अक्षर आकार:

श्रीलक्ष्मणकवचम्

shrIlaxmaNakavacham

श्रीलक्ष्मणकवचम्

॥ अथ श्रीमदानन्दरामायणांतर्गत श्री लक्ष्मण कवचं ॥ अगस्तिरुवाच- सौमित्रिं रघुनायकस्य चरण द्वन्द्वेक्षणं श्यामळं । बिभ्रण्तं स्वकरेण रामशिरसि छत्रं विचित्रं वरं। बिभ्रन्तं रघुनायकस्य सुमहत् कोदण्ड बाणासने तं वन्दे कमलेक्षणं जनकजा वाक्ये सदा तत्परं ॥ अस्य श्री लक्ष्मणकवच मन्त्रस्य अगस्त्य ऋषिः । अनुष्टुप् छन्दः । श्री लक्ष्मणो देवता । शेष इति बीजं । सुमित्रा नन्दनः इति शक्तिः । रामानुज इति कीलकं । रामदास इत्यस्त्रं । रघुवंशज इति कवचं । सौमित्रिरिति मन्त्रः । श्रीलक्ष्मण प्रीत्यर्थं सकलमनोभिलषित सिद्ध्यर्थं जपे विनियोगः ॥ अथ अङ्गुळी न्यासः ॥ ॐ लक्ष्मणाय अङ्गुष्ठाभ्यां नमः । ॐ शेषाय तर्जनीभ्यां नमः । ॐ सुमित्रानन्दनाय मध्यमाभ्यां नमः । ॐ रामानुजाय अनामिकाभ्यां नमः । ॐ रामदासाय कनिष्ठिकाभ्यां नमः । ॐ रघुवंशजाय करतल करपृष्ठाभ्यां नमः ॥ हृदयादिन्यासः ॥ ॐ लक्ष्मणाय हृदयाय नमः । ॐ शेषाय शिरसे स्वाहा । ॐ सुमित्रानन्दनाय शिखायै वषट् । ॐ रामानुजाय कवचाय हुं । ॐ रामदासाय नेत्रत्रयाय वौषट् । ॐ रघुवंशजाय अस्त्राय फट् । ॐ सौमित्रये इति दिग्बन्धः ॥ अथ ध्यानम् ॥ रामपृष्ठ स्थितं रम्यं रत्नकुण्डल धारिणं । नीलोत्पल दळश्यामं रत्नकङ्कण मण्डितं ॥ १॥ रामस्य मस्तके दिव्यं बिभ्रन्तं छत्रमुत्तमं । वर पीताम्बरधरं मुकुटेनादि शोभितं ॥ २॥ तूणीरे कार्मुके चापि बिभ्रन्तं च स्मिताननं । रत्नमालाधरं दिव्यं पुष्पमाला विराजितं ॥ ३॥ एवं ध्यात्वा लक्ष्मणंच राघव न्यस्त लोचनं । कवचं जपनीयं हि ततो भक्त्यात्र मानवैः ॥ ४॥ ॐ ॥ लक्ष्मणः पातु मे पूर्वे दक्षिणे राघवानुजः । प्रतीच्यां पातुः सौमित्रिः पातुदीच्यां रघूत्तमः ॥ ५॥ अधः पातु महावीरः चोर्ध्वं पातु नृपात्मजः । मध्ये पातु रामदासः सर्वतः सत्यपालकः ॥ ६॥ स्मिताननः शिरः पातु भालं पातूर्मिला धवः । भृवोर् मध्ये धनुर्धारी सुमित्रा नन्दनोक्षिणी ॥ ७॥ कपोले रममन्त्रीच सर्वदा पातु वै मम । कर्णमूले सदा पातु कबन्ध भुज गण्डनः ॥ ८॥ नासाग्रं मे सदा पातु सुमित्रा नन्दवर्धनः । राम न्यस्तेक्षणः पातु सदा मेत्र मुखं भुवि ॥ ९॥ सीतावाक्यकरः पातु मम वाणीं सदात्र हि । सौम्यरूपः पातु जिह्वां अनन्तः पातु मे द्विजान् ॥ १०॥ चिबुकं पातु रक्षोघ्नः कण्ठं पात्वसुरार्दनः । स्कन्धौ पातु जितारातिः भुजौ पङ्कजलोचनः ॥ ११॥ करौ कङ्कणधारी च नखान् रक्तनखो वतु । कुक्षिं पातु विनिद्रो मे वक्षः पातु जितेन्द्रियः ॥ १२॥ पार्श्वे राघव पृष्ठिस्थ पृष्ठदेशं मनोरमः । नाभिं गंभीर नाभिस्तु कटिं च ऋक्ममेखलः ॥ १३॥ गुह्यं पातु सहस्रास्यः पातु लिङ्गं हरिप्रियः । ऊरू पातु विष्णुतल्पः सुमुखोवतु जानुनी ॥ १४॥ नागेन्द्रः पातु मे जङ्घे गुल्फौ नूपुरवान् मम । पादावङ्गद तातोव्यात् पात्वङ्गानि सुलोचनः ॥ १५॥ इति श्री शतकोटिरामचरितांतर्गत श्रीमदानन्दरामायणे वाल्मिकीये मनोहरकाण्डे श्री लक्ष्मणकवचं सम्पूर्णं ॥