अक्षर आकार:

अष्टाक्षरश्रीराममन्त्रस्तोत्रम्

aShTAkSharashrIrAmamantrastotram

अष्टाक्षरश्रीराममन्त्रस्तोत्रम्

श्रीरामः शरणं मम । लक्ष्मीनाथसमारम्भां नाथयामुनमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ १॥ ॐ विश्वस्य चात्मनोनित्यं पारतन्त्र्यं विचिन्त्य च । चिन्तयेच्चेतसा नित्यं श्रीरामःशरणं मम ॥ २॥ अचिन्त्योऽपि शरीरादेः स्वातन्त्र्येनैव विद्यते । चिन्तयेच्चेतसा नित्यं श्रीरामःशरणं मम ॥ ३॥ आत्माधारं स्वतन्त्रं च सर्वशक्तिं विचिन्त्य च । चिन्तयेच्चेतसा नित्यं श्रीरामःशरणं मम ॥ ४॥ नित्यात्म गुण संयुक्तो नित्यात्मतनुमण्डितः । नित्यात्मकेलिनिरतः श्रीरामःशरणं मम ॥ ५॥ गुणलीलास्वरूपैश्च मितिर्यस्य न विद्यते । अतोवाङ्मनसा वेद्यः श्रीरामःशरणं मम ॥ ६॥ कर्ता सर्वस्य जगतो भर्ता सर्वस्य सर्वगः । आहर्ता कार्य जातस्य श्रीरामःशरणं मम ॥ ७॥ वासुदेवादिमूर्तीनां चतुर्णां कारणं परम् । चतुर्विंशति मूर्तीनां श्रीरामःशरणं मम ॥ ८॥ नित्यमुक्तजनैर्जुष्टो निविष्टः परमे पदे । पदं परमभक्तानां श्रीरामः शरणं मम ॥ ९॥ महदादिस्वरूपेण संस्थितः प्राकृते पदे । ब्रह्मादिदेवरूपैश्च श्रीरामः शरणं मम ॥ १०॥ मन्वादिनृपरूपेण श्रुतिमार्गं बिभर्तियः । याःप्राकृत स्वरूपेण श्रीरामःशरणं मम ॥ ११॥ ऋषिरूपेण यो देवो वन्यवृत्तिमपालयत् । योऽन्तरात्मा च सर्वेषां श्रीरामःशरणं मम ॥ १२॥ योऽसौ सर्वतनुः सर्वः सर्वनामा सनातनः । आस्थितः सर्वभावेषु श्रीरामःशरणं मम ॥ १३॥ बहिर्मत्स्यादिरूपेण सद्धर्ममनुपालयन् । परिपाति जनान्दीनान् श्रीरामःशरणं मम ॥ १४॥ यश्चात्मानं पृथक्कृत्य भावेन पुरुषोत्तमः । आर्चायामास्थितो देवः श्रीरामःशरणं मम ॥ १५॥ अर्चावतार रूपेण दर्शनस्पर्शनादिभिः । दीनानुद्धरते योऽसौ श्रीरामःशरणं मम ॥ १६॥ कौशल्या शुक्तिसञ्जातो जानकी कण्ठभूषणः । मुक्ताफलसमो योऽसौ श्रीरामःशरणं मम ॥ १७॥ विश्वामित्रमखत्राता ताडकागतिदायकः । अहल्याशाप शमनः श्रीरामःशरणं मम ॥ १८॥ पिनाकभञ्जनः श्रीमान् जानकीप्रेमपालकः । जामदग्न्यप्रतापघ्नः श्रीरामःशरणं मम ॥ १९॥ राज्याभिषेकसंहृष्टः कैकेयी वचनात्पुनः । पित्रदत्तवनक्रीडः श्रीरामःशरणं मम ॥ २०॥ जटाचीरधरोधन्वी जानकीलक्ष्मणान्वितः । चित्रकूटकृतावासः श्रीरामःशरणं मम ॥ २१॥ महापञ्चवटीलीला सञ्जातपरमोत्सवः । दण्डकारण्य सञ्चारी श्रीरामःशरणं मम ॥ २२॥ खरदूषणविच्छेदी दुष्टराक्षस भञ्जनः । हृतशूर्पनखाशोभः श्रीरामःशरणं मम ॥ २३॥ मायामृग विभेत्ता च हृतसीतानुतापकृत् । जानकीविरहाक्रोशी श्रीरामःशरणं मम ॥ २४॥ लक्ष्मणानुचरोधन्वी लोकयात्रविडम्बकृत् । पम्पातीर कृतान्वेषः श्रीरामःशरणं मम ॥ २५॥ जटायुगति दाता च कबन्धगतिदायकः । हनुमत्कृतसाहित्य श्रीरामःशरणं मम ॥ २६॥ सुग्रीवराज्यदः श्रीशो बालिनिग्रह कारकः । अङ्गदाश्वासनकरः श्रीरामःशरणं मम ॥ २७॥ सीतान्वेषणनिर्मुक्त हनुमत्प्रमुखब्रजः । मुद्रानिवेशितबलः श्रीरामःशरणं मम ॥ २८॥ हेलोत्तरितपाथोधिर्बलनिर्धूतराक्षसः । लङ्कादाहकरो धीरः श्रीरामःशरणं मम ॥ २९॥ रोषसम्बद्धपाथोधिर्लङ्काप्रासादरोधकः । रावणादिप्रभेत्ता च श्रीरामःशरणं मम ॥ ३०॥ जानकी जीवनत्राता विभीषणसमृद्धिदः । पुष्पकारोहणासक्तः श्रीरामःशरणं मम ॥ ३१॥ राज्यसिंहासनारूढः कौशल्यानन्दवर्द्धनः । नामनिर्धूतनिरयः श्रीरामःशरणं मम ॥ ३२॥ यज्ञकर्त्ता यज्ञभोक्ता यज्ञभर्तामहेश्वरः । अयोध्यामुक्तिदः शास्ता श्रीरामःशरणं मम ॥ ३३॥ प्रपठेद्यः शुभं स्तोत्रं मुच्येत् भवबन्धनात् । मन्त्रश्चाष्टाक्षरो देवः श्रीरामःशरणं मम ॥ ४॥ ॥ इति अष्टाक्षर श्रीराममन्त्रस्तोत्रम् ॥