अक्षर आकार:

श्रीपवनजाष्टकम्

shrIpavanajAShTakam

श्रीपवनजाष्टकम्

भवभयापहं भारतीपतिं भजकसौख्यदं भानुदीधितिम् । भुवनसुन्दरं भूतिदं हरिं भजत सज्जना मारुतात्मजम् ॥ १॥ अमितविक्रमं ह्यञ्जनासुतं भयविनाशनं त्वब्जलोचनम् । असुरघातिनं ह्यब्धिलङ्घिनं भजत सज्जना मारुतात्मजम् ॥ २॥ परभयङ्करं पाण्डुनन्दनं पतितपावनं पापहारिणम् । परमसुन्दरं पङ्कजाननं भजत सज्जना मारुतात्मजम् ॥ ३॥ कलिविनाशकं कौरवान्तकं कलुषसंहरं कामितप्रदम् । कुरुकुलोद्भवं कुम्भिणीपतिं भजत सज्जना मारुतात्मजम् ॥ ४॥ मतविवर्धनं मायिमर्दनं मणिविभञ्जनं मध्वनामकम् । महितसन्मतिं मानदायकं भजत सज्जना मारुतात्मजम् ॥ ५॥ द्विजकुलोद्भवं दिव्यविग्रहं दितिजहारिणं दीनरक्षकम् । दिनकरप्रभं दिव्यमानसं भजत सज्जना मारुतात्मजम् ॥ ६॥ कपिकुलोद्भवं केसरीसुतं भरतपङ्कजं भीमनामकम् । विबुधवन्दितं विप्रवंशजं भजत सज्जना मारुतात्मजम् ॥ ७॥ पठति यः पुमान् पापनाशकं पवनजाष्टकं पुण्यवर्धनम् । परमसौख्यदं ज्ञानमुत्तमं भुवि सुनिर्मलं याति सम्पदम् ॥ ८॥ From Hanumatstutimanjari, Mahaperiaval Publication