अक्षर आकार:

श्रीरामदूतं शिरसा नमामि

Shriramadutam Shirasa Namami

श्रीरामदूतं शिरसा नमामि

आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहं । पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ॥ १॥ यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् । बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥ २॥ मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदुतं शिरसा नमामि ॥ ३॥ From next verse onwards, in each line, recite shrIrAmadutaM shirasA namAmi twice, in the middle and in the end मकुटरत्नकान्तिमथिततमिस्रं -अरुणोदयरुचिराननकमलं स्वर्णपिङ्गलभास्वर नेत्रयुगलं - चरितमकरकुण्डलगण्डभागं नवमणिमयरसनामध्यभागं - तरुणरुचिरशुभतरवरहारं समलङ्कृतदिव्यस्वर्णोपवीतं - कटितटविलसितकाञ्चनचेलं मञ्जुमञ्जीरमहितपदाब्जं - दिनमणिशतनिभदिव्यप्रकाशम् ॥ सकलसद्गुणवृन्दसारपयोधिं - दासमुखाम्बोजदशशतभानुं वाल्मीकिकृतकाव्यवरसरोहंसं - श्रितजनकुवलयशीतमयूखं रामलावण्याभ्रराजमयूरं - रामचन्द्रपदराजीवमधुपं तरुणायतदोःस्तम्भगम्भीरं - सुग्रीव-श्रीराम सन्धानहेतुं सुग्रीववेदितश्रीरामवृत्तान्तं - अग्निसाक्षीकृत अर्कजरामम् ॥ सीताभूषणसमर्पितरामं - श्रीरामसुग्रीवसख्योल्लासं वालिवधोपायवरमृदुवाक्यं - सुग्रीवपट्टाभिषेकप्रवीणं वानरसेवासमाहूतधीरं - सकलदेशागतशाखामृगनेतारं रामचन्द्रदत्तरमणीयभूषं - स्वयम्प्रभादत्तसुफलातिभोज्यं लङ्कागमनसमलङ्कृतदेहं - सागरोल्लङ्घनसम्पूर्णकायम् ॥ अब्धिमध्यमित्र अगपतिपूज्यं - सुरसामायाध्वान्तसूर्यप्रकाशं छायाग्रहिच्छेदशमनस्वरूपं - दिव्यद्वेगकृतगोष्पादजलधिं सुवेलाशिखराग्रशमिताभिगमं - लङ्किणीभञ्जनलावण्यसारं लङ्कावरोधिनिश्शङ्कितहृदयं - सीतान्वेषणसुरशत्रुसदनं वायुप्रेरितवरवनगमनं - सीतादर्शनचिन्तापहरणम् ॥ रावणदुर्वाक्य अक्षीणकोपं - सीतानिवेदितश्रीरामकुशलं राघवीयकथारञ्जितरामं - रामाङ्गुलीयकरामनिवेद्यं वसुधात्मजादत्तवरशिरोभूषं - अतिशयजलदर्प अशोकभङ्गं दनुजनिवहवनदहनदावाग्निं - वज्रायुधघोरवालकरालं सप्तमन्त्रिसुतशलभकृशानुं - जम्बुमालिवधचण्डप्रतापम् ॥ अक्षकुमारसंहरणविक्षेपं - ब्रह्मास्त्रबन्धितब्रह्मवरदानं चातुर्भागसैन्यचण्डितरूपं - वायुप्रेरितवालाग्निज्वालं सीताप्रसादितशीतलवालं - वरराक्षसगृहवह्निसन्दग्धं कपिदृक्चकोरसङ्गतचन्द्रबिम्बं - तारानन्दनादि तरुचरयुक्तं मधुवनमधुपानमत्तकपीन्द्रं - कौसलेयकार्यकरुणसमर्थम् ॥ रामनिवेदितरामवृत्तान्तं - वरविभीषणरक्षावाक्यनैपुण्यं रामसंवर्धितराक्षससङ्ख्यं - अब्धिबन्धनकार्य अमितोत्साहं प्रबलजलधिसेतुबन्धननिपुणं - धूम्रक्षाकम्पनत्रिशिरसंहारं रामनामास्त्रेण राक्षसनाशं - रणकर्कशघोरराजितवेषं रावणघनयुद्धरामतुरङ्गं - मेघनादसैन्यमृत्युस्वरूपं ॥ रक्षेन्द्रजिद्युद्धलक्ष्मणतुरङ्गं - लक्ष्मणमूर्छासंरक्षणहृदयं सञ्जीवाद्रिगमनसन्तोषस्वान्तं - कालनेमिकृतघनमायायुक्तं मकरबन्धीकृतमहितपदाब्जं - धान्यमालिनीशापधर्षितरूपं कालनेमिदनुजखण्डितधीरं - दिकृताद्य्रधीशतीव्रप्रकोपं गन्धर्वसैन्यसंक्षोभप्रतापं - स्तबकीकृतधृतसञ्जीवनाद्रिम् ॥ भरतसम्बोधितप्रशमितबाणं - माल्यवदादि महोदथधिहरणं लक्ष्मणप्राणसंरक्षणनिलयं - सौमित्रिसम्मोहजलदसमीरं अब्धिमध्यमथितराक्षसवरं - स्थूलजङ्घासुरतुमुलसंहरणं सिन्धूल्लङ्घनजलदसमीरं - वालप्राकारसंवेष्टितवीरं पाताललङ्काप्रवेशितधीरं - मत्स्यवल्लभधीरमहनीयभीतिम् ॥ मैत्रीकृतधीरमत्स्याधिपत्यं - दोर्दण्डीकृतामितधैर्यप्रतापं भिन्नतुलायन्त्रभीमस्वरूपं - बलराक्षसकोटिभञ्जिसत्त्वं श्रुतिवाक्यश्रवणसन्तोषितस्वान्तं - मैरावणकृतमर्मसंवेद्यं मैरावणसैन्यमर्दितशूरं - महनीयातिघोरमैरावणाजिं दोर्दण्डिवाक्यातिखण्तदैत्यं - नीलमेघकृतनिस्तुलराज्यं ॥ रामलक्ष्मणपूर्वलङ्काभिगमनं - सकलवानरस्तुतिसन्तोषहृदयं प्रबलमूलबलप्रलयकालाग्निं - रामारावणयुद्धरामतुरङ्गं दशकण्ठकण्ठविलुण्ठनदीक्षं - राक्षसानुजदत्तलङ्काभिषेकं पुष्पकाधिरूढपृथ्वीशसहितं - साकेतपुरवाससबलसंयुक्तं भक्तपापतिमिरभास्कररूपं - दशकण्ठवधोपायचातुर्ययुक्तम् ॥ एकैकराक्षस एकैकरूपं - दशकण्ठच्छेदनसीताप्रबोधं अवनिजाधिपयुक्तराज्यप्रवेशं - अश्वमेधयाग अमितोत्साहं दशशतशिरच्छेददीक्षाप्रतापं - दशशितशिरोधार्यभक्षाभिरक्तं राक्षससैन्यादिभेदस्वरूपं - दशशतशिरच्छेददशरथसूनुं सकलसैन्यावृतसाकेतवासं - बोधितकपिवर्यपूर्णस्वरूपम् ॥ झङ्कारोच्चाटितडाकिनीसैन्यं - चलितवालसंवेष्टितकायं यजितरामपादयजुरादिवाक्यं - श्रीकाकुलेशाश्रितमन्दारं भक्तजनकारणमुक्तिनिदानं - लीलाविनोदितदानवस्वरूपं परिपालितभक्तपादपकल्पम् - बुधजनवेदितपूर्णस्वरूपम् ॥ मोहनघनभेदमुक्तेविवासं - भद्राचलरामभद्रसमेतं वरसुन्दररामदासानुपालं - मङ्गलमञ्जनामारुतपुत्रं श्रीरामदूतं शिरसा नमामि - श्रीरामदूतं शिरसा नमामि ॥ इति श्रीरामदूतं शिरसा नमामि जपं सम्पूर्णम् ।