अक्षर आकार:

अक्षररामायणम्

Akshara Ramayanam

अक्षररामायणम्

बालिद्वीपलब्धं प्राचीनं अक्षररामायणं कविजानकीयं

मुखवाणी

भारतवर्षस्य प्राचीनेषु उपद्वीपेषु इदानीं इण्डोनेष्याख्येषु बालिद्वीपः ``बलिद्वीप'' इति पूर्वं प्रसिद्ध आसीत् । तत्र प्रायः सार्धसहस्रवर्षेभ्यः पूर्वं कर्णाटराजस्य श्रीधर्मस्य आधिपत्यं आसीत् इति ज्ञायते । किञ्च शैव-वैष्णव-शाक्त-बौद्धादीनां संस्कृतभाषात्मकः व्यवहारः अत्यन्तं उत्तमः आसीत् इति च प्रचीनताळपत्र- पाण्डुलिपिपत्र-खण्डादिभिः ज्ञायते । बरोडामहाराजेन गायकवाडेन स्वकीयपुस्तकभाण्डागारात् प्राचीनाः खण्डत्रुटिताः श्लोकाः टिप्पन्यश्च ``बालिद्वीपग्रन्थाः'' इति सङ्ग्राह्य प्रकाशिताः सन्ति । तेषु ``कविजानकी'' इति नाम्ना स्थिताः खण्डाः त्रुटिताश्च सावधानं परिष्कृत्य, ``अक्षररामायणम्'' इति नाम्ना अत्र प्रकाश्यन्ते । अत्र ओं श्रीपूर्वकैः पञ्चाशद्वर्णमालाक्षरैः आरब्धैः श्लोकैः रामायणकथासङ्ग्रहोऽपि बालानां अत्यन्तं उपयोगाय भवति । लू लृ ङ ञ ट ठ ढ ण अक्षराणां लिपिसुन्दराणां उपमानानां निरूपणेन, ``अं अः'' इत्यादीनां फलितवर्णरूपेण उकारस्य ह्रस्व-दीर्घ- प्लुत-संवादेन लकारत्रयप्रयोगेण च उपयोगचमत्कारः रमणीयोऽस्ति । कविश्च जानकीनाम्नी राजसम्बधिनी पण्डिता च इति ज्ञायते । खण्डत्रुटितानां संयोजनेन कवेरभिप्रायानुसारेण परिष्कारेण च ``अक्षररामायणं'' इदं सम्पादितं संस्कृतशिक्षाभ्यासपराणां सर्वेषां प्रमोदाय भवति । द्वीपान्तसंस्कृतभाषाविज्ञानसंशोधकानां च उपयोगाय भवति । सम्भग्नसन्धानकला प्रशस्ता प्रत्यायनी चापि विनष्टकानाम् । प्रचीनभावानुविवर्तनी सा काव्येषु भाव्या सुधियां महिम्ना ॥ अरैयर् श्रीरामशर्मा रामानुजदासानुदासः २४-२-१९९६

