अक्षर आकार:

मन्त्रवर्णाक्षरयुक्त श्रीरामाष्टोत्तरशतनामावलिः

mantravarNAkSharayukta shrIrAmAShTottarashatanAmAvaliH

मन्त्रवर्णाक्षरयुक्त श्रीरामाष्टोत्तरशतनामावलिः

श्रीरामाय नमः । ॐ श्रीमत्सूर्यकुलाम्भोधिवर्धनीयकलानिधये नमः । श्रीमद्ब्रह्मेन्द्ररुद्रादिवन्दनीयजगद्गुरवे नमः । श्रीमत्सौभाग्यसौन्द्रयलावण्याम्बुधिपङ्कजाय नमः । श्रीमच्चिन्तामणीपीठमध्यसिंहासनेश्वराय नमः । श्रीमद्राजाधिराजेन्द्रमुकुटाङ्कितपादुकाय नमः । श्रीमद्धिमाद्रिराजेन्द्रकन्याध्येयपदाम्बुजाय नमः । श्रीजगन्मोहनाकारदिव्यलावण्यविग्रहाय नमः । श्रीश‍ृङ्गाररससम्पूर्णमण्डलान्तस्सुधाकराय नमः । श्रीकण्ठकरकोदण्डपरीक्षितपराक्रमाय नमः । श्रीमत्सृष्ट्यादि विविधकार्यकारणमूर्तिमते नमः । श्रीवत्सलाञ्छनात्यन्तमणिभूषणभूषिताय नमः । श्रीभूनीलालिङ्गनोत्थपुलकाङ्कितविग्रहाय नमः । श्रीमदम्लानतुलसीवनमालाविराजिताय नमः । श्रीसाम्बदेवहृत्पद्मविकासनदिवाकराय नमः । श्रीक्षीरवार्धिपर्यङ्कविहारात्यन्तबालकाय नमः । श्रीमत्सुराराध्यपादयुगपद्मविराजिताय नमः । श्रीकराकारकोदण्डकाण्डोपेतकराम्बुजाय नमः । श्रीजानकीमुखाम्भोजमण्डनीयप्रभाकराय नमः । श्रीराजाधिराजराजेन्द्ररमणीयगुणाकराय नमः । रावणादिवधोद्यक्तविजृम्भितपराक्रमाय नमः ॥ २० राकेन्द्वर्काग्निविमलनेत्रत्रयविभूषिताय नमः । रात्रिञ्चरौघमत्तेभविनिर्भेदमृगेश्वराय नमः । राजत्सौदामिनीतुल्यदिव्यकोदण्डमण्डनाय नमः । रमामनोज्ञवक्षोजदिव्यगन्धसुवासिताय नमः । राक्षसेश्वरसंसेव्यदिव्यश्रीपादपङ्कजाय नमः । राकेन्दुकुलसम्भूतरमणीप्राणनायकाय नमः । रत्ननिर्मितभूषाढ्यचरणाम्बुजशोभिताय नमः । रामाजनमनोहारिदिव्यकन्दर्पविग्रहाय नमः । राघवान्वयसञ्जातनृपश्रेणिशिरोमणये नमः । राकाशशिसमाकारवक्त्रमण्डलमण्डिताय नमः । रावणासुरकासारचण्डभानुशरोत्तमाय नमः । रमावक्षोजकस्तूरिवासनास्वादलोलुपाय नमः । रणत्सङ्गीतसम्पूर्णसहस्रस्तम्भमण्डपाय नमः । रत्नमञ्चस्थसौन्दर्यवनिताजनवेष्टिताय नमः । रणत्किङ्किणिसंशोभिमण्डलीकृतकार्मुकाय नमः । रत्नौघकान्तिविलसड्डोलाखेलनशीलनाय नमः । माणिक्योज्ज्वलसन्दीप्तकुण्डलद्वयमण्डिताय नमः । मन्दस्मिताननाम्भोजमोहितानेकतापसाय नमः । मायामारीचसंहारकारणानन्दविग्रहाय नमः ॥ ४० मकराक्षादिदुस्साध्यदुष्टदर्पापहारकाय नमः । माद्यन्मधुकरव्रातविलसत्केशसंवृताय नमः । मनोबुद्धीन्द्रियप्राणवागादीनां विलक्षणाय नमः । मनस्सङ्कल्पमात्रेण निर्मिताजाण्डकोटिकाय नमः । मारुतात्मजसंसेव्यदिव्यश्रीचरणाम्बुजाय नमः । मायामानुषवेषेण मायिकासुरखण्डनाय नमः । मार्तण्डकोटिज्वलितमकराकारकुण्डलाय नमः । मालतीतुलसीमाल्यवासिताखिलविग्रहाय नमः । मारकोटिप्रतीकाशमहदद्भुतदेहभृते नमः । महनीयदयावेशकलितापाङ्गलोचनाय नमः । मकरन्दरसास्वादमाधुर्यगुणभूषणाय नमः । महादेवसमाराध्यमणिनिर्मितपादुकाय नमः । महामाणिक्यखचिताखण्डतूणीधनुर्धराय नमः । मन्दरोद्भूतदुग्धाब्धिबिन्दुपुञ्जिविभूषणाय नमः । यक्षकिन्नरगन्धर्वस्तूयमानपराक्रमाय नमः । यत्नपूर्वजनानन्दसन्धानचतुरोद्यमाय नमः । यमाद्यष्टाङ्गशीलादियमिहृत्पद्मगोचराय नमः । यशोदाहृदयानन्दसिन्धुपूर्णसुधाकराय नमः । याज्ञवल्क्यादि ऋषिभिस्संसेवितपदद्वयाय नमः । यमलार्जुनपापौघपरिहारिपदाम्बुजाय नमः ॥ ६० याकिनीकुलसम्भूतपीडाजालापहारकाय नमः । यादःपतिपयःक्षेभकारिबाणशरासनाय नमः । यामिनीपद्मिनीनाथकृत श्रीकर्णकुण्डलाय नमः । यातुधानाग्रणीभूतविभीषणवरप्रदाय नमः । यागपावकसञ्जातद्रौपदीमानरक्षकाय नमः । यक्षरक्षःशिक्षणार्थमुद्यद्भीषणसायकाय नमः । यामार्धेन दशग्रीवसैन्यनिर्मूलनास्त्रविदे नमः । यजनानन्दसन्दोहमन्दस्मितमुखाम्बुजाय नमः । यामलागमवेदैकस्तूयमानयशोधनाय नमः । याकिनीसाकिनीस्थानषडाधाराम्बुजाश्रयाय नमः । यतीन्द्रवृन्दसंसेव्यमानाखण्डप्रभाकराय नमः । यथोचितान्तर्यागादिपूजनीयमहेश्वराय नमः । नानावेदादिवेदान्तैः प्रशंसितनिजाकृतये नमः । नारदादिमुनिप्रेमानन्दसन्दोहवर्धनाय नमः । नागराजाङ्कपर्यङ्कशायिसुन्दरविग्रहाय नमः । नागारिमणिसङ्काशदेहकान्तिविराजिताय नमः । नागेन्द्रफणिसोपाननृत्यलीलाविशारदाय नमः । नमद्गीर्वाणमुकुटमणिरञ्जितपादुकाय नमः । नागेन्द्रभूषणप्रेमातिशयप्राणवल्लभाय नमः । नानाप्रसूनविलसद्वनमालाविराजिताय नमः ॥ ८० नवरत्नावलीशोभितापादतलमस्तकाय नमः । नवमल्लीप्रसूनाभिशोभमानशिरोरुहाय नमः । नलिनीशङ्खचक्रासिगदाशार्ङ्गेषुखेटधृते नमः । नादानुसन्धानपरीवलोक्यनिजाकृतये नमः । नरासुरसुरव्रातकृतपूजोपहारकाय नमः । नखकोटिप्रभाजालव्याप्तब्रह्माण्डमण्डपाय नमः । नतश्रीकरसौन्दर्यकरुणापाङ्गवीक्षणाय नमः । नवदूर्वादलश्यामश‍ृङ्गाराकारविग्रहाय नमः । नरकासुरदोर्वंशशौर्यनिर्वापणक्षमाय नमः । नानाप्रपञ्चवैचित्र्यनिर्माणात्यन्तपण्डिताय नमः । माध्याह्न्यार्कप्रभाजालपुञ्जकिञ्जल्कसन्निभाय नमः । मनुवंश्यकिरीटाग्रशोभमानशिरोमणये नमः । मलयाचलसम्भूतदिव्यचन्दनचर्चिताय नमः । मन्दराधारकमठाकारकारणविग्रहाय नमः । महदादिप्रपञ्चान्तर्व्याप्तव्यापारविग्रहाय नमः । महामायासमावेशिताण्डकोटिगणेश्वराय नमः । मरामरेति सञ्जप्यमानमौनीश्वरप्रियाय नमः । महत्सगुणरूपैक्यव्यक्तीकृतनिजाकृतये नमः । मत्स्यकच्छपवाराहनृसिंहाद्यवतारकाय नमः । मन्त्रमन्त्रार्थमन्त्राङ्गमन्त्रशास्त्रविशारदाय नमः ॥ १०० मत्तेभवक्त्रषड्वक्त्रपञ्चवक्त्रैस्सुपूजिताय नमः । मायाकल्पितविध्यण्डमण्डपान्तर्बहिःस्थिताय नमः । मनोन्मण्यचलेन्द्रोर्ध्वशिखरस्थदिवाकराय नमः । महेन्द्रसाम्राज्यफलसन्धानाप्तत्रिविक्रमाय नमः । मातृकामण्डलव्याप्तकृतावरणमध्यगाय नमः । मनोहरमहानीलमेघश्यामवपुर्धराय नमः । मध्यकालान्त्यकालादिकालभेदविवर्जिताय नमः । महासाम्राज्यपट्टाभिषेकोत्सुकहृदम्बुजाय नमः ॥ १०८ श्रीरामाय नमः । इति मन्त्रक्षरघटिताद्याक्षराष्टोत्तरशतनामावलिः समाप्ता ।