अक्षर आकार:

सुन्दरस्तवः

Sundarastava

सुन्दरस्तवः

जाम्बवत्स्मारितबलं सागरोल्लङ्घनोत्सुकम् । स्मरतां स्फूर्तिदं दीनरक्षकं नौमि मारुतिम् ॥ १॥ मैनाकसुरसासिंहीरतिलङ्घ्याम्बुधेस्तटे । पृषदंशाल्पकाकारं तिष्ठन्तं नौमि मारुतिम् ॥ २॥ त्रिकूटश‍ृङ्गवृक्षाग्रप्राकारादिष्ववस्थितम् । दुर्गरक्षेक्षणोद्विग्नचेतसं नौमि मारुतिम् ॥ ३॥ लङ्कयाऽधृष्यवाममुष्टिघातावघूर्णया । उक्त्वाऽऽयतिमनुज्ञातं सोत्साहं नौमि मारुतिम् ॥ ४॥ विविधैर्भवनैर्दीप्तां पुरीं राक्षससङ्कुलाम् । पश्यन्तं राक्षसेन्द्रान्तःपुरगं नौमि मारुतिम् ॥ ५॥ ज्यौत्स्न्यां निश्यतिरम्येषु हर्म्येषु जनकात्मजाम् । मार्गमाणमदृष्ट्वा तां विषण्णं नौमि मारुतिम् ॥॥ कुम्भकर्णादिरक्षोऽग्य्रप्रासादावृतमुत्तमम् । सुगुप्तं रावणगृहं विशन्तं नौमि मारुतिम् ॥ ७॥ पुष्पकाख्यं राजगृहं भूस्वर्गं विस्मयावहम् । दृष्ट्वाप्यदृष्ट्वा वैदेहीं दुःखितं नौमि मारुतिम् ॥ ८॥ रत्नोज्ज्वलं विश्वकर्मनिर्मितं कामगं शुभम् । पश्यन्तं पुष्पकं स्फारनयनं नौमि मारुतिम् ॥ ९॥ सङ्कुलान्तःपुरं सुप्तनानायौवतमच्छलम् । दृष्ट्वाप्यविकृतं सीतां दिदृक्षुं नौमि मारुतिम् ॥ १०॥ पीवानं रावणं सुप्तं तत्पत्नीं शयनेऽन्यतः । दृष्ट्वा सीतेति संहृष्टं चपलं नौमि मारुतिम् ॥ ११॥ सुप्तस्त्रीदृष्टिनष्टात्मब्रह्मचर्यविशङ्किनम् । अपक्रम्याऽऽपानभूमिं गच्छन्तं नौमि मारुतिम् ॥ १२॥ कालात्ययनृपक्रोधकार्यासिद्धिविशङ्कितम् । निर्विण्णमप्यनिर्वेदे दृष्टार्थं नौमि मारुतिम् ॥ १३॥ पुनर्निवृत्तौ कापेयमानुषापायशङ्किनम् । रामादीन् सिद्धये नत्वोत्तिष्ठन्तं नौमि मारुतिम् ॥ १४॥ सीतामशोकवनिकानद्यां स्नानार्थमेष्यतीम् । द्रष्टुं पुष्पितवृक्षाग्रनिलीनं नौमि मारुतिम् ॥ १५॥ सीतां दृष्ट्वा शिंशपाधःस्थितां चारित्रमातृकाम् । मनसा राममासाद्य निवृत्तं नौमि मारुतिम् ॥ १६॥ इह सीता ततो रामः ईदृशीयं स तादृशः । अन्योन्यमर्हत इति स्तुवन्तं नौमि मारुतिम् ॥ १७॥ राक्षसीवेष्टितेहेयं तद्द्रष्टाहं नृपात्मजौ । नमामि सुकृतं मेऽतीत्याश्वस्तं नौमि मारुतिम् ॥ १८॥ सुप्तोत्थितं दृष्टपूर्वं रावणं प्रमदाऽऽवृतम् । सीतोपच्छन्दकं दृष्ट्वावप्लुतं नौमि मारुतिम् ॥ १९॥ रावणागमनोद्विग्नां विषण्णां वीक्ष्य मैथिलीम् । सर्वोपमाद्रव्यदूरां सीदन्तं नौमि मारुतिम् ॥ २०॥ सान्त्वेनानुप्रदानेन शौर्येण जनकात्मजाम् । रक्षोऽधिपे लोभयति वृक्षस्थं नौमि मारुतिम् ॥ २१॥ मां प्रधृष्य सतीं नश्येरिति तद्धितवादिनीम् । करुणां रूपिणीं सीतां पश्यन्तं नौमि मारुतिम् ॥ २२॥ मासद्वयावधिं कृत्वा स्मारयित्वाऽऽत्मपौरुषम् । अपयातं रावणं धिक्वुर्वन्तं नौमि मारुतिम् ॥ २३॥ कुलं वीर्यं प्रेम गत्यन्तराभावं विवृण्वतीः । राक्षसीर्दुर्मुखीमुख्याः जिघत्सुं नौमि मारुतिम् ॥ २४॥ क्रुद्धाभिर्भर्त्स्यमानां तामात्मानमनुशोचतीम् । देवीं विलोक्य रुदतीं खिद्यन्तं नौमि मारुतिम् ॥ २५॥ पुनर्निर्भत्सनपरास्वासु वेणीस्पृगङ्गुलिम् । मानुष्यगर्हिणीं देवीं पश्यन्तं नौमि मारुतिम् ॥ २६॥ विलपन्तीं जनस्थानाहरणाद्यनुचिन्तनैः । प्राणत्यागपरां सीतां दृष्ट्वाऽऽर्तं नौमि मारुतिम् ॥ २७॥ त्रिजटास्वपनसंहृष्टां रक्षःस्त्रीभ्योऽभयप्रदाम् । अस्वस्थहृदयां देवीं पश्यन्तं नौमि मारुतिम् ॥ २८॥ अचिरादात्मनिर्यातमदृष्ट्वोद्बन्धनोद्यताम् । सीतां दृष्ट्वा शिंशपाध उद्विग्नं नौमि मारुतिम् ॥ २९॥ वामाक्ष्यूरुभुजस्पन्दैर्निमित्तैर्मुदितां शनैः । सीतां शान्तज्वरां दृष्ट्वा प्रहृष्टं नौमि मारुतिम् ॥ ३०॥ दृष्टात्रेयं कथं सान्त्व्योपेयाऽऽवेद्या न वेद्म्यहम् । इति रामकथाख्यानप्रवृत्तं नौमि मारुतिम् ॥ ३१॥ सुप्ते रक्षिगणे श्रुत्वा शुभां रामकथां द्रुमम् । उत्पश्यन्तीं जनकजां पश्यन्तं नौमि मारुतिम् ॥ ३२॥ स्वप्ने कपिर्दुर्निमित्तं, श्रुता रामकथा शुभा । देवीं द्वेधा विमुह्यन्तीं पश्यन्तं नौमि मारुतिम् ॥ ३३॥ का त्वं वसिष्ठचन्द्रात्रिपत्नीष्विति वितर्कितैः । सीतामौनमपास्यन्तं प्रणतं नौमि मारुतिम् ॥ ३४॥ रामदूतोऽस्मि मा भैषीः श्रद्धत्स्व प्रतिनेष्यसे । विशङ्कां सन्त्यजेत्येवंवदन्तं नौमि मारुतिम् ३५ सुग्रीवसख्यं भूषाद्यावेदनं वालिनो वधम् । तीर्त्वाब्धिं दर्शनं देव्या आख्यान्तं नौमि मारुतिम् ॥ ३६॥ अभिज्ञानेन सुग्रीवोद्योगेन विरहाधिना । सुखिनीं दुःखिनीं देवीं पश्यन्तं नौमि मारुतिम् ॥ ३७॥ मानिनीं दृढविस्रंभां राघवोद्योगकाङ्क्षिणीम् । रक्षो जित्वैव नेयां तां नमन्तं नौमि मारुतिम् ॥ ३८॥ काकोदन्तं रामगुणान् देवृभक्तिं शिरोमणिम् । अभिज्ञानतया दात्रीं ध्यायन्तं नौमि मारुतिम् ॥ ३९॥ मणौ प्रतीतामुत्साहोद्योजनप्रार्थिनीं सतीम् । आश्वासयन्तमुचितैर्हेतुभिर्नौमि मारुतिम् ॥ ४०॥ पुनस्तदेवाभिज्ञानं स्मारयन्त्या कृताशिषम् । मैथिल्या मनसा राममासन्नं नौमि मारुतिम् ॥ ४१॥ दृष्ट्वा सीतां ध्रुवे जन्ये ज्ञातुं रक्षोबलं वनम् । विनाश्य तोरणासीनं युयुत्सुं नौमि मारुतिम् ॥ ४२॥ राक्षसीज्ञातवृत्तान्तरावणप्रेषितान् क्षणात् । निघ्नन्तं किङ्करानेकं जयिष्णुं नौमि मारुतिम् ॥ ४३॥ जयत्यतिबल इति गर्जन्तं पादपाग्निना । दग्ध्वा चैत्यं पुनः सङ्ग्रामोत्सुकं नौमि मारुतिम् ॥ ४४॥ परिघीकृत्य सालद्रुं प्रहस्तसुतमारणम् । दशग्रीवबलेयत्ताजिज्ञासुं नौमि मारुतिम् ॥ ४५॥ सप्तामात्यसुतानात्मनिनदैर्गतजीवितान् । कृत्वा पुनस्तोरणाग्रे लसन्तं नौमि मारुतिम् ॥ ४६॥ उद्विग्नरावणाज्ञप्तपृतनापतिपञ्चकम् । प्रापय्य पञ्चतां तोरणाग्रस्थं नौमि मारुतिम् ॥ ४७॥ अक्षं राजात्मजं वीरं दर्शनीयपराक्रमम् । हत्वा नियुद्धे तिष्ठन्तं तोरणे नौमि मारुतिम् ॥ ४८॥ नीतमिन्द्रजितास्त्रेण ब्राह्मेण क्षणरोधिना । सभास्थरावणोदीक्षाविस्मितं नौमि मारुतिम् ॥ ४९॥ दशास्यं मन्त्रिसंवीतं वरोदीर्णं महाद्युतिम् । अनादृत्याहवक्लान्तिं पश्यन्तं नौमि मारुतिम् ॥ ५०॥ कोऽसि कस्यासि केनात्रागतो भग्नं वनं कुतः । प्रहस्तस्योत्तरं दातुमुद्युक्तं नौमि मारुतिम् ॥ ५१॥ सुग्रीवसचिवं रामदूतं सीतोपलब्धये । प्राप्तमुक्त्वा तद्धितोक्तिनिरतं नौमि मारुतिम् ॥ ५२॥ भ्रातृसान्त्वित पौलस्त्यादिष्ट वालाग्नियोजनम् । कर्तव्यचिन्तातिव्यग्रमुदीर्णं नौमि मारुतिम् ॥ ५३॥ वालदाहभिया सीताप्रार्थनाशीतलानलम् । प्रीणयन्तं पुरीदाहाद्भीषणं नौमि मारुतिम् ॥ ५४॥ अवध्य इति वालाग्रन्यस्ताग्निं नगरीं क्षणात् । दहन्तं सिद्धगन्धर्वैः स्तुतं तं नौमि मारुतिम् ॥ ५५॥ लब्धा सीता, रिपुर्ज्ञातः, बलं दृष्टं, वृथाखिलम् । सीतापि मौढ्याद्दग्धेति सीदन्तं नौमि मारुतिम् ॥ ५६॥ आपृच्छ्य मैथिलीं रामदर्शनत्वरयाचलात् । त्रिकूटादुत्पतन्तं तं कृतार्थं नौमि मारुतिम् ॥ ५७॥ सोपायनैरङ्गदाद्यैरुन्नदद्भिरुपास्थितम् । दृष्टा सीतेत्युदीर्याथ व्याख्यान्तं नौमि मारुतिम् ॥ ५८॥ तीर्त्वान्विष्योपलभ्याश्वास्य च भंक्त्वोपदिश्य च । दग्ध्वा दृष्ट्वाऽऽगतोऽस्मीति ब्रुवन्तं नौमि मारुतिम् ॥ ५९॥ दृष्ट्वा सीतां रामनाम श्रावयित्वा समागतः । ब्रूत कर्तव्यमित्येतान् पृच्छन्तं नौमि मारुतिम् ॥ ६०॥ न वयं, कपिराडत्र प्रमाणं प्रतियाम तम् । कुर्मस्तदादिष्टमिति प्रत्युक्तं नौमि मारुतिम् ॥ ६१॥ मध्येमार्गं मधुवने निपीय मधु पुष्कलम् । नदद्भिर्वानरैः साकं क्रीडन्तं नौमि मारुतिम् ॥ ६२॥ माद्यन्नृत्यत्कपिवृतं ध्वस्ते मधुवने क्षणात् । अभियुक्तं दधिमुखेनाव्यग्रं नौमि मारुतिम् ॥ ६३॥ सीतां दृष्टां मधुवनध्वंसाद्विज्ञाय तुष्यता । दिदृक्षितं कपीशेनात्यादरान्नौमि मारुतिम् ॥ ६४॥ निशम्य सुग्रीवादेशं त्वरितैः सखिभिवृर्तम् । सुग्रीवेणादराद्दृष्टं महितं नौमि मारुतिम् ॥ ६५॥ नियतामक्षतां सीतां अभिज्ञानं मणिं च तम् । निवेद्य प्राञ्जलिं प्रह्वं कृतार्थं नौमि मारुतिम् ॥ ६६॥ दृष्ट्वा चूडामणिं साश्रु स्मृत्वा तातविदेहयोः । रामेण वृत्तविस्तारे चोदितं नौमि मारुतिम् ॥ ६७॥ विस्रम्भं तर्जनं शोकावेगं च समयावधिम् । सन्देशमुक्त्वा कर्तव्योद्योजकं नौमि मारुतिम् ॥ ६८॥ त्वच्चित्ता त्वयि विस्रब्धा विजित्य रिपुमञ्जसा । प्रत्यादेयेति विनयाद्वदन्तं नौमि मारुतिम् ॥ ६९॥ स्निग्धरामपरीरम्भमुग्धस्मेरमुखाम्बुजम् । हृदयासीनवैदेहीराघवं नौमि मारुतिम् ॥ ७०॥ इति आत्रेय श्रीबालकृष्णशास्त्रिविरचितः सुन्दरकाण्डप्रतिसर्गसङ्ग्रहात्मकः । From Hanumatstutimanjari, Mahaperiaval Publication