अक्षर आकार:

श्रीसङ्कष्टमोचनस्तोत्रम् २

Shrisankashtamochanastotram 2

श्रीसङ्कष्टमोचनस्तोत्रम् २

काशीपीठाधीश्वर जगद्गुरुशङ्कराचार्यस्वामि श्रीमहेश्वरानन्दसरस्वतीविरचितं स्तोत्रम् सिन्दूरपूररुचिरो बलवीर्यसिन्धुः बुद्धिप्रभावनिधिरद्भुतवैभवश्रीः । दीनार्तिदावदहनो वरदो वरेण्यः सङ्कष्टमोचनविभुस्तनुतां शुभं नः ॥ १॥ सोत्साहलङ्घितमहार्णवपौरुषश्रीः लङ्कापुरीप्रदहनप्रथितप्रभावः । घोराहवप्रमथितारिचयप्रवीरः प्राभञ्जनिर्जयति मर्कटसार्वभौमः ॥ २॥ द्रोणाचलानयनवर्णितभव्यभूतिः श्रीरामलक्ष्मणसहायकचक्रवर्ती । काशीस्थदक्षिणविराजितसौधमल्लः श्रीमारुतिर्विजयते भगवान् महेशः ॥ ३॥ नूनं स्मृतोऽपि ददते भजतां कपीन्द्रः सम्पूजितो दिशति वाञ्छित-सिद्धिवृद्धिम् । संमोदकप्रिय उपैति परं प्रहर्षं रामायणश्रवणतः पठतां शरण्यः ॥ ४॥ श्रीभारतप्रवरयुद्धरथोद्धतश्रीः पार्थैककेतनकरालविशालमूर्तिः । उच्चैर्घनाघनघटाविकटाट्टहासः श्रीकृष्णपक्षभरणः शरणं ममाऽस्तु ॥ ५॥ जङ्घालजङ्घ उपमातिविदूरवेगो मुष्टिप्रहारपरिमूर्च्छितराक्षसेन्द्रः । श्रीरामकीर्तितपराक्रमणोद्धवश्रीः प्राकम्पनिर्विभुरुदञ्चतु भूतये नः ॥ ६॥ सीतार्तिदारणपटुः प्रबलः प्रतापी श्रीराघवेन्द्रपरिरम्भवरप्रसादः । वर्णीश्वरः सविधिशिक्षितकालनेमिः पञ्चाननोऽपनयतां विपदोऽधिदेशम् ॥ ७॥ उद्यद्भानुसहस्रसन्निभतनुः पीताम्बरालङ्कृतः प्रोज्ज्वालानलदीप्यमाननयनो निष्पिष्टरक्षोगणः । संवर्तोद्यतवारिदोद्धतरवःप्रोच्चैर्गदाविभ्रमः श्रीमान् मारुतनंदनः प्रतिदिनं ध्येयो विपद्भञ्जनः ॥ ८॥ रक्षःपिशाचभयनाशनमामयाधि प्रोच्चैर्ज्वरापहरणं हननं रिपूणाम् । सम्पत्तिपुत्रकरणं विजयप्रदानं सङ्कष्टमोचनविभोः स्तवनं नराणाम् ॥ ९॥ दारिद्र्यदुःखदहनं शमनं विवादे कल्याणसाधनममङ्गलवारणाय । दाम्पत्यदीर्घसुखसर्वमनोरथाप्तिं श्रीमारुतेः स्तवशतावृतिरातनोति ॥ १०॥ स्तोत्रं य एतदनुवासरमाप्तकामः श्रीमारुतिं समनुचिन्त्य पठेत् सुधीरः । तस्मै प्रसादसुमुखो वरवानरेन्द्रः साक्षात्कृतो भवति शाश्वतिकः सहायः ॥ ११॥ सङ्कष्टमोचनस्तोत्रं शङ्कराचार्यभिक्षुणा । महेश्वरेण रचितं मारुतेश्चरणेऽर्पितम् ॥ १२॥ इति काशीपीठाधीश्वर जगद्गुरुशङ्कराचार्यस्वामि श्रीमहेश्वरानन्दसरस्वतीविरचितं श्रीसङ्कष्टमोचनस्तोत्रं सम्पूर्णम् । From Hanumatstutimanjari, Mahaperiaval Publication