अक्षर आकार:

आनन्द रामायण पञ्चमः सर्गः अथवा रामरक्षा

Ananda rAmAyaNe pa~nchamaH sargaH evaM rAmarakShA

आनन्द रामायण पञ्चमः सर्गः अथवा रामरक्षा

श्री शतकोटि रामचरितान्तर्गत श्रीमदानन्दरामायणे पञ्चमः सर्गः प्रारंभः । विष्णुदास उवाच - श्री रामरक्षया प्रोक्तं कुशायह्यभिमन्त्रणम् । कृतं तेनैव मुनिना गुरो तां मे प्रकाशय ॥ १॥ रामरक्षां वरां पुण्यां बालानां शान्तिकारिणीम् । इति शिष्यवचः श्रुत्वा रामदासोऽप्रवीद्वचः ॥ २॥ श्रीरामदास उवाच - सम्यक् पृष्टं त्वया शिष्य रामरक्षाऽधुनोच्यते । या प्रोक्ता शंभुना पूर्वं स्कन्दार्थं गिरिजां प्रति ॥ ३॥ श्री शिव उवाच - देव्यद्य स्कन्दपुत्राय रामरक्षाभिमन्त्रिणम् । कुरु तारकधाताय समर्थोऽयं भविष्यति ॥ ४॥ इत्युक्त्वा कथयामास रामरक्षां शिवः स्त्रियै । नमस्कृताय रामचन्द्रं शुचिर्भूत्वा जितेन्द्रियैः ॥ ५॥ अथ ध्यानम् । वामे कोदण्डदण्डं निजकरकमले दक्षिणे बाणमेकं । पश्चाद्भागे च नित्यं दधतमभिमतं सासितूणीरभारम् । वामेऽवामे वसद्भ्यां सह मिलिततनुं जानकीलक्ष्मणाभ्याम् । श्यामं रामं भजेऽहं प्रणत जनमनः खेदविच्छेददक्षम् ॥ ६॥ ॐ अस्य श्री रामरक्षास्तोत्रमन्त्रस्य बुधकौशिक ऋषिः । श्री रामचन्द्रो देवता राम इति बीजम् । अनुष्टुप् छन्दः । श्री राम प्रीत्यर्थे जपे विनियोगः॥ ॥ ॐ॥ चरितं रघुनाथस्य शतकोटि प्रविस्तरम् । एकैकमक्षरं पुंसां महापातकनाशनम् ॥ ७॥ ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् । जानकी - लक्ष्मणोपेतं जटामुकुटमण्डितम् ॥ ८॥ सासितूण धनुर्बाण पाणिं नक्तञ्चरान्तकम् । स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥ ९॥ रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् । शिरो मे राघवः पातु भालं दशरथात्मजः ॥१०॥ कौसल्येयो दृशौ पातु-विश्वामित्रप्रियः श्रुती । घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥११॥ जिह्वां विधानिधिः पातु कण्ठं भरतवन्दितः । स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥ १२॥ करौ सीतापतिः पातु हृदयं जामदग्न्यजित् । पार्श्वे रघुवरः पातु कुक्षी इक्ष्वाकुनन्दनः ॥ १३ ॥ (जादा चरण) मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः । सुग्रीवेशः कटिं पातु सक्थिनी हनुमत्प्रभुः ॥ १४॥ उरू रघूत्तमः पातु गुह्यं रक्षः कुलान्तकृत् । जानुनी सेतुकृत् पातु जङ्घे दशमुखान्तकः ॥ १५॥ पादौ बिभीषणश्रीदः पातु रामोऽखिलं वपुः । एतां रामबलोपेतां रक्षां यः सुकृती पठेत्॥ स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥ १६॥ पातालभूतलव्योम चारिणश्छद्मचारिणः । न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥ १७॥ रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् । नरो न लिप्यते पापैउर्भुक्तिं मुक्तिं च विन्दति ॥ १८॥ जगच्चैकमन्त्रेण रामनाम्नाऽभिरक्षितम् । यः कण्ठे धरयेत्तस्य करस्थाः सर्वसिद्धयः ॥ १९॥ वज्रपञ्जरनामेदं यो रामकवचं पठेत् । अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् ॥ २०॥ आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः । तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥ २१॥ रामो दशरथिः शूरो लक्ष्मणाऽनुचरो बली॥ काकुत्त्स्थः पुरुषः पूर्णः कौसल्यानन्दवर्धनः ॥ २२॥ वेदान्तवेधो यज्ञेशः पुराणपुरुषोत्तमः । जानकीवल्लभः श्रीमानप्रमेय पराक्रमः ॥ २३॥ इत्येतानि जपेन्नित्यं यद्भक्तः श्रद्धयान्वितः । अश्वमेधधिकं पुण्यं लभते नात्रसंशयः ॥ २४॥ सन्नध्हः कवची खड्गी चायबाणधरो युवा । गच्छन् मनोरथोऽस्माकं रामः पातु सलक्ष्मणः ॥ २५॥ तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ । पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥ २६॥ फलमूलाशनौ दान्तौ तापसौ ब्रह्मचारिणौ । पुत्रौ दशरथस्यैतौ भ्रतरौ रामलक्ष्मणौ ॥ २७॥ धन्विनौ बद्धनिस्त्रिंशौ काकपक्षधरौ श्रुतौ । वरौ मां पथि रक्षेतां तावुबौ रामलक्ष्मणौ ॥ २८॥ शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्व धनुष्मताम् । रक्षः कुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥ २९॥ आत्तसज्जधनुषा विषुस्पृशा वक्षयाशुगनिषङ्ग सङ्गिनौ । रक्षणाय मम रामलक्ष्मणा वग्रतः पथि सदैव गच्छताम् ॥ ३०॥ आरामः कल्पवृक्षाणां विरामः सकलपदाम् । अभिरामस्त्रिलोकानं रामः श्रीमान्स नः प्रभुः ॥ ३१॥ रामाय रामभद्राय रामचन्द्राय वेधसे । रघुनाथय नाथाय सीतयाः पतये नमः ॥ ३२॥ श्री राम रघुनन्दन राम राम श्री राम भरताग्रज राम राम श्री राम रणकर्कश राम राम श्री राम शरणं भव राम राम ॥ ३३॥ लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथं कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ॥ ३४॥ दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा । पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥ ३५ गोष्पदीकृतवारीशं मशकीकृरराक्षसम् । रामायणमहामाला रत्नं वन्देऽनिलात्मजम् ॥ ३६॥ अघौध तिष्ठ दूरे त्वं रोगास्तिष्ठन्तु दूरतः । वरीवर्ती सदाऽस्माकं हृदि रमो धनुर्धरः ॥ ३७॥ मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूतमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥ ३८॥ राम राम तव पाद पङ्कजं चिन्तयामि भवबन्धमुक्तये । वन्दितं सुरनरेन्द्रमौलिभिर्ध्यायितं मनसि योगिभिः सदा ॥ ३७॥ रामं लक्षमणपूर्वजं रघुवरं सीतापतिं सुन्दरम् । काकुत्स्यं करुणार्णवं गुणनिधिं विप्रप्रियं धर्र्मिकम् । राजेन्द्रं सत्यसन्धं दशरथनयं शामलं शान्तिमूर्तिम् । वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥ ४०॥ एतानि रामनामानी प्रातरुत्थाय यः पठेत् । अपुत्रो लभते पुत्रं धनार्थी लभते धनम् ॥ ४१॥ माता रामो मत्पिता रामचन्द्रः स्वामी रामो मत्सखा रामचन्द्रः । सर्वस्वं मे रामचन्द्रो दयालुर्नान्यं जाने नैव जाने न जाने ॥ ४२॥ श्रीरामनामामृत मन्त्रबीज सञ्जीवनी चेन्मनसि प्रविष्टा । हालाहलं वा प्रलयानलं वा मृत्योर्मुखं वा विशतां कुतो भीः ॥ ४३॥ श्रीशब्दपूर्वं जयशब्दमध्यं जयद्वयेनापि पुनः प्रयुक्तम् । त्रिःसप्तकृत्वो रघुनाथ नाम जपान्निहन्याद्द्विजकोटिहत्याः ॥ ४४॥ एवं गिरीन्द्रजे प्रोक्ता रामरक्षा मया तव । मयोपदिष्टा या स्वप्ने विश्वामित्राय वै पुरा ॥ ४५॥ रामदास उवाच - एवं शिवेनोपदिष्टं श्रुत्वा देवी गिरीन्द्रजा । रामरक्षां पठित्वा सा स्कन्दं समभिमन्त्रयत् ॥ ४६॥ तस्यास्तेजोबलेनैव जघान तारकासुरम् । षडाननः क्षणदेव कृतकृत्योऽभवत् पुरा ॥ ४७॥ सैवेयं रामरक्षास्ते मयाख्याताऽतिपुण्यदा । यस्याः श्रवणमत्रेण कस्यापि न भयं भवेत् ॥ ४८॥ वाल्मिकीनाऽनयापूर्वं कुशायह्यभिशेचनम् । कृतं बालग्रहाणां च शान्त्यर्थं सा मयोदिता ॥ ४९॥ बालानां ग्रहशान्त्यर्थं जपनीया निरन्तरम् । रामरक्षा महाश्रेष्ठा महाघौघ निवारिणी ॥ ५०॥ नास्याः परतरं स्तोत्रं नास्याः परतरो जपः । नास्याः परतरं किञ्चित्सत्यं सत्यं वदाम्यहम् ॥ ५१॥ ॥ इति श्री शतकोटि रामचरितान्तर्गत श्रीमदानन्दरामायणे वाल्मीकीये जन्मकाण्डे रामरक्षाकथनं नाम पञ्चमः सर्गः ॥ ( सन्दर्भ : आनन्द रामायण - ( जन्मकाण्ड - ५ वा सर्ग ) भटिया शालीय ठक्कर गोवर्धनदास लक्ष्मीदास यान्नी मुंबई येथे जगदीश्वर छापखान्यात लोकहितार्थ छापवून प्रसिद्ध केला शके १८०८ सन् १८८७ छापील पोथी : ग्रन्थालय ग्रन्थ क्र १०३ / १४५ ) इ. स. १५ वे शतक Available from Institude For Oriental Study, Thane http://www.orientalthane.com/