अक्षर आकार:

श्रीरामस्तोत्रं अहल्याकृतम्

ahalyAkRitaM rAmastotram

श्रीरामस्तोत्रं अहल्याकृतम्

श्री गणेशाय नमः । अहल्योवाचः । अहो कृतार्थाऽस्मि जगन्निवास ते पादाब्जसंलग्नरजःकणादहम् । स्पृशामि यत्पद्मजशङ्करादिभिर्विमृग्यते रन्धितमानसैः सदा ॥ १॥ अहो विचित्रं तव राम चेष्टितं मनुष्यभावेन विमोहितं जगत् । चलस्यजस्रं चरणादिवर्जितः सम्पूर्ण आनन्दमयोऽतिमायिकः ॥ २॥ यत्पादपङ्कजपरागपवित्रगात्रा भागीरथी भवविरिञ्चिमुखान्पुनाति । साक्षात्स एव मम दृग्विषयो यदास्ते किं वर्ण्यते मम पुराकृतभागधेयम् ॥ ३॥ मर्त्यावतारे मनुजाकृतिं हरिं रामाभिधेयं रमणीयदेहिनम् । धनुर्धरं पद्मविशाललोचनं भजामि नित्यं न परान्भजिष्ये ॥ ४॥ यत्पादपङ्करजः श्रुतिभिर्विमृग्यं यन्नाभिपङ्कजभवः कमलासनश्च । यन्नामसाररसिको भगवान्पुरारिस्तं रामचन्द्रमनिशं हृदि भावयामि ॥ ५॥ यस्यावतारचरितानि विरिञ्चिलोके गायन्ति नारदमुखा भवपद्मजाद्याः । आनन्दजाश्रुपरिषिक्तकुचाग्रसीमा वागीश्वरी च तमहं शरणं प्रपद्ये ॥ ६॥ सोऽयं परात्मा पुरुषः पुराण एषः स्वयंज्योतिरनन्त आद्यः । var एकः मायातनुं लोकविमोहनीयां धत्ते परानुग्रह एष रामः ॥ ७॥ अयं हि विश्वोद्भवसंयमानामेकः स्वमायागुणबिम्बितो यः । विरिञ्चिविष्ण्वीश्वरनामभेदान् धत्ते स्वतन्त्रः परिपूर्ण आत्मा ॥ ८॥ नमोऽस्तु ते राम तवाङ्घ्रिपङ्कजं श्रिया धृतं वक्षसि लालितं प्रियात् । आक्रान्तमेकेन जगत्त्रयं पुरा ध्येयं मुनीन्द्रैरभिमानवर्जितैः ॥ ९॥ जगतामादिभूतस्त्वं जगत्त्वं जगदाश्रयः । सर्वभूतेष्वसंयुक्त एको भाति भवान्परः ॥ १०॥ ओंकारवाच्यस्त्वं राम वाचामविषयः पुमान् । वाच्यवाचकभेदेन भवानेव जगन्मयः ॥ ११॥ कार्यकारणकर्तृत्वफलसाधनभेदतः । एको विभासि राम त्वं मायया बहुरूपया ॥ १२॥ त्वन्मायामोहितधियस्त्वां न जानन्ति तत्त्वतः । मानुषं त्वाऽभिमन्यन्ते मायिनं परमेश्वरम् ॥ १३॥ आकाशवत्त्वं सर्वत्र बहिरन्तर्गतोऽमलः । असङ्गो ह्यचलो नित्यः शुद्धो बुद्धः सदव्ययः ॥ १४॥ योषिन्मूढाऽहमज्ञा ते तत्त्वं जाने कथं विभो । तस्मात्ते शतशो राम नमस्कुर्यामनन्यधीः ॥ १५॥ देव मे यत्र कुत्रापि स्थिताया अपि सर्वदा । त्वत्पादकमले सक्ता भक्तिरेव सदाऽस्तु मे ॥ १६॥ नमस्ते पुरुषाध्यक्ष नमस्ते भक्तवत्सल । नमस्तेऽस्तु हृषीकेश नारायण नमोऽस्तु ते ॥ १७॥ भवभयहरमेकं भानुकोटिप्रकाशं करधृतशरचापं कालमेघावभासम् । कनकरुचिरवस्त्रं रत्नवत्कुण्डलाढ्यं कमलविशदनेत्रं सानुजं राममीडे ॥ १८॥ स्तुत्वैवं पुरुषं साक्षाद्राघवं पुरतः स्थितम् । परिक्रम्य प्रणम्याशु साऽनुज्ञाता ययौ पतिम् ॥ १९॥ अहल्यया कृतं स्तोत्रं यः पठेद्भक्तिसंयुतः । स मुच्यतेऽखिलैः पापैः परं ब्रह्माधिगच्छति ॥ २०॥ पुत्राद्यर्थे पठेद्भक्त्या रामं हृदि निधाय च । संवत्सरेण लभते वन्ध्या अपि सुपुत्रकम् ॥ २१॥ सर्वान्कामानवाप्नोति रामचन्द्रप्रसादतः ॥ २२॥ ब्रह्मघ्नो गुरुतल्पगोऽपि पुरुषः स्तेयी सुरापोऽपि वा मातृभ्रातृविहिंसकोऽपि सततं भोगैकबद्धातुरः । नित्यं स्तोत्रमिदं जपन् रघुपतिं भक्त्या हृदिस्थं स्मरन् ध्यायन्मुक्तिमुपैति किं पुनरसौ स्वाचारयुक्तो नरः ॥ २३॥ ॥ इति श्रीमदध्यात्मरामायणे अहल्याविरचितं श्रीरामचन्द्रस्तोत्रं सम्पूर्णम् ॥