अक्षर आकार:

मन्त्रात्मकं श्रीमारुतिस्तोत्रम्

Mantratmakam Shri Maruti Stotram

मन्त्रात्मकं श्रीमारुतिस्तोत्रम्

ॐ नमो भगवते आञ्जनेयाय महाबलाय स्वाहा । ॐ नमो वायुपुत्राय भीमरूपाय धीमते । नमस्ते रामदूताय कामरूपाय श्रीमते ॥ १॥ मोहशोकविनाशाय सीताशोकविनाशिने । भग्नाशोकवनायास्तु दग्धलङ्काय वाग्मिने ॥ २॥ गतिनिर्जितवाताय लक्ष्मणप्राणदाय च । वनौकसां वरिष्ठाय वशिने वनवासिने ॥ ३॥ तत्त्वज्ञानसुधासिन्धुनिमग्नाय महीयसे । आञ्जनेयाय शूराय सुग्रीवसचिवाय ते ॥ ४॥ जन्ममृत्युभयघ्नाय सर्वक्लेशहराय च । नेदिष्ठाय प्रेतभूतपिशाचभयहारिणे ॥ ५॥ यातनानाशनायास्तु नमो मर्कटरूपिणे । यक्षराक्षसशार्दूलसर्पवृश्चिकभीहृते ॥ ६॥ महाबलाय वीराय चिरञ्जीविन उद्धते । हारिणे वज्रदेहाय चोल्लङ्घितमहाब्धये ॥ ७॥ बलिनामग्रगण्याय नमो नमः पाहि मारुते । लाभदोऽसि त्वमेवाशु हनुमन् राक्षसान्तक । यशो जयं च मे देहि शत्रून्नाशय नाशय ॥ ८॥ स्वाश्रितानामभयदं य एवं स्तौति मारुतिम् । हानिः कुतो भवेत्तस्य सर्वत्र विजयी भवेत् ॥ ९॥ इति श्री हृत्पुण्डरिकाधिष्ठितश्रीमत्परमहंसपरिव्राजकाचार्य श्रीवासुदेवानन्दसरस्वतीकृतं मन्त्रात्मकं श्रीमारुतिस्तोत्रं सम्पूर्णम् ।
From Hanumatstutimanjari, Mahaperiaval Publication