अक्षर आकार:

जयादित्यस्तोत्रम् अथवा जयादित्याष्टकम्

jayAdityastotram or jayAdityAShTakam

जयादित्यस्तोत्रम् अथवा जयादित्याष्टकम्

न त्वं कृतः केवलसंश्रुतश्च यजुष्येवं व्याहरत्यादिदेव! । चतुर्विधा भारती दूरदूरं धृष्टः स्तौमि स्वार्थकामः क्षमैतत् ॥ १॥ मार्तण्डसूर्यांशुरविस्तथेन्द्रो भानुर्भगश्चाऽर्यमा स्वर्णरेताः ॥ २॥ दिवाकरो मित्रविष्णुश्च देव! ख्यातस्त्वं वै द्वादशात्मा नमस्ते । लोकत्रयं वै तव गर्भगेहं जलाधारः प्रोच्यसे खं समग्रम् ॥ ३॥ नक्षत्रमाला कुसुमाभिमाला तस्मै नमो व्योमलिङ्गाय तुभ्यम् ॥ ४॥ त्वं देवदेवस्त्वमनाथनाथस्त्वं प्राप्यपालः कृपणे कृपालुः । त्वं नेत्रनेत्रं जनबुद्धिबुद्धिराकाशकाशो जय जीवजीवः ॥ ५॥ दारिद्र्यदारिद्र्य निधे निधीनाममङ्गलामङ्गल शर्मशर्म । रोगप्ररोगः प्रथितः पृथिव्यां चिरं जयाऽऽदित्य! जयाऽऽप्रमेय! ॥ ६॥ व्याधिग्रस्तं कुष्ठरोगाभिभूतं भग्नघ्राणं शीर्णदेहं विसंज्ञम् । माता पिता बान्धवाः सन्त्यजन्ति सर्वैस्त्यक्तं पासि कोऽस्ति त्वदन्यः ॥ ७॥ त्वं मे पिता त्वं जननी त्वमेव त्वं मे गुरुर्बान्धवाश्च त्वमेव । त्वं मे धर्मस्त्वञ्च मे मोक्षमार्गो दासस्तुभ्यं त्यज वा रक्ष देव! ॥ ८॥ पापोऽस्मि मूढोऽस्मि महोग्रकर्मा रौद्रोऽस्मि नाऽऽचारनिधानमस्मि । तथापि तुभ्यं प्रणिपत्य पादयोर्जयं भक्तानामर्पयं श्रीजयार्क! ॥ ९॥ फलश्रुतिः नारद उवाच- एवं स्तुतो जयादित्यः कमठेन महात्मना । स्निग्धगम्भीरयावाचा प्राह तं प्रहसन्निव ॥ १०॥ जयादित्याष्टकमिदं यत्त्वया परिकीर्तितम् । अनेनस्तोष्यते यो माम्भुवि तस्य न दुर्लभम् ॥ ११॥ रविवारे विशेषेण मां समभ्यर्च्य यः पठेत् । तस्य रोगानशिष्यन्ति दारिद्र्यञ्च न संशयः ॥ १२॥ त्वया च तोषितोवत्सतवदद्मिवरन्त्वमुम् । सर्वज्ञो भुवि भूत्वा त्वं ततो मुक्तिमवाप्स्यसि ॥ १३॥ त्वत्पिता स्मृतिकारश्च भविष्यति द्विजार्चितः । स्थानस्याऽस्य न नाशश्च कदाचित्प्रभविष्यति ॥ १४॥ न चैतत्स्थानकं वत्स परित्यक्ष्यामि कर्हिचित् । एवमुक्त्वा स भगवान्ब्राह्मणैरर्चितः स्तुतः ॥ १५॥ अनुज्ञाप्य द्विजेन्द्रांस्तांस्तत्रैवाऽन्तर्दधे प्रभुः । एवं पार्थ समुत्पन्नो जयादित्योऽत्र भूतले ॥ १६॥ आश्विने मासि सम्प्राप्ते रविवारे च सुव्रत! आश्विने भानुवारेण यो जयादित्यमर्चयेत् ॥ १७॥ कोटितीर्थे नरः स्नात्वा ब्रह्महत्यां व्यपोहति । पूजनाद्रक्तमाल्यैश्च रक्तचन्दनकुङ्कुमैः ॥ १८॥ लेपनाद्गन्धधूपाद्यैर्नैवेद्यैर्घृतपायसैः । ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ॥ १९॥ मुच्यते सर्वपापेभ्यः सूर्यलोकञ्च गच्छति । पुत्रदारधनान्यायुः प्राप्य सांसारिकं सुखम् ॥ २०॥ इष्टकामैः समायुक्तः सूर्यलोके चिरं वसेत् ॥ २१॥ सर्वेषु रविवारेषु जयादित्यस्य दर्शनम् । कीर्तनं स्मरणं वापि सर्वरोगोपशान्तिकम् ॥ २२॥ अनादिनिधनं देवमव्यक्तं तेजसान्निधिम् । ये भक्तास्ते च लीयन्ते सौरस्थाने निरामये ॥ २३॥ सूर्योपरागे सम्प्राप्ते रविकूपे समाहितः । स्नानं यः कुरुते पार्थ होमं कुर्यात्प्रयत्नतः ॥ २४॥ दानं चैव यथाशक्त्या जयादित्याग्रतःस्थितः । तस्य पुण्यस्य माहात्म्यं श्रुणुष्वैकमनाजय ॥ २५॥ कुरुक्षेत्रेषु यत्पुण्यं प्रभासे पुष्करेषु च । वाराणस्याञ्च यत्पुण्यं प्रयागे नैमिषेऽपि वा । तत्पुण्यं लभते मर्त्यो जयादित्यप्रसादतः ॥ २६॥ इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे जयादित्यमाहात्म्यवर्णननामैकपञ्चाशत्तमोऽध्याये जयादित्याष्टकम् ॥ १॥ Skandamahapurna Maheshvarakhanda Kaumarikakhanda Adhyaya 51, verses 65-90