बालिद्वीपप्रसिद्धं अक्षररामायणम्

कविः - जानकी ॐ रामलक्ष्मणौ भ्रातरौ नमस्कृत्वा सितासितौ । वने तस्मिन् विचरन्तौ सीतां च जनकात्मजाम् ॥ १॥ श्रीः धन्यं मङ्गल्यमायुष्यं अलक्ष्मीकलिनाशनम् । रामायणं प्रवक्ष्यामि मातृकाक्षरयोजितम् ॥ २॥ अ अयोध्याधिपतेः पुत्राः चत्वारस्सूर्यवर्चसः । राम-लक्ष्मण-शत्रुघ्नाः भरतश्च महाबलः ॥३॥ आ आचारविनयोपेताः सत्यसन्धा दृढव्रताः । शूरास्सत्यप्रतिज्ञाश्च सर्वे दशरथात्मजाः ॥ ४॥ इ इङ्गितेन तु कैकेय्याः स्वपुत्रहितकाम्यया । दृढव्रतो राज्ञ इष्टो रामस्संप्रस्थितो वनम् ॥ ५॥ ई ओहितेनाभिषेकेन रामस्संप्रस्थितो वनम् । सीता चानुगता साध्वी लक्ष्मणश्च महाबलः ॥ ६॥ उ१ उपवासपरो रामः तपस्वी दण्डके वने । सभार्यस्सभ्रातृकश्च चचार मुनिभिस्स्तुतः ॥ ७॥ उ२ ऊनशूर्पणखादोषात् रामस्य च पराक्रमात् । तत्र पाराभवः कालो राक्षसानामुपस्थितः ॥ ८॥ उ३ ऊनस्तु रामवीर्येण रावणो नाम राक्षसः । तेन दुष्टात्मना सीता छलेनापहता वने ॥ ९॥ ऋ ऋषिधर्मसमायुक्तं मारीचं नाम मातुलम् । आगम्य रावणः पापः ततस्तद्वाक्यमब्रवीत् ॥ १०॥ ऋ कृतिं कृत्वा छलेन त्वं दूरं गच्छ वनेषु मे । दशरथात्मजं हत्वाऽरामं तत्र करोम्यहम् ॥ ११॥ ऌ लोम्ना काञ्चनरूपेण मृगो भूत्वा स श‍ृङ्गऌः । लोभयित्वा तु वैदेही व्यहरद् दण्डकावने ॥ १२॥ ॡ सीतां कमलपत्राक्षी उपासीनां वने तदा । लृकारकुटिलो हत्वा रावणोऽगान्नभस्तलम् ॥ १३॥ ए एतस्मिन्नन्तरे गृध्रो जटायुर्नाम धार्मिकः । तेन ताभ्यां समाख्यातं सीतायाः परिमार्गणे ॥ १४॥ ऐ ऐश्वर्य-मद-मत्तेन रावणेन खगाधिपम् ॥ हत्वा तस्मिन् वने गृधं सीता लङ्कां प्रवेशिता ॥ १५॥ ओ ओघशोकनिमग्नस्सः सीतावत्सलराघवः । कपिना हीनराज्येन सुग्रीवेण समागतः ॥ १६॥ औ औषधं परमं प्राप्तः सुग्रीवो रामदर्शनात् । हत्वा च वालिनं रामः सुग्रीवं चाभ्यषेचयत् ॥ १७॥ अम् महाकपिं हनूमन्तं सत्यसन्धं दृढव्रतम् । सुग्रीवः प्रेषयामास सीतायाः परिमार्गणे ॥ १८॥ अः हनूमान् वानरश्रेष्ठो जाम्बवान् कृतनिश्चयः । तारेयः कपिभिस्सार्धं भ्रमन्तो दक्षिणां दिशम् ॥ १९॥ क कथयन्तस्स्ववृत्तान्तं कुत्रचित् कालपर्ययात् । अलब्ध्वाऽन्तश्च वैदेहीं चक्रुः प्रायोपवेशनम् ॥ २०॥ ख खगस्तु सिद्धकार्यार्थः सम्पातो नाम धार्मिकः । तेन तेषां समाख्यातं सीतायाः परिमार्गणे ॥ २१॥ ग गत्वा पारं समुद्रस्य वेगेन गरुडो यथा । दृष्ट्वा लङ्कां च नगरीं सीतां च जनकात्मजाम् ॥ २२॥ घ घनेऽशोकवने देशे समागत्य स मैथिलीम् । हनूमान् लब्धसन्देशो राक्षसान् विन्यसूदयत् ॥ २३॥ ङ ङकारसदृशीं कृत्वा ललाटे भृकुटिं तथा । क्रुद्धनेन्द्रजिता धीरो गृहीतो हनुमान् कपिः ॥ २४॥ च चन्द्रमण्डलसङ्काशं लाङ्गुलं तस्य राक्षसाः । शुक्लैरावेष्टितं वस्त्रैः तैलाभ्यङ्गमदीपयन् ॥ २५॥ छ छलयित्वा ततस्सर्वान् राक्षसान् विपुलो हरिः । लाङ्गूलेन प्रदीप्तेन लङ्कामादीपयत् पुरीम् ॥ २६॥ ज जलमध्ये स निर्वाप्य लाङ्गूलं प्लवगेश्वरः । कृतामयं पुरं दग्ध्वा पुनरागमनोत्सुकः ॥ २७॥ झ झषालयं समुत्प्लुत्य हरिरुत्तम आगतः । सिद्धकार्योऽतित्वरितः प्रदेशं यत्र राघवः ॥ २८॥ ञ ञकारवदनो भूत्वा हनूमान् स हरीश्वरः । न्यवेदयदशेषेण राघवाय महात्मने ॥ २९॥ ट टकारसदृशं चापं सशरं रघुनन्दनः । गृहीत्वा प्रस्थितस्तूर्णं सीतायाः परिमार्गणे ॥ ३०॥ ठ ठकाराकारनेत्राणां हरीणामयुतव्रताः । सुग्रीवस्याग्रतो यान्ति प्रीताः कर्तव्यलालसाः ॥ ३१॥ ड डयन्त इव वेगेन गत्वा पारं महोदधेः । राघवश्शरमुद्यम्य पश्चात्तत्रोपयाचितः ॥ ३१॥ ढ ढकारसदृशीं कृत्वा ललाटे भ्रुकुटीं तदा । हनुमानग्रतो याति राघवस्य हिते रतः ॥ ३३॥ ण णकारसदृशैः पद्मैः प्राञ्जलिः प्रत्युपस्थितः । उवाच सागरो रामं सेतुं मम जले कुरु ॥ ३४॥ त तस्य तद्वचनं श्रुत्वा सुग्रीवो नळमब्रवीत् । नळ! भद्रं कुरुष्व त्वं सेतुं तत्र महार्णवे ॥ ३५॥ थ स्थूलं मृष्टोपमं दिव्यं विश्वकर्मसुतो नलः । चकार सेतुं धर्मात्मा सागरे मकरालये ॥ ३६॥ द दशयोजनविस्तीर्णं आयतं शतयोजनम् । येन वानरसेनाऽगात् समुत्पत्य महोदधिम् ॥ ३७॥ ध धनुर्वीर्यं समाश्रित्य राघवस्सह वानरैः । राक्षसान् योधयामास क्रोधसंरक्तलोचनः ॥ ३८॥ न नगर्यां मोघयुद्धायां रावणस्सह राक्षसैः । ततो द्वाराद् विनिष्क्रम्य चकारायोधनं महत् ॥ ३९॥ प पनसश्शरभो मैन्दो नीलो मारुतिरङ्गदः । नानावृक्षैश्शिलाभिश्च राक्षसान् विन्यसूदयन् ॥ ४०॥ फ फलितैः पादपैः कूले रोषिताश्शक्तितोमरैः । राक्षसाः खण्डनं चक्रुः वानराणां चमूमुखे ॥ ४१॥ ब बलवान् राघवश्श्रीमान् दशग्रीवं जघान सः । निहतं रावणं दृष्ट्वा विभीषणमथाब्रवीत् ॥ ४२॥ भ भक्तोऽसि मयि रक्षेन्द्र! धार्मिकश्चापि सुव्रतः । अराक्षसमिदं कर्म कृतं तुष्टोऽस्मि ते विभो! ॥ ४३॥ म मया दत्तं राज्यमिदं भुङ्क्ष्व पूलस्त्यनन्दन ! सपुत्रभृत्यानुचरो भुङ्क्ष्व राज्यमकण्टकम् ॥ ४४॥ य यदर्थमयमारम्भः कृतो मे राक्षसेश्वर! तामहं द्रष्टुमिच्छामि गच्छ त्वं सहलक्ष्मणः ॥ ४५॥ र रक्तः प्रियहिते युक्तो लक्ष्मणेन विभीषणः । आरोचयञ्च वैदेहीं काकुत्स्थाय महात्मने ॥ ४६॥ ल लङ्कां प्रविश्य नगरी ददर्श जनकात्मजाम् । कृशां विवर्णां मलिनां दर्शयामास सुप्रियाम् ॥ ४७॥ व वरारोहां तदा दृष्ट्वा रामश्चिन्तासमन्वितः । अग्नौ विशुद्धामादाय पुष्पकेण ययौ ततः ॥ ४८॥ श शत्रून् हत्वाऽतिवेगेन पूर्वमागम्य राघवः । नन्दिग्रामे समादाय भरतं मित्रवत्सलम् ॥ ४९॥ ष षाङ्गण्यसुगतिश्श्रीमान् राघवस्सह सीतया । षड्गुणस्सु सङ्गतो भ्रातृभिस्सार्धं मातृभिस्स समागतः ॥ ५०॥ स समेत्य हृष्टहृदयः पौरजानपदैस्सह । गवां शतसहस्राणि ब्राह्मणेभ्यः प्रदत्तवान् ॥ ५१॥ ह हतशत्रुर्महेन्द्राण्या शतक्रतुरिवापरः । शतं वर्षसहस्राणां रामो राज्यमवासयत् ॥ ५२॥

