अक्षर आकार:

भद्रगिरिपति संस्तुतिः

Bhadragiripati Samstuti

भद्रगिरिपति संस्तुतिः

धरणीतनया रमणी कमनीय सीताङ्क मनोहररूप हरे । भरताग्रज राघव दाशरथे विजयी भव भद्रगिरीन्द्रपते ॥ १॥ बुधलक्षणलक्षण सर्वविलक्षण लक्षणपूर्वज राम हरे । भवपाशविनाशक हे नृहरे विजयी भव भद्रगिरीन्द्रपते ॥ २॥ धरचक्र धनुश्शरदीप्त चतुष्करचक्रभवाद्यभवादिविभो । परचक्रभयङ्कर हे भगवन् विजयी भव भद्रगिरीन्द्रपते ॥ ३॥ अधिनीरजजन्मसुरेशमुनीन्द्रविलक्षणलक्षणदक्षपते । नवकन्धरसुन्दरदिव्यतनो विजयी भव भद्रगिरीन्द्रपते ॥ ४॥ सततः प्रततः प्रचरैः करुणा भरणै स्तव दिग्विसरैर्नमित । स्मरणाभिरतं भवतं सततं कुरु मामिह भद्रगिरीन्द्रपते ॥ ५॥ सचतुर्मुखषण्मुखपञ्चमुख प्रमुखाखिलदैवतमौलिमणे । शरणागतवत्सल सारनिधे परिपालय मां वृषशैलपते ॥ ६॥ अभिरामगुणाकर दाशरथे जगदेकदनुर्धर धीरमते । रघुनायक राम रमेश विभो वरदोभव देव दयाजलधे ॥ ७॥ इति भद्रगिरिपति संस्तुतिः समाप्ता ।