अक्षर आकार:

श्रीराम आपदुद्धारकस्तोत्रम्

Shri Rama ApaduddhAraka stotram

श्रीराम आपदुद्धारकस्तोत्रम्

आपदामपहर्तारं दातारं सर्वसम्पदां लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् । नमः कोदण्डहस्ताय सन्धीकृतशराय च दण्डिताखिलदैत्याय रामायापन्निवारिणे ॥ १॥ आपन्नजनरक्षैकदीक्षायामिततेजसे । नमोऽस्तु विष्णवे तुभ्यं रामायापन्निवारिणे ॥ २॥ पदाम्भोजरजस्पर्शपवित्रमुनियोषिते । नमोऽस्तु सीतापतये रामायापन्निवारिणे ॥ ३॥ दानवेन्द्रमहामत्तगजपञ्चास्यरूपिणे । नमोऽस्तु रघुनाथाय रामायापन्निवारिणे ॥ ४॥ महिजाकुचसंलग्नकुङ्कुमारुणवक्षसे । नमः कल्याणरूपाय रामायापन्निवारिणे ॥ ५॥ पद्मसम्भवभूतेशमुनिसंस्तुतकीर्तये । नमो मार्ताण्डवंश्याय रामायापन्निवारिणे ॥ ६॥ हरत्यार्तिं च लोकानां यो वा मधुनिषूदनः । नमोऽस्तु हरये तुभ्यं रामायापन्निवारिणे ॥ ७॥ तापकारणसंसारगजसिंहस्वरूपिणे । नमो वेदान्तवेद्याय रामायापन्निवारिणे ॥ ८॥ रङ्गत्तरङ्गजलधिगर्वहृच्छरधारिणे । नमः प्रतापरूपाय रामायापन्निवारिणे ॥ ९॥ दारोपहितचन्द्रावतंसध्यातस्वमूर्तये । नमः सत्यस्वरूपाय रामायापन्निवारिणे ॥ १०॥ तारानायकसङ्काशवदनाय महौजसे । नमोऽस्तु ताटकाहन्त्रे रामायापन्निवारिणे ॥ ११॥ रम्यसानुलसच्चित्रकूटाश्रमविहारिणे । नमस्सौमित्रिसेव्याय रामायापन्निवारिणे ॥ १२॥ सर्वदेवाहितासक्त दशाननविनाशिने । नमोऽस्तु दुःखध्वंसाय रामायापन्निवारिणे ॥ १३॥ रत्नसानुनिवासैक वन्द्यपादाम्बुजाय च । नमस्त्रैलोक्यनाथाय रामायापन्निवारिणे ॥ १४॥ संसारबन्ध मोक्षैकहेतुदामप्रकाशिने । नमः कलुषसंहर्त्रे रामायापन्निवारिणे ॥ १५॥ पवनाशुगसङ्क्षिप्तमारीचादिसुरारये । नमो मखपरित्रात्रे रामायापन्निवारिणे ॥ १६॥ दाम्भिकेतरभक्तौघमहानन्दप्रदायिने । नमः कमलनेत्राय रामायापन्निवारिणे ॥ १७॥ लोकत्रयोद्वेगकरकुम्भकर्णशिरश्छिदे । नमो नीरददेहाय रामायापन्निवारिणे ॥ १८॥ काकासुरैकनयनहरल्लीलास्त्रधारिणे । नमो भक्तैकवेद्याय रामायापन्निवारिणे ॥ १९॥ भिक्षुरूप समाक्रान्तबलिसर्वैकसम्पदे । नमो वामनरूपाय रामायापन्निवारिणे ॥ २०॥ राजीवनेत्रसुस्पन्दरुचिराङ्गसुरोचिषे । नमः कैवल्यनिधये रामायापन्निवारिणे ॥ २१॥ मन्दमारुतसंवीतमन्दारद्रुमवासिने । नमः पल्लवपादाय रामायापन्निवारिणे ॥ २२॥ श्रीकण्ठचापदलनधुरीणबलबाहवे । नमः सीतानुषक्ताय रामायापन्निवारिणे ॥ २३॥ राजराजसुहृद्योषार्चितमङ्गलमूर्तये । नम इक्ष्वाकुवंश्याय रामायापन्निवारिणे ॥ २४॥ मञ्जुलादर्शविप्रेक्षणोत्सुकैकविलासिने । नमः पालितभक्त्ताय रामायापन्निवारिणे ॥ २५॥ भूरिभूधरकोदण्डमूर्तिध्येयस्वरूपिणे । नमोऽस्तु तेजोनिधये रामायापन्निवारिणे ॥ २६॥ योगीन्द्रहृत्सरोजातमधुपाय महात्मने । नमो राजाधिराजाय रामायापन्निवारिणे ॥ २७॥ भूवराहस्वरूपाय नमो भूरिप्रदायिने । नमो हिरण्यगर्भाय रामायापन्निवारिणे ॥ २८॥ योषाञ्जलिविनिर्मुक्त लाजाञ्चितवपुष्मते । नमस्सौन्दर्यनिधये रामायापन्निवारिणे ॥ २९॥ नखकोटिविनिर्भिन्नदैत्याधिपतिवक्षसे । नमो नृसिंहरूपाय रामायापन्निवारिणे ॥ ३०॥ मायामानुषदेहाय वेदोद्धरणहेतवे । नमोऽस्तु मत्स्यरूपाय रामायापन्निवारिणे ॥ ३१॥ मितिशून्य महादिव्यमहिम्ने मानितात्मने । नमो ब्रह्मस्वरूपाय रामायापन्निवारिणे ॥ ३२॥ अहङ्कारेतरजनस्वान्तसौधविहारिणे । नमोऽस्तु चित्स्वरूपाय रामायापन्निवारिणे ॥ ३३॥ सीतालक्ष्मणसंशोभिपार्श्वाय परमात्मने । नमः पट्टाभिषिक्ताय रामायापन्निवारिणे ॥ ३४॥ आपदामपहर्तारं दातारं सर्वसम्पदाम् । लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ ३५॥ फलश्रुति इमं स्तवं भगवतः पठेद्यः प्रीतमानसः । प्रभाते वा प्रदोषे वा रामस्य परमात्मनः ॥ १॥ स तु तीर्त्वा भवाम्भोधिमापदस्सकला अपि । रामसायुज्यमाप्नोति देवदेवप्रसादतः ॥ २॥ कारागृहादिबाधासु सम्प्राप्ते बहुसङ्कटे । अपन्निवारकस्तोत्रं पठेद्यस्तु यथाविधि ॥ ३॥ संयोज्यानुष्टुभं मन्त्रमनुश्लोकं स्मरन् विभुम् । सप्ताहात्सर्वबाधाभ्यो मुच्यते नात्र संशयः ॥ ४॥ द्वात्रिंशद्वारजपतः प्रत्यहं तु दृढव्रतः । वैशाखे भानुमालोक्य प्रत्यहं शतसङ्ख्यया ॥ ५॥ धनवान् धनदप्रख्यस्स भवेन्नात्र संशयः । बहुनात्र किमुक्तेन यं यं कामयते नरः ॥ ६॥ तं तं काममवाप्नोति स्तोत्रेणानेन मानवः । यन्त्रपूजाविधानेन जपहोमादितर्पणैः ॥ ७॥ यस्तु कुर्वीत सहसा सर्वान् कामानवाप्नुयात् । इह लोके सुखी भूत्वा परे मुक्तो भविष्यति ॥ ८॥