अक्षर आकार:

श्रीमारुतिस्तवः

Shri Maruti Stava

श्रीमारुतिस्तवः

॥ श्रीमत रामाय नमः ॥ एतत्स्तवीयपचैकैकपादप्रथमाऽक्षरैरुच्चार्यमाणा रामरक्षास्तोत्रीयाएते श्लोकाः - शिरो मे राघवः पातु भालं दशरथात्मजः । कौशल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती ॥ १॥ घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः । जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः ॥ २॥ स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः । करौ सीतापतिः पातु हृदयं जामदग्न्यजित् ॥ ३॥ मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः । सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः ॥ ४॥ उरू रघूत्तमः पातु रक्षःकुलविनाशकृत् । जानुनी सेतुकृत् पातु जङ्घे दशमुखान्तकः ॥ ५॥ पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः । इति शम् । ॥ श्रीः ॥ अथ श्रीमारुतिस्तवः । ॥ श्रीगणेशाय नमः ॥ मङ्गलाचरणम् । राजतेजौपमे विराजते याऽऽसने महति राजतेऽत्र सा । सर्वदानवकदध्नि सर्वदा सर्वदा दधिमथी मथीनतात् ॥ १॥ सहंसका हंसगतिप्रवीणा वीणामुपादाय निजां स्वपाणौ । सरस्वती सा मम चित्तरङ्गेऽरं गेयमारभ्य नटीव नृत्यात् ॥ २॥ माधवनन्दननित्यानन्दनतो नन्दनन्दनो नन्द्यात् । स्वपदारविन्दनन्दितमिन्दिन्दिरमिन्दिरेश ! चाऽऽनन्द्यात् ॥ ३॥ अथ स्तवप्रारम्भः - शिञ्जानमञ्जमुकुटैः सुकुटैरिवोच्चै रोचिर्भिरद्भिरिव रुद्धतराऽन्तरालैः । मेध्यैः सुरैः पदयुगं बहु सिच्यमानं रामाऽनुगस्य विनुमो द्युततरूपमानम् ॥ १॥ घर्मोपमानभवतापजुषः पुमांसोऽ- वः सत्यमेव सुखदः परिदर्श्यते वः । पादद्युपादप उदेति वनौकसोऽर्ति- तुच्छाय एष इति तत्तलमाश्रयध्वम् ॥ २॥ भा यन्नखेभ्य उदिता मुदिता समुद्र- लङ्घस्य साधु समये समयादधस्तात् । दर्वीकरेