अक्षर आकार:

श्रीयन्त्रोद्धारकमङ्गलाष्टकम्

shrIyantroddhArakama~NgalAShTakam

श्रीयन्त्रोद्धारकमङ्गलाष्टकम्

भीमसेनविरचितम् यन्त्रोद्धारकनामको रघुपतेराज्ञां गृहीत्वार्णवं तीर्त्वाशोकवने स्थितां स्वजननीं सीतां निशाम्याशुगः । कृत्वा संविदमङ्गुलीयकमिदं दत्वा शिरोभूषणं सङ्गृह्यार्णवमुत्पपात हनूमान् कुर्यात् सदा मङ्गलम् ॥ १॥ प्राप्तस्तं सदुदारकीर्तिरनिलः श्रीरामपादाम्बुजं नत्वा कीशपतिर्जगाद पुरतः संस्थाप्य चूडामणिम् । विज्ञाप्यार्णवलङ्घनादिशुभकृन्नानाविधं भूतिदं यन्त्रोद्धारकनाममारुतिरयं कुर्यात् सदा मङ्गलम् ॥ २॥ धर्माधर्मविचक्षणः सुरतरुर्भक्तेष्टसन्दोहने दुष्टारातिकरीन्द्रकुम्भदलने पञ्चाननः पाण्डुजः । द्रौपद्यै प्रददौ कुबेरवनजं सौगन्धिपुष्पं मुदा यन्त्रोद्धारकनाममारुतिरयं कुर्यात् सदा मङ्गलम् ॥ ३॥ यः किर्मीर-हिडिम्ब-कीचक-बकान् प्रख्यातरक्षोजनान् संहृत्य प्रययौ सुयोधनमहन् दुःशासनादीन् रणे । भित्वा तद्धृदयं स घोरगदया सन्मङ्गलं दत्तवान् यन्त्रोद्धारकनाममारुतिरयं कुर्यात् सदा मङ्गलम् ॥ ४॥ यो भूमौ महदाज्ञया निजपतेर्जातो जगज्जीवने वेदव्यासपदाम्बुजैकनिरतः श्रीमध्यगेहालये । सम्प्राप्ते समये त्वभूत् स च गुरुः कर्मन्दिचूडामणिः यन्त्रोद्धारकनाममारुतिरयं कुर्यात् सदा मङ्गलम् ॥ ५॥ मिथ्यावादकुभाष्यखण्डनपटुर्मध्वाभिधो मारुतिः सद्भाष्यामृतमादरान्मुनिगणैः पेपीयमानं मुदा । स्पृष्ट्वा यः सततं सुरोत्तमगणान् सम्पात्ययं सर्वदा यन्त्रोद्धारकनाममारुतिरयं कुर्यात् सदा मङ्गलम् ॥ ६॥ पाकार्कार्कसमानसान्द्रपरमासाकीर्ककाकारिभि- र्विद्यासार्कजवानरेरितरुणा पीतार्कचक्रः पुरा । कङ्कार्कानुचरार्कतप्तजरया तप्ताङ्कजातान्वितो यन्त्रोद्धारकनाममारुतिरयं कुर्यात् सदा मङ्गलम् ॥ ७॥ श्रीमद्व्यासमुनीन्द्रवन्द्यचरणः श्रेष्ठार्थसम्पूरणः सर्वाघौघनिवारणः प्रविलसन्मुद्रादिसम्भूषणः । सुग्रीवादिकपीन्द्रमुख्यशरणः कल्याणपूर्णः सदा यन्त्रोद्धारकनाममारुतिरयं कुर्यात् सदा मङ्गलम् ॥ ८॥ यन्त्रोद्धारकमङ्गलाष्टकमिदं सर्वेष्टसन्दायकं दुस्तापत्रयवारकं द्विजगणैः सङ्गृह्यमाणं मुदा । भक्ताग्रेसरभीमसेनरचितं भक्त्या सदा यः पठेत् श्रीमद्वायुसुतप्रसादमतुलं प्राप्नोत्यसौ मानवः ॥ ९॥ From Hanumatstutimanjari, Mahaperiaval Publication