अक्षर आकार:

सीतापति अनन्यताऽऽवेदनम्

sItApati ananyatAaavedanam

सीतापति अनन्यताऽऽवेदनम्

श‍ृणोमि सीतापति चित्रसत्कथां वदामि सीतापति कीर्तिमक्षयाम् । स्मारामि सीतापति दिव्यविग्रहं वृणोमि सीतापति भक्तिमुत्तमाम् ॥ १॥ व्रजामि सीतापतिदिव्यमन्दिरं तथा च सीतापतिसत्प्रपन्नताम् । युनज्मि सीतापति चिन्तने मनः तनोमि सीतापतिदाससङ्गतिम् ॥ २॥ अवैमि सीतापतिमञ्जुबन्धुतां तथा च सीतापतिदिष्टभोग्यताम् । ततश्च सीतापति नित्यधामदां करोमि सीतापति भक्तिमुत्तमाम् ॥ ३॥ करोमि सीतापतिपाददासतां नमामि सीतापति पादपङ्कजम् । पठामि सीतापतिकाव्यसंहतिं जपामि सीतापतिमन्त्रभूषितम् ॥ ४॥ करोमि सीतापतिविग्रहार्चनं तथा च सीतापतिमूर्तिदर्शनम् । गुणाब्धि सीतापति नाम कीर्तनं परेश सीतापतिपादवन्दनम् ॥ ५॥ भजामि सीतापतिमेव केवलं रटामि सीतापतिमेव केवलम् । श्रयामि सीतापतिमेव केवलं प्रयामि सीतापतिमेवकेवलम् ॥ ६॥ ॥ इति श्रीराम अनन्यताऽऽवेदनम् ॥