अक्षर आकार:

वीरविंशतिकाख्यं श्रीहनुमत्स्तोत्रम्

vIraviMshatikAkhyaM shrIhanumatstotram

वीरविंशतिकाख्यं श्रीहनुमत्स्तोत्रम्

लाङ्गूलमृष्टवियदम्बुधिमध्यमार्ग- मुत्प्लुत्ययान्तममरेन्द्रमुदो निदानम्। आस्फालितस्वकभुजस्फुटिताद्रिकाण्डं द्राङ्मैथिलीनयननन्दनमद्य वन्दे ॥ १॥ मध्येनिशाचरमहाभयदुर्विषह्यं घोराद्भुतव्रतमियं यददश्चचार । पत्ये तदस्य बहुधापरिणामदूतं सीतापुरस्कृततनुं हनुमन्तमीडे ॥ २॥ यः पादपङ्कजयुगं रघुनाथपल्या नैराश्यरूषितविरक्तमपि स्वरागैः । प्रागेव रागि विदधे बहु वन्दमानो वन्देञ्जनाजनुषमेष विशेषतुष्ट्यै ॥ ३॥ ताञ्जानकीविरहवेदनहेतुभूतान् द्रागाकलय्य सदशोकवनीयवृक्षान् । लङ्कालकानिव घनानुदपाटयद् य- स्तं हेमसुन्दरकपिं प्रणमामि पुष्ट्यै ॥ ४॥ घोषप्रतिध्वनितशैलगुहासहस्र- सम्भान्तनादितवलन्मृगनाथयूथम् । अक्षक्षयक्षणविलक्षितराक्षसेन्द्र- मिन्द्रं कपीन्द्रपृतनावलयस्य वन्दे ॥ ५॥ हेलाविलङ्घितमहार्णवमप्यमन्दं धूर्णद्गदाविहतिविक्षतराक्षसेषु । स्वम्मोदवारिधिमपारमिवेक्षमाणं वन्देऽहमक्षयकुमारकमारकेशम्॥ ६॥ जम्भारिजित्पसभलम्भितपाशबन्धं ब्रह्मानुरोधमिव तत्क्षणमुद्वहन्तम्। रौद्रावतारमपि रावणदीर्घदृष्टि- सङ्कोचकारणमुदारहरिं भजामि ॥ ७॥ दर्पोन्नमन्निशिचरेश्वरमूर्धचञ्च- त्कोटीरचुम्बि निजबिम्बमुदीक्ष्य हृष्टम् । पश्यन्तमात्मभुजयन्त्रणपिष्यमाण- तत्कायशोणितनिपातमपेक्षि वक्षः ॥ ८॥ अक्षप्रभृत्यमरविक्रमवीरनाश- क्रोधादिव द्रुतमुदञ्चितचन्द्रहासाम् । निद्रापिताभ्रघनगर्जनघोरघोषैः संस्तम्भयन्तमभिनौमि दशास्यमूर्तिम् ॥ ९॥ आशंस्यमानविजयं रघुनाथधाम शंसन्तमात्मकृतभूरिपराक्रमेण । दौत्ये समागमसमन्वयमादिशन्तं वन्दे हरेः क्षितिभृतः पृतनाप्रधानम् ॥ १०॥ यस्यौचितीं समुपदिष्टवतोऽधिपुच्छं दम्भान्धितां धियमपेक्ष्य विवर्धमानः । नक्तञ्चराधिपतिरोषहिरण्यरेता लङ्कां दिधक्षुरपतत्तमहं वृणोमि ॥ ११॥ क्रन्दन्निशाचरकुलां ज्वलनावलीढैः साक्षाद्गृहैरिवबहिः परिदेवमानाम्। स्तब्धस्वपुच्छतटलग्नकृपीटयोनि- दन्दह्यमाननगरीं परिगाहमानाम्॥ १२॥ मूर्तैर्गृहासुभिरिव द्युपुरं व्रजद्भि- र्व्योम्नि क्षणं परिगतं पतगैर्ज्वलद्भिः । पीताम्बरं दधतमुच्र्छितदीप्ति पुच्छं सेनां वहद्विहगराजमिवाहमीडे ॥ १३॥ स्तम्भीभवत्स्वगुरुबालधिलग्नवह्नि- ज्वालोल्ललद्ध्वजपटामिव देवतुष्ट्यै । वन्दे यथोपरि पुरो दिवि दर्शयन्त- मद्यैव रामविजयाजिकवैजयन्तीम् ॥ १४॥ रक्षश्चयैकचितकक्षकपूश्चितौ यः सीताशुचो निजविलोकनतो मृतायाः । दाहं व्यधादिव तदन्त्यविधेयभूतं लाङ्गूलदत्तदहनेन मुदे स नोऽस्तु ॥ १५॥ आशुद्धये रघुपतिप्रणयैकसाक्ष्ये वैदेहराजदुहितुः सरिदीश्वराय । न्यासं ददानमिव पावकमापतन्त- मब्धौप्रभञ्जनतनूजनुषं भजामि ॥ १६॥ रक्षस्स्वतृप्तिरुडशान्तिविशेषशोण- मक्षक्षयक्षणविधानमितात्मदाक्ष्यम्। भास्वत्प्रभातरविभानुभरावभासं लङ्काभयं करममुं भगवन्तमीडे ॥ १७॥ तीर्त्वोदधि जनकजार्पितमाप्य चूडा- रत्नं रिपोरपि पुरं परमस्य दग्ध्वा । श्रीरामहर्षगलदश्वभिषिच्यमानं तं ब्रह्मचारिवरवानरमाश्रयेऽहम् ॥ १८॥ यः प्राणवायुजनितो गिरिशस्य शान्तः शिष्योऽपि गौतमगुरुर्मुनिशङ्करात्मा । हृद्यो हरस्य हरिवद्धरितां गतोऽपि धीधैर्यशास्त्रविभवेऽतुलमाश्रये तम् ॥ १९॥ स्कन्धेऽधिवाह्य जगदुत्तरगीतिरीत्या यः पार्वतीश्वरमतोषयदाशुतोषम् । तस्मादवाप च वरानपरानवाप्यां- स्तं वानरं परमवैष्णवमीशमीडे ॥ २०॥ उमापतेः कविपतेः स्तुतिर्बाल्यविजृम्भिता । हनूमतस्तुष्टयेऽस्तु वीरविंशतिकाभिधा ॥ इति कविपति उमापतिविरचितम् वीरविंशतिकाख्यं श्रीहनुमत्स्तोत्रं समाप्तम् ॥