अक्षर आकार:

श्रीभद्राद्रिरामसुप्रभातस्तोत्रम्

Shri Bhadradri Rama Suprabhata Stotram

श्रीभद्राद्रिरामसुप्रभातस्तोत्रम्

वामाङ्कस्थितजानकीपरिलसत्कोदण्डदण्डं करे चक्रं चोर्ध्वकरेण बाहुयुगले शङ्खं शरं दक्षिणे । बिभ्राणं जलजातपत्रनयनं भद्राद्रिमूर्धस्थितं केयूरादिविभूषितं रघुपतिं सौमित्रियुक्तं भजे ॥ १॥ श्रीमच्चन्दनचर्चितोन्नतकुचव्यालोलमालाङ्कितां ताटङ्कद्युतिसत्कपोलयुगलां पीताम्बरालङ्कृताम् । काञ्चीकङ्कणहारनूपुरलसत्कल्याणदामान्वितां श्री वामाङ्कगतां सरोरुहकरां सीतां मृगाक्षीं भजे ॥ २॥ द्विभुजं स्वर्णवपुषं पद्मपत्रनिभेक्षणम् । धनुर्बाणधरं धीरं रामानुजमहं भजे ॥ ३॥ कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ ४॥ उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज । उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ ५॥ वन्दे श्रीरघुनन्दनं जनकजानेत्रासिताम्भोरुहं प्रालेयाम्बुमनल्पमञ्जुलगुणं पद्मासनोद्भासिनम् । चक्राब्जेषुशरासनानि दधतं हस्तारविन्दोत्तमैः श्रीमन्मारुतिपूजिताङ्घ्रियुगलं भद्राद्रिचिन्तामणिम् ॥ ६॥ श्रीरामचन्द्रवरकौमुदि भक्तलोक कल्पाख्यवल्लरिविनतजनैकबन्धो । variation विनम्रजनैकबन्धो कारुण्यपूरपरिपूरितसत्कटाक्षे भद्राद्रिनाधदयिते तव सुप्रभातम् ॥ ७॥ अम्लानभक्तिकुसुमा मलिनाः प्रदीपाः सौधान् जयत्यविरलागुरुधूमराजिः । नाकं स्वृशन्ति धरणीसुरवेदनादाः भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ ८॥ सान्द्रोडुरम्यसुषमा न विभातिराजा दीनो यथा गतवसुर्मलिनान्तरङ्गः । दैन्यं गता कुमुदिनी प्रियविप्रयोगात् भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ ९॥ पूर्वाद्रिपीठमधितिष्ठति भानुबिम्बं गाढं प्रयाति तिमिरं ककुभः प्रसन्नाः । त्वत्स्वागतं खगरुतैः कथयन्ति मन्द्रं भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ १०॥ आदित्यलोलकरलालनजातहर्षा सा पद्मिनी त्यजति मा सकृदास्यमुद्राम् । भृङ्गावली विशति चाटुवचास्सरोजं भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ ११॥ प्रालेयबिन्दुनिकरा नवपल्लवेषु बिम्बाधरे स्मितरुचिं तव संवदन्ति । आयान्ति चक्रमिथुनानि गृहस्थभावं (आयन्ति?) भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ १२॥ आनेतुमास्यपवनं तव सत्सुगन्धी माल्यानि जातिकुसुमानि सरोरुहाणि । आमर्दयन् सुरभिगन्धमहो भिवाति भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ १३॥ गोपीकराकलितमन्थनरम्यनादाः गोपालवेणुनिनदेन समं प्रवृत्ताः । धुन्वन्ति हंसमिथुनानि तुषारपक्षान् भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ १४॥ स्तम्भे रमा उभयपक्षविनीतनिद्राः कर्षन्ति ते कलितघीङ्कृतिश‍ृङ्खलानि । वाद्या मुखोष्ममलिनीकृतसैन्धवांशाः भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ १५॥ श्रीवन्दिनस्तव पठन्ति च मञ्जुकण्ठैः रम्यावधानचरितान्यमृतोपमानि । मन्द्रं नदन्ति मुरजाश्शुभशङ्खनादैः भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ १६॥ उत्तानकेतनरता रवयो महेशाः शुद्धोक्षवाहनगता वसवोऽपि सिद्धाः । द्वारे वसन्ति तव दर्शनलालसास्ते भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ १७॥ चक्राङ्गवाहविधिरेष सुरेश्वरोऽयं देवर्षिभिर्मुनिगणैस्सह लोकपालैः । रत्नोपदाञ्जलिभरोऽभिमुखं समास्ते भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ १९॥ दातुं भवान् विविधगोधनरत्नपूगान् आलोकनाय मुकुरादि शुभार्थपुञ्जान् । आदाय देहलितले त्रिदशा निषण्णाः भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ १९॥ गोदावरीविमलवारिसमुद्भवानि निर्हारिपुष्पविसराणि मुदा हरन्तः । शुश्रूषया तव बुधाः प्रतिपालयन्ति भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ २०॥ एलालवङ्गवरकुङ्कुमकेसराद्यैः पुन्नागनागतुलसीवकुलादिपुष्पैः । नीतास्सुतीर्थकलशा अभिषेचनाय भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ २१॥ कस्तूरिकासुरभिचन्दनपद्ममालाः पीताम्बरं च तडिदाभमनल्पमूल्यम् । सज्जीकृतानि रघुनायक मञ्जुलानि भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ २२॥ केयूरकङ्कणकलापकिरीटदेव छन्दाङ्गुलीयकमुखा नवरत्नभूषाः । राजन्ति तावकपुरो रविकान्तिकान्ताः भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ २३॥ गोदावरीसलिलसम्प्लवनिर्मलाङ्गाः दीप्तोर्ध्वपुण्ड्रतुलसीनलिनाक्षमालाः । श्रीवैष्णवास्तव पठन्ति विबोधगाथाः भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ २४॥ स्वर्लोकवारवनितास्सुरलोकतोऽमी रम्भादयो विमलमङ्गलकुम्भदीपैः । सङ्घीभवन्ति भवदङ्गणपूर्वभागे भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ २५॥ सीताप्रवालसुमनोहरपाणियुग्म- संवाहितात्मपदपङ्कजपद्मनेत्र । सौमित्रिसादरसमर्पितसौम्यशय्या भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ २६॥ श्रीशेषतल्प शरणागतरक्षकार्क- वंशे निशाचरवधाय कृतावतार । पादाब्जरेणुहृतगौतमदारशाप भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ २७॥ पाठीनकूर्मकिटिमानुषसिंहवेष कुब्जावतार भृगुनन्दन राघवेन्द्र । तालाङ्ककृष्णयवनान्तकबुद्धरूप भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ २८॥ ब्रह्मादिसर्वविबुधांस्तव पादभक्तान् सम्फुल्लतामरसभासुरलोचनाद्यैः । आनन्दयस्व रिपुशोधन चापधारिन् भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ २९॥ तल्पं विहाय कृपया वरभद्रपीठं आस्थाय पूजनमशेषमिदं गृहीत्वा । भक्तानशेषभुवनानि च पालयस्व भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ ३०॥ कुन्दसुन्दरदन्तपङ्क्तिविभासमानमुखाम्बुजं नीलनीरदकायशोभितजानकीतडिदुज्ज्वलम् । शङ्खचक्रशरासनेषुविराजमानकराम्बुजं भद्रभूधरशेखरं प्रणमामि रामसुधाकरम् ॥ ३१॥ अब्जसम्भवशङ्करादिभिरर्चिताङ्घ्रिपयोरुहं मेरुनन्दनभद्रतापसमानसाब्जदिवाकरम् । नम्रभक्तजनेष्टदायकपद्मपीठसमास्थितं गौतमीक्षणलालसं प्रणमामि रामसुधाकरम् ॥ ३२॥ भीतभानुतनूभवार्तिनिवारणातिविशारदं पादनम्रविभीषणाहितवैरिराज्यविभूतिकम् । भीमरावणमत्तवारणसिंहमुत्तमविग्रहं भद्रभूधरशेखरं प्रणमामि रामसुधाकरम् ॥ ३३॥ घोरसंसृतिदुस्तराम्बुधि कुम्भवसम्भवसन्निभं योगिवृन्दमनोऽरविन्दसुकेसरोज्ज्वलषट्पदम् । भक्तलोकविलोचनामृतवर्तिकायितविग्रहं भद्रभूधरशेखरं प्रणमामि रामसुधाकरम् ॥ ३४॥ भूसुताचिररोचिषं वरसत्पथैकविहारिणं तापनाशनदीक्षितं नतचातकावलिरक्षकम् । चित्रचापकृपाम्बुमण्डलनीलविग्रहभासुरं भद्रभूधरशेखरं प्रणमामि रामपयोधरम् ॥ ३५॥ इति भद्राद्रिराम (भद्राचलराम) सुप्रभातस्तोत्रं सम्पूर्णम् ।