अक्षर आकार:

वाल्मीकि रामायण बालकाण्ड

vAlmIki rAmAyaNa bAlakANDa (ch 75,76)

वाल्मीकि रामायण बालकाण्ड

॥ ध्यान श्लोकाः ॥ शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशांतये ॥ ॥ सर्वविघ्नप्रशमनं सर्वसिद्धिकरं परम् । सर्वजीवप्रणेतारं वंदे विजयदं हरिम् ॥ ॥ यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् । बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसांतकम् ॥ ॥ वेदवेद्ये परे पुंसि जाते दशरथात्मजे । वेदः प्राचेदसादासीत् साक्षाद्रामायणात्मना ॥ ॥ आपदामपहर्तारं दातारं सर्वसम्पदाम् । लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ ॥ तदुपगत समाससन्धि योगम् । सममधुरोपनतार्थवाक्यबद्धम् । रघुवरचरितं मुनिप्रणीतम् । दशशिरश्च वधं निशामयद्ध्वम् ॥ ॥ वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे । मध्ये पुष्पकमासने मणिमये वीरासने सुस्थितम् । अग्रे वाचयति प्रभञ्जनसुतेतत्त्वम्मुनिभ्यः परम् । व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ ॥ वाल्मीकेर्मुनिसिंहस्य कविता वनचारिणः । श्रुण्वन्रामकथानादं को न याति परां गतिम् ॥ ॥ हनूमानञ्जनीसूनुः वायुपुत्रो महाबलः । रामेष्टः फल्गुणसखः पिङ्गाक्षोऽमितविक्रमः ॥ ॥ उदधिक्रमणश्चैव सीतासंदेश हारकः । लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा ॥ ॥ महाव्याकरणांभोधि मंथमानसमंदरम् । कवयन्तं रामकीर्त्या हनूमंतमुपास्महे ॥ ॥ वायुर्भीमो भीमनादो महूजाः सर्वेशां च प्राणिनां प्राणभूतः । अनावृत्तिर्देहिनां देहपाते तस्माद्वायुर्देवदेवो विशिष्टः ॥ ॥ ज्ञाने विरागे हरिभक्तिभावे धृतिस्थितिप्राणबलेषि योगे । बुद्धौ च नान्यो हनुमत्समानः पुमान् कदाचित् क्वचकश्च नैव ॥ ॥ वातेन कुन्त्यां बलवान् स जातः शूरस्तपस्वी द्विषतां निहंता । सत्ये च धर्मे च रतः सदैव पराक्रमे शत्रुभिरप्रधृष्यः ॥ ॥ मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतांवरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥ ॥ उल्लङ्घ्य सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः । आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥ ॥ आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् । पारिजाततरुमूलवासिनं भावयामि पवमाननंदनम् ॥ ॥ यः सर्वगुणसम्पूर्णः सर्वदोष विवर्जितः । प्रीयतां प्रीतयेवालं विष्णुर्मे परमः सुहृत् ॥ ॥ सूक्तिरत्नाकरे रम्ये मूलरामायणार्णवे । विहरन्तो महीयांसः प्रियंतां गुरवो मम ॥ ॥ बुद्धिर्बलं यशो धैर्यं निर्भयत्वं अरोगता । अजाड्यं वाक्पटुत्वं च हनूमत्स्मरणाद्भवेत् ॥ ॥ ॥ सङ्कल्प ॥ श्री सीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेत श्री रामचंद्र प्रभोः प्रसादेन अस्मच्चिन्तित सकलाभीष्टसिद्ध्यर्थं भार्गवविजयात्मक श्रीमद्रामायणघट्टपारायणमहं करिष्ये । ॥ अथ पञ्चसप्ततितमः सर्गः ॥ राम दाशरथे रामो विर्यं ते श्रूयतेऽद्भुतम् । धनुषो भेदनं चैव निखिलेन मया श्रुतम् ॥ १॥ तदद्भुतमचिन्त्यं च भेदनं धनुषस्त्वया । तच्छ्रुत्वाहमनुप्राप्तो धनुर्गृह्यापरं शुभम् ॥ २॥ तदिदं घोरसङ्काशं जामदग्न्यं महद्धनुः । पूजयस्व शरेणैव स्वबलं दर्शयस्व च ॥ ३॥ तदहं ते बलं दृष्ट्वा धनुषोऽस्य प्रपूरणे । द्वन्द्वयुद्धं प्रदास्यामि वीर्यश्ळाघ्यस्य राघव ॥ ४॥ तस्य तद् वचनं श्रुत्वा राजा दशरथस्तदा । विषण्णवदनो दीनः प्राञ्जलिर्वाक्यमब्रवीत् ॥ ५॥ क्षत्ररोषात् प्रशान्तस्त्वं ब्राह्मणश्च महायशाः । बालानां मम पुत्राणामभयं दातुमर्हसि ॥ ६॥ भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम् । सहस्राक्षे प्रतिज्ञाय शस्त्रं निक्षिप्तवानसि ॥ ७॥ स त्वं धर्मपरो भूत्वा कश्यपाय वसुंधराम् । दत्वा वनमुपागम्य महेन्द्रकृतकेतनः ॥ ८॥ मम सर्वविनाशाय सम्प्राप्तस्त्वं महामुने । न चैकस्मिन् हते रामे सर्वे जीवामहे वयम् ॥ ९॥ ब्रुवत्येवं दशरथे जामदग्न्यः प्रतापवान् । अनादृत्यैव तद्वाक्यं राममेवाभ्यभाषत ॥ १०॥ इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिविश्रुते । दृढे बलवती मुख्ये सुकृते विश्वकर्मणा ॥ ११॥ अतिसृष्टं सुरैरेकं त्रयम्बकाय युयुत्सवे । त्रिपुरघ्नं नरश्रेष्ठ भग्नं काकुत्स्थ यत्त्वया ॥ १२॥ इदं द्वितीयं दुर्धर्षं विष्णोर्दत्ते सुरोत्तमैः ॥ १३॥ तदिदं वैष्णवं राम धनुः परपुरञ्जयम् । समानसारं काकुत्स्थ रौद्रेण धनुषा त्विदं ॥ १४॥ तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम् । शितिकण्ठस्य विष्णोश्च बलाबलनिरीक्षया ॥ १५॥ अभिप्रायं तु विज्ञाय देवतानां पितामहः । विरोधं जनयामास तयोः सत्यवतां वरः ॥ १६॥ विरोधे च महद्युद्धमभवद् रोमहर्षणम् । शितिकण्ठस्य विष्णोश्च परस्परजिगीषिणोः ॥ १७॥ तदा तु जृम्भितं शैवं धनुर्भीमपराक्रमम् । हुङ्कारेण महादेवः स्तम्भितोऽथ त्रिलोचनः ॥ १८॥ देवैस्तदा समागम्य सर्षिसङ्घैः सचारणैः । याचितौ प्रशमं तत्र जग्मतुस्तौ सुरोत्तमौ ॥ १९॥ जृम्भितं तद् धनुर्दृष्ट्वा शैवं विष्णुपराक्रमैः । अधिकं मेनिरे विष्णुं देवाः सर्षिगणास्तदा ॥ २०॥ धनू रुद्रस्तु सङ्क्रुद्धो विदेहेषु महायशाः । देवरातस्य राजर्षेः ददौ हस्ते ससायकं ॥ २१॥ इदं च वैष्णवं राम धनुः परपुरञ्जयम् । ऋचीके भार्गवे प्रादाद् विष्णुः संन्यासमुत्तमम् ॥ २२॥ ऋचीकस्तु महातेजाः पुत्रस्याप्रतिकर्मणः । पितुर्मम ददौ दिव्यं जमदग्नेर्महात्मनः ॥ २३॥ न्यस्तशस्त्रे पितरि मे तपोबलसमन्विते । अर्जुनो विदधे मृत्युं प्राकृताः बुद्धिमास्थितः ॥ २४॥ वधमप्रतिरूपं तु पितुः श्रुत्वा सुदारुणम् । क्षत्रमुत्सादयन् रोषात् जातं जातमनेकशः ॥ २५॥ पृथिवीं चाखिलां प्राप्य कश्यपाय महात्मने । यज्ञस्यान्ते तदा राम दक्षिणां पुण्यकर्मणे ॥ २६॥ दत्त्वा महेन्द्रनिलयस्तपोबलसमन्वितः । श्रुतवान् धनुषो भेदं ततोऽहं द्रुतमागतः ॥ २७॥ तदिदं वैष्णवं राम पितृपैतामहं महत् । क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम् ॥ २८॥ योजयस्व धनुःश्रेष्ठे शरं परपुरञ्जयम् । यदि शक्नोषि काकुत्स्थ द्वन्द्वं दास्यामि ते ततः ॥ २९॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये ॥ ॥ बालकाण्डे पञ्चसप्ततितमः सर्गः ॥ ॥ अथ षट्सप्ततितमः सर्गः ॥ श्रुत्त्वा तद् जामदग्न्यस्य वाक्यं दाशरथिस्तदा । गौरवाद्यन्त्रितकथः पितू राममथाब्रवीत् ॥ १॥ कृतवानसि यत् कर्म श्रुतवानस्मि भार्गव । अनुरुध्यामहे ब्रह्मन् पितुरानृण्यमास्थितः ॥ २॥ वीर्यहीनमिवाशक्तं क्षत्रधर्मेण भार्गव । अवजानासि मे तेजः पश्य मेऽद्य पराक्रमम् ॥ ३॥ इत्युक्त्वा राघवः क्रुद्धो भार्गवस्य शरासनम् । शरं च प्रतिजग्राह हस्ताल्लघुपराक्रमः ॥ ४॥ आरोप्य तद्धनू रामः शरं सज्यं चकार ह । जामदग्न्यं ततो रामं रामः क्रुद्धोऽब्रवीद्वचः ॥ ५॥ ब्राह्मणोऽसीति पूज्यो मे विश्वामित्रकृतेन च । तस्माच्छक्तो न ते राम मोक्तुं प्राणहरं शरम् ॥ ६॥ इमां पादगतिं राम तपोबलसमार्जितान् । लोकानप्रतिमान् वाते हनिष्यामि यदिच्छसि ॥ ७॥ न ह्ययं वैष्णवो दिव्यः शरः परपुरञ्जयः । मोघः पतति वीर्येण बलदर्पविनाशनः ॥ ८॥ वरायुधधरं रामं द्रष्टुं सर्षिगणाः सुराः । पितामहं पुरस्कृत्य समेतास्तत्र सङ्घशः ॥ ९॥ गन्धर्वाप्सरसश्चैव सिद्धचारणकिन्नराः । यक्षराक्षसनागाश्च तद् द्रष्टुं महदद्भुतम् ॥ १०॥ जडीकृते तदा लोके रामे वरधनुर्धरे । निर्वीर्यो जामदग्न्योऽसौ रामो राममुदैक्षत ॥ ११॥ तेजोऽभिहतवीर्यत्वात् जामदग्न्यो जडीकृतः । रामं कमलपत्राक्षं मन्दं मन्दमुवाच ह ॥ १२॥ कश्यपाय मया दत्ता यदा पूर्वं वसुंधरा । विषये मे न वस्तव्यमिति मां कश्यपोऽब्रवीत् ॥ १३॥ सोऽहं गुरुवचः कुर्वन् पृथिव्यां न वसेऽनिशम् । कृता प्रतिज्ञा काकुत्स्थ कृता भूः काश्यपस्य ह ॥ १४॥ तादिमां त्वंगतिं वीर हन्तुं नार्हसि राघव । मनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम् ॥ १५॥ लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया । जहि ताञ्छरमुख्येन मा भूत् कालस्य पर्ययः ॥ १६॥ अक्षयं मधुहन्तारं जानामि त्वां सुरोत्तमम् । धनुषोऽस्य परामर्शात् स्वस्ति तेऽस्तु परंतप ॥ १७॥ एते सुरगणाः सर्वे निरीक्षन्ते समागताः । त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ॥ १८॥ न चेयं मम काकुत्स्थ व्रीडा भवितुमर्हति । त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः ॥ १९॥ शरमप्रतिमं राम मोक्तुमर्हसि सुव्रत । शरमोक्षे गमिष्यामि महेन्द्रं पर्वतोत्तमम् ॥ २०॥ तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान् । रामो दाशरथिः श्रीमांश्चिक्षेप शरमुत्तमम् ॥ २१॥ स हतान् दृश्य रामेण स्वाँल्लोकांस्तपसार्जितान् । जामदग्न्यो जगामाशु महेन्द्रं पर्वतोत्तमम् ॥ २२॥ ततो वितिमिराः सर्वा दिशश्चोपदिशस्तथा । सुराः सर्षिगणा रामं प्रशशंसुरुदायुधम् ॥ २३॥ रामं दाशरथिं रामो जामदग्न्यः प्रशस्य च । ततः प्रदक्षिणं कृत्वा जगामात्मगतिं प्रभुः ॥ २४॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये ॥ ॥ बालकाण्डे षट्सप्ततितमः सर्गः ॥ ॥ भारतीरमणमुख्यप्राणांतर्गत श्रीकृष्णार्पणमस्तु ॥