अक्षर आकार:

नीलमेघस्तुतिः

Nilamegha Stuti

नीलमेघस्तुतिः

सच्चिदानन्दरूपाय सृष्टिस्थित्यन्तकारिणे । चराचरस्वरूपाय पुराणपुरुषाय च ॥ १॥ नमो लोकशरण्याय दीनसंरक्षणाय च । भक्तपालनरूपाय आपन्नार्तिहराय च ॥ २॥ त्वत्पाददर्शनाद्दुःखमशेषं नः प्रणश्यतु । अनेकजन्मसाहस्त्रैः सम्भृतं पुण्यमस्ति मे ॥ ३॥ नचेत्कथं त्वदीयाङ्घ्रिदर्शनं स्यादहैतुकम् । आगामि श्रेयसो हेतुर्वर्तमानाघशोधकम् । पूर्वपुण्यार्जितं कस्य नाशास्यं तव दर्शनम् ॥ ४॥ अद्य मे सफलं जन्म भवत्पादाब्जवन्दनात् । कृतार्थाः पितरस्सर्वे मम वंशसमुद्भवाः ॥ ५॥ फलिताः क्त्रतवो नूनं विप्राः सत्याशिषोऽभवन् । यथार्थो जनवादश्च चिराय भविता मम ॥ ६॥ अपि जन्तुर्महद्दुःखी जीवन्भद्राणि पश्यति ॥ ७॥ मैरावणोऽपि दुष्टात्मा मातुलो मम निर्दयः । सद्गतिं प्राप्नुयात्सत्यमिति मे निश्चिता मतिः ॥ ८॥ आश्लिष्टसर्वगात्रोऽयं साक्षात्कृतपदद्वयः । त्वत्पादघातसम्मृष्टः हृतप्राणसमीरणः ॥ ९॥ एवं विधः कथं स्वामिन् न मुच्येत भवाम्बुधेः । अन्यथा कथमन्येषां मुक्त्याशा भजतामपि ॥ १०॥ अद्य प्रभृति नः स्वामिन् भूयाद्भक्तिः पदाब्जयोः । धर्मार्थकाममोक्षाणां इयमेव प्रसूर्मम ॥ ११॥ इति नीलमेघस्तुतिः समाप्ता ।