अक्षर आकार:

श्रीकोदण्डपाणिसुप्रभातम्

Shri Kodandapani Suprabhatam

श्रीकोदण्डपाणिसुप्रभातम्

वन्दे वेङ्कटशेषार्यवत्सवंशशिरोमणिम् । वात्स्यश्रीवरदाचार्यतनयं करुणानिधिम् ॥ श्रीरामचन्द्र करुणावरुणालय श्री- सीतामुखाम्बुजविकासक बालसूर्य!। सौमित्रिमित्र ! भरताभिरताप्तमित्र ! शत्रुघ्न हे ! रघुपते ! तव सुप्रभातम् ॥ १॥ भास्वानुदेति विकचानि सरोरुहाणि पश्य स्मरन् मधुरकृजितषड्पदानि । त्वद्वीक्षणोन्मिषितनाभिसरोजवेधो वेदध्वनेः रघुपते ! तव सुप्रभातम् ॥ २॥ त्वां बोधयन्ति परितः श्रुतयः श्रुतीनां सारेण सानुज! भवत्प्रतिबोधकेन । श्लोकेन कौशिक मुखोद्गलितेन कर्ण- पीयूषवद्रघुपते ! तव सुप्रभातम् ॥ ३॥ त्वां बोधयन्ति विबुधाः श्रुतिभोग्यवेणु- वीणामृदङ्गपणवादिततानुवादैः । स्तोत्रैर्धरासुरवरस्तुतिघोषमित्रैः आकर्ण्यतां रघुपते ! तव सुप्रभातम् ॥ ४॥ उद्यानवासरसिकाः शुकशारिकाद्याः हृद्या हरेहरिरिति द्विजघोषहृद्यैः । हृद्यां मुदं विदधतीह तवापदान- पद्यैर्द्विजाः रघुपते ! तव सुप्रभातम् ॥ ५॥ ब्रह्मा शिवश्शतमखश्च मखाशनौघैः त्वद्धाम गोपुरभुवि प्रतिपालयन्ति । त्वत्पादपङ्कजसिषेविषवोऽविशेष- भक्तैर्द्विजै रघुपते ! तव सुप्रभातम् ॥ ६॥ सूर्येन्दुसन्निधिवशादिव देवसङ्घः सोत्फुल्लवक्त्रकमलाञ्जलिकुड्मलोकैः । मन्दारसुन्दरकरैः प्रतिपाल्यतेऽर्चा- बद्धादरैः रघुपते ! तव सुप्रभातम् ॥ ७॥ तीर्थाभिषेकपरिशुद्धधियोऽर्चकास्ते पूर्णाभिषेककलशाः परिचारकाश्च । स्तुत्वा भवन्तमभिषेकमुखोपचार- चर्योत्सुका रघुपते ! तव सुप्रभातम् ॥ ८॥ सीतामुखेन्दुसविधेऽपि सदा प्रसन्नं मन्दस्मितेन मधुरं सुधयेव लोकैः । लम्बाळकाळिललितं तव वक्त्रपद्मं संशोभतां रघुपते ! तव सुप्रभातम् ॥ ९॥ श्रीकोसलेश्वरपुराकृतभाग्यराशे ! श्रीकोसलेन्द्रतनयानयनाभिराम!। साकेतसाधुकुलकाङ्क्षितकल्पकश्रीः ! सीतामनोहरमणे ! तव सुप्रभातम् ॥ १०॥ उद्दण्डशौण्डभुजखण्डितखण्डपर्शु- कोदण्डचण्डरवपिण्डितसाण्डजाण्ड!। कोदण्डदण्डवरमण्डितबाहुदण्ड ! श्रीखण्डचर्चिततनो ! तव सुप्रभातम् ॥ ११॥ इत्थं वेङ्कटशेषेण सुप्रभातस्तुतिः कृता । श्रीरामचरणाम्भोजयुगभूषा समर्पिता ॥ १२॥ नीलोत्पलानि सरसीष्विह सङ्कुचन्ति सापत्रपाणि तव दृग्तुलयोर्विलासे । धामानि ते च विकचानि सरोरुहाणि श्रीरामचन्द्रदयिते ! तव सुप्रभातम् ॥ १३॥ प्रातस्सुवर्णमणिदर्पणनायिकास्य वीक्षां वदन्ति सुधियः शुभमेव पत्युः । सर्वं त्वदाननविलोकनतोऽस्य सिध्येत् उत्तिष्ठ मैथिलसुते ! तव सुप्रभातम् ॥ १४॥ ॥ इति श्रीकोदण्डपाणिसुप्रभातं समाप्तम् ।