अनुबन्धः

क्ष क्षत्रं ब्रह्माच्युतं जीयात् जीवनं जगतां परम् । ज्ञानानन्दमयं ज्योतिः ईळे तन्मातृकाक्षरम् ॥ १॥ सपञ्चशतसाहस्रसंवत्सरसनातनम् । प्राङ्मातृकाक्षरैश्श्लोकैः सार्धपञ्चाशता स्थितम् ॥ २॥ बलिद्वीपान्तरे लब्धं जानकीकविनिर्मितम् । रामेण संस्कृतं जीयात् श्रीरामायणमक्षरम् ॥ ३॥ इदं बरोडानगरे राज्ञा मुद्रापितं पुरा । स्वीकृतं बालबोधार्थं बालिद्वीपप्रबन्धगम् ॥ ४॥ नष्टवर्ण-विसंवादं शमयन् वर्णसङ्करम् । ऊप्लुतं ऌविकारान्कं अभेदं रलयोर्दिशन् ॥ ५॥ व्युदस्यन् क्वचिदेवात्र श्लोकलक्षणभञ्जनम् । ओं श्रीमदक्षरं रामायणमित्यभिधां दिशन् ॥ ६॥ प्रथमाक्षरयोगेन मातृकाक्षरयोजनात् । षष्टिवर्णपरीवर्तात् नवत्यक्षरयोजनात् ॥ ७॥ तत्र तत्र च संरक्षन् साभिप्रायं वचः कवेः । अष्टश्लोकीं ततः कुर्वन् रामस् संस्कृतवानिदम् ॥ ८॥ इतीदं अनुबन्धसहितं बालिद्वीपप्रसिद्धं अक्षररामायणं सम्पूर्णम् । रोहिणी - पत्रिका ॥ १९९५-९६ द्वीपान्तरसंस्कृतविज्ञानं सम्पादकः - परिष्कारकः - प्रकाशकश्च अरैयर् श्रीरामशर्मा, उभयन्यायवेदान्तालङ्कारः पञ्चभाषाकवितावल्लभः प्रांशुपालः सर्वकारीयसंस्कृतकालेजः मेलुकोटे ।