याहीति तान् वाहीकानिव न स्मराम्यपि पतीन् दोहीयसीनां गवाम् । देहीतीरितमन्तरेण ददते यो हीहितं देहिनां पाहीति ब्रुवतो रघूद्वह दयावाही स सेव्योऽसि मे ॥ ७॥ श्रुत्वा वेदशिरांसि तन्निगदितं मत्वा यथावन्नरः स्मृत्वाऽभीक्ष्णमिदं लभेत विशयं हित्वाऽऽत्मसाक्षात्कृतिम् । यत्त्वाह क्रममित्थमागमशिरस्तत्त्वावबोधोदये सत्त्वाकार तदेव राम सुलभं न त्वामनत्वा नृणाम् ॥ ८॥ हन्तुं प्राक्तनदुष्कृतानि जगतां मन्तुं भृशानित्यतां कन्तुं जेतुममुत्र चेह समुपारन्तुं फलेष्वादरात् । यन्तुं सेन्द्रियजातमागमशिरो गन्तुं च वक्त्राद्गुरोः तन्तुं चण्डकरान्वयस्य कलये तं तुङ्गचापं प्रभुम् ॥ ९॥ इति श्रीरामाष्टप्रासस्तुतिः समाप्ता ।