अक्षर आकार:

श्रीपञ्चमुखिहनुमत्पञ्चरत्नम्

shrIpa~nchamukhihanumatpa~ncharatnam

श्रीपञ्चमुखिहनुमत्पञ्चरत्नम्

श्रीरामपादसरसीरुहभृङ्गराज- संसारवार्धिपतितोद्धरणावतार । दोःसाध्यराज्यधनयोषिददभ्रबुद्धे पञ्चाननेश मम देहि करावलम्बम् ॥ १॥ आप्रातरात्रिशकुनाथनिकेतनालि सञ्चारकृत्य पटुपादयुगस्य नित्यम् । मानाथसेविजनसङ्गमनिष्कृतं नः पञ्चाननेश मम देहि करावलम्बम् ॥ २॥ षड्वर्गवैरिसुखकृद्भवदुर्गुहाया- मज्ञानगाढतिमिरातिभयप्रदायाम् । कर्मानिलेन विनिवेशितदेहधर्तुः पञ्चाननेश मम देहि करावलम्बम् ॥ ३॥ सच्छास्त्रवार्धिपरिमज्जनशुद्धचित्ता- स्त्वत्पादपद्मपरिचिन्तनमोदसान्द्राः । पश्यन्ति नो विषयदूषितमानसं मां पञ्चाननेश मम देहि करावलम्बम् ॥ ४॥ पञ्चेन्द्रियार्जितमहाखिलपापकर्मा शक्तो न भोक्तुमिव दीनजनो दयालो । अत्यन्तदुष्टमनसो दृढनष्टदृष्टेः पञ्चाननेश मम देहि करावलम्बम् ॥ ५॥ इत्थं शुभं भजकवेङ्कटपण्डितेन पञ्चाननस्य रचितं खलु पञ्चरत्नम् । यः पापठीति सततं परिशुद्धभक्त्या सन्तुष्टिमेति भगवानखिलेष्टदायी ॥ ६॥ इति श्रीवेङ्कटार्यकृतं श्रीपञ्चमुखिहनुमत्पञ्चरत्नं सम्पूर्णम् । From Hanumatstutimanjari, Mahaperiaval Publication