अक्षर आकार:

लक्ष्मणसहस्रनामस्तोत्रम् भुषुण्डिरामायणान्तर्गतम्

lakShmaNasahasranAmastotram from bhuShuNDirAmAya

लक्ष्मणसहस्रनामस्तोत्रम् भुषुण्डिरामायणान्तर्गतम्

पञ्चदशोऽध्यायः वसिष्ठ उवाच - इदानीं तव पुत्रस्य द्वितीयस्य महात्मनः । नामसाहस्रकं वक्ष्ये सुगोप्यं दैवतैरपि ॥ १॥ एष साक्षाद्धरेरंशो देवदेवस्य शार्ङ्गिणः । var देवरामस्य यः शेष इति विख्यातः सहस्रवदनो विभुः ॥ २॥ तस्यैतन्नामसाहस्रं वक्ष्यामि प्रयतः श‍ृणु । लक्ष्मणः शेषगः शेषः सहस्रवदनोऽनलः ॥ ३॥ संकर्षणः कालरूपः सहस्रार्चिर्महानलः । कालरूपो दुराधर्षो बलभद्रः प्रलम्बहा ॥ ४॥ कृतान्तः कालवदनो विद्युज्जिह्वो विभावसुः । कालात्मा कलनात्मा च कलात्मा सकलोऽकलः ॥ ५॥ कुमारब्रह्यचारी च रामभक्तः शुचिव्रतः । निराहारो जिताहारो जितनिद्रो जितासनः ॥ ६॥ महारुद्रो महाक्रोधो इन्द्रजित्प्राणनाशकः । सीताहितप्रदाता च रामसौख्यप्रदायकः ॥ ७॥ यतिवेशो वीतभयः सुकेशः केशवः कृशः । कृष्णांशो विमलाचारः सदाचारः सदाव्रतः ॥ ८॥ var कृशांशो बर्हावतंसो विरतिर्गुञ्जाभूषणभूषितः । शेषाचलनिवासो च शेषाद्रिः शेषरूपधृक् ॥ ९॥ अधोहस्तः प्रशान्तात्मा साधूनां गतिदर्शनः । सुदर्शनः सुरूपाङ्गो यज्ञदोषनिवर्तनः ॥ १०॥ अनन्तो वासुकिर्नागो महीभारो महीधरः । var वासुकीनागो कृतान्तः शमनत्राता धनुर्ज्याकर्षणोद्भटः ॥ ११॥ महाबलो महावीरो महाकर्मा महाजवः । जटिलस्तापसः प्रह्वः सत्यसन्धः सदात्मकः ॥ १२॥ शुभकर्मा च विजयी नरो नारायणाश्रयः । वनचारी वनाधारो वायुभक्षो महातपाः ॥ १३॥ सुमन्त्रो मन्त्रतत्त्वज्ञः कोविदो राममन्त्रदः । सौमित्रेयः प्रसन्नात्मा रामानुव्रत ईश्वरः ॥ १४॥ रामातपत्रभृद् गौरः सुमुखः सुखवर्द्धनः । रामकेलिविनोदी च रामानुग्रहभाजनः ॥ १५॥ दान्तात्मा दमनो दम्यो दासो दान्तो दयानिधिः । आदिकालो महाकालः क्रूरात्मा क्रूरनिग्रहः ॥ १६॥ वनलीलाविनोदज्ञो विछेत्ता विरहापहः । भस्माङ्गरागधवलो यती कल्याणमन्दिरः ॥ १७॥ अमन्दो मदनोन्मादी महायोगी महासनः । खेचरीसिद्धिदाता च योगविद्योगपारगः ॥ १८॥ विषानलो विषह्यश्च कोटिब्रह्माण्डदाहकृत् । var विषयश्च अयोध्याजनसंगीतो रामैकानुचरः सुधीः ॥ १९॥ रामाज्ञापालको रामो रामभद्रः पुनीतपात् । अक्षरात्मा भुवनकृद् विष्णुतुल्यः फणाधरः ॥ २०॥ प्रतापी द्विसहस्राक्षो ज्वलद्रूपो विभाकरः । दिव्यो दाशरथिर्बालो बालानां प्रीतिवर्द्धनः ॥ २१॥ वाणप्रहरणो योद्धा युद्धकर्मविशारदः । निषङ्गी कवची दृप्तो दृढवर्मा दृढव्रतः ॥ २२॥ दृढप्रतिज्ञः प्रणयी जागरूको दिवाप्रियः । तामसी तपनस्तापी गुडाकेशो धनुर्द्धरः ॥ २३॥ शिलाकोटिप्रहरणो नागपाशविमोचकः । त्रैलोक्यहिंसकर्त्ता च कामरूपः किशोरकः ॥ २४॥ कैवर्तकुलविस्तारः कृतप्रीतिः कृतार्थनः । var कुलनिस्तारः कौपीनधारी कुशलः श्रद्धावान् वेदवित्तमः ॥ २५॥ व्रजेश्वरोमहासख्यः कुञ्जालयमहासखः । भरतस्याग्रणीर्नेता सेवामुख्यो महामहः ॥ २६॥ मतिमान् प्रीतिमान् दक्षो लक्ष्मणो लक्ष्मणान्वितः । हनुमत्प्रियमित्रश्च सुमित्रासुखवर्द्धनः ॥ २७॥ रामरूपो राममुखो रामश्यामो रमाप्रियः । रमारमणसंकेती लक्ष्मीवाँल्लक्ष्मणाभिधः ॥ २८॥ जानकीवल्लभो वर्यः सहायः शरणप्रदः । वनवासप्रकथनो दक्षिणापथवीतभीः ॥ २९॥ विनीतो विनयी विष्णुवैष्णवो वीतभीः पुमान् । पुराणपुरुषो जैत्रो महापुरुषलक्ष्मणः ॥ ३०॥ var लक्षणः महाकारुणिको वर्मी राक्षसौघविनाशनः । आर्तिहा ब्रह्मचर्यस्थः परपीडानिवर्त्तनः ॥ ३१॥ पराशयज्ञः सुतपाः सुवीर्यः सुभगाकृतिः । वन्यभूषणनिर्माता सीतासन्तोषवर्द्धनः ॥ ३२॥ राधवेन्द्रो रामरतिर्गुप्त सर्वपराक्रमः । var रतिर्युक्त दुर्द्धर्षणो दुर्विषहः प्रणेता विधिवत्तमः ॥ ३३॥ त्रयीमयोऽग्निमयः त्रेतायुगविलासकृत् । दीर्घदंष्ट्रो महादंष्ट्रो विशालाक्षो विषोल्वणः ॥ ३४॥ सहस्रजिह्वाललनः सुधापानपरायणः । गोदासरित्तरङ्गार्च्यो नर्मदातीर्थपावनः ॥ ३५॥ श्रीरामचरणसेवी सीतारामसुखप्रदः । रामभ्राता रामसमो मार्त्तण्डकुलमण्डितः ॥ ३६॥ गुप्तगात्रो गिराचार्यो मौनव्रतधरः शुचिः । शौचाचारैकनिलयो विश्वगोप्ता विराड् वसुः ॥ ३७॥ क्रुद्धः सन्निहितो हन्ता रामार्चापरिपालकः । जनकप्रेमजामाता सर्वाधिकगुणाकृतिः ॥ ३८॥ सुग्रीवराज्यकाङ्क्षी च सुखरूपी सुखप्रदः । आकाशगामी शक्तीशोऽनन्तशक्तिप्रदेर्शनः ॥ ३९॥ var शक्तिष्टो द्रोणाद्रिमुक्तिदोऽचिन्त्यः सोपकारजनप्रियः । कृतोपकारः सुकृती सुसारः सारविग्रहः ॥ ४०॥ सुवंशो वंशहस्तश्च दण्डी चाजिनमेखली । कुण्डो कुन्तलभृत् काण्डः प्रकाण्डः पुरुषोत्तमः ॥ ४१॥ सुबाहुः सुमुखः स्वङ्गः सुनेत्रः सम्भ्रमो क्षमी । वीतभीर्वीतसङ्कल्पो रामप्रणयवारणः ॥ ४२॥ वद्धवर्मा महेश्वासो विरूढः सत्यवाक्तमः । समर्पणी विधेयात्मा विनेतात्मा क्रतुप्रियः ॥ ४३॥ अजिनी ब्रह्मपात्री च कमण्डलुकरो विधिः । नानाकल्पलताकल्पो नानाफलविभूषणः ॥ ४४॥ काकपक्षपरिक्षेपी चन्द्रवक्त्रः स्मिताननः । सुवर्णवेत्रहस्तश्च अजिह्मो जिह्मगापहः ॥ ४५॥ कल्पान्तवारिधिस्थानो बीजरूपो महाङ्कुरः । रेवतीरमणो दक्षो वाभ्रवी प्राणवल्लभः ॥ ४६॥ कामपालः सुगौराङ्गो हलभृत् परमोल्वणः । कृत्स्नदुःखप्रशमनो विरञ्जिप्रियदर्शनः ॥ ४७॥ दर्शनीयो महादर्शो जानकीपरिहासदः । जानकोनर्मसचिवो रामचारित्रवर्द्धनः ॥ ४८॥ लक्ष्मीसहोदरोदारो दारुणः प्रभुरूर्जितः । ऊर्जस्वलो महाकायः कम्पनो दण्डकाश्रयः ॥ ४९॥ द्वीपिचर्मपरीधानो दुष्टकुञ्जरनाशनः । पुरग्राममहारण्यवटीद्रुमविहारवान् ॥ ५०॥ निशाचरो गुप्तचरो दुष्टराक्षसमारणः । रात्रिञ्जरकुलच्छेत्ता धर्ममार्गप्रवर्तकः ॥ ५१॥ शेषावतारो भगवान् छन्दोमूतिर्महोज्ज्वलः । अहृष्टो हृष्टवेदाङ्गो भाष्यकारः प्रभाषणः ॥ ५२॥ भाष्यो भाषणकर्ता च भाषणीयः सुभाषणः । शब्दशास्त्रमयो देवः शब्दशास्त्रप्रवर्त्तकः ॥ ५३॥ शब्दशास्त्रार्थवादी च शब्दज्ञः शब्दसागरः । शब्दपारायणज्ञानः शब्दपारायणप्रियः ॥ ५४॥ प्रातिशाख्यो प्रहरणो गुप्तवेदार्थसूचकः । दृप्तवित्तो दाशरथिः स्वाधीनः केलिसागरः ॥ ५५॥ गैरिकादिमहाधातुमण्डितश्चित्रविग्रहः । चित्रकूटालयस्थायी मायी विपुलविग्रहः ॥ ५६॥ जरातिगो जराहन्ता ऊर्ध्वरेता उदारधीः । मायूरमित्रो मायूरो मनोज्ञः प्रियदर्शनः ॥ ५७॥ मथुरापुरनिर्माता कावेरीतटवासकृत् । कृष्णातीराश्रमस्थानो मुनिवेशो मुनीश्वरः ॥ ५८॥ मुनिगम्यो मुनीशानो भुवनत्रयभूषणेः । आत्मध्यानकरो ध्याता प्रत्यक्सन्ध्याविशारदः ॥ ५९॥ वानप्रस्थाश्रमासेव्यः संहितेषु प्रतापधृक । उष्णीषवान् कञ्चुकी च कटिबन्धविशारदः ॥ ६०॥ मुष्टिकप्राणदहनो द्विविदप्राणशोषणः । var प्रानहननो उमापतिरुमानाथ उमासेवनतत्परः ॥ ६१॥ वानरव्रातमध्यस्थो जाम्बुवद्गणसस्तुतः । जाम्बुवद्भक्तसुखदो जाम्बुर्जाम्बुमतीसखः ॥ ६२॥ जाम्बुवद्भक्तिवश्यश्च जाम्बूनदपरिष्कृतः । कोटिकल्पस्मृतिव्यग्रो वरिष्ठो वरणीयभाः ॥ ६३॥ श्रीरामचरणोत्सङ्गमध्यलालितमस्तकः । सीताचरणसंस्पर्शविनीताध्वमहाश्रमः ॥ ६४॥ समुद्रद्वीपचारी च रामकैङ्कर्यसाधकः । केशप्रसाधनामर्षी महाव्रतपरायणः ॥ ६५॥ रजस्वलोऽतिमलिनोऽवधूतो धूतपातकः । पूतनामा पवित्राङ्गो गङ्गाजलसुपावनः ॥ ६६॥ हयशीर्षमहामन्त्रविपश्चिन्मन्त्रिकोत्तमः । विषज्वरनिहन्ता च कालकृत्याविनाशनः ॥ ६७॥ मदोद्धतो महायानो कालिन्दीपातभेदनः । कालिन्दीभयदाता च खट्वाङ्गी मुखरोऽनलः ॥ ६८॥ तालाङ्कः कर्मविख्यातिर्धरित्रीभरधारकः । मणिमान् कृतिमान् दीप्तो बद्धकक्षो महातनुः ॥ ६९॥ उत्तुङ्गो गिरिसंस्थानो राममाहात्म्यवर्द्धनः । कीर्तिमान् श्रुतिकीर्तिश्च लङ्काविजयमन्त्रदः ॥ ७०॥ लङ्काधिनाथविषहो विभीषणगतिप्रदः । मन्दोदरीकृताश्चर्यो राक्षसीशतघातकः ॥ ७१॥ कदलीवननिर्माता दक्षिणापथपावनः । कृतप्रतिज्ञो बलवान् सुश्रीः सन्तोषसागरः ॥ ७२॥ कपर्दी रुद्रदुर्दर्शो विरूपवदनाकृतिः । रणोद्धुरो रणप्रश्नी रणघण्टावलम्बनः ॥ ७३॥ क्षुद्रघण्टानादकटिः कठिनाङ्गो विकस्वरः । वज्रसारः सारधरः शार्ङ्गी वरुणसंस्तुतः ॥ ७४॥ समुद्रलङ्घनोद्योगी रामनामानुभाववित् । धर्मजुष्टो घृणिस्पृष्टो वर्मी वर्मभराकुलः ॥ ७५॥ धर्मयाजो धर्मदक्षो धर्मपाठविधानवित् । रत्नवस्त्रो रत्नधौत्रो रत्नकौपीनधारकः ॥ ७६॥ लक्ष्मणो रामसर्वस्वं रामप्रणयविह्वलः । सबलोऽपि सुदामापि सुसखा मधुमङ्गलः ॥ ७७॥ रामरासविनोदज्ञो रामरासविधानवित् । रामरासकृतोत्साहो रामराससहायान् ॥ ७८॥ वसन्तोत्सवनिर्माता शरत्कालविधायकः । रामकेलीभरानन्दी दूरोत्सारितकण्टकः ॥ ७९॥ इतीदं तव पुत्रस्य द्वितीयस्य महात्मनः । यः पठेन्नामसाहस्रं स याति परमं पदम् ॥ ८०॥ पीडायां वापि सङ्ग्रामे महाभय उपस्थिते । यः पठेन्नामसाहस्रं लक्ष्मणस्य महौ मेधय । स सद्यः शुभमाप्नोति लक्ष्मणस्य प्रसादतः ॥ ८१॥ सर्वान् दुर्गान् तरत्याशु लक्ष्मणेत्येकनामतः । द्वितीयनामोज्वारेण देवं वशयति ध्रुवम् ॥ ८२॥ पठित्वा नामसाहस्रं शतावृत्या समाहितः । प्रतिनामाहुतिं दत्वा कुमारान् भोजयेद्दश ॥ ८३॥ सर्वान् कामानवाप्नोति रामानुजकृपावशात् । लक्ष्मणेति त्रिवर्गस्य महिमा केन वर्ण्यते ॥ ८४॥ यच्छ्रुत्वा जानकीजानेर्हदि मोदो विवर्द्धते । यथा रामस्तथा लक्ष्मीर्यथा श्रीर्लक्ष्मणस्तथा ॥ ८५॥ var लक्ष्म्या यथा रामद्वयोर्न भेदोऽस्ति रामलक्ष्मणयोः क्वचित् । एष ते तनयः साक्षाद्वामेण सह सङ्गतः ॥ ८६॥ हरिष्यति भुवो भारं स्थाने स्थाने वने वने । द्रष्टव्यो निधिरेवासौ महाकीर्तिप्रतापयोः ॥ ८७॥ रामेण सहितः क्रीडां बह्वीं विस्तारयिष्यति । var बाह्वीं रामस्य कृत्वा साहाय्यं प्रणयं चार्चयिष्यति ॥ ८८॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे लक्ष्मणसहस्रनामकथनं नाम पञ्चदशोऽध्यायः ॥ १५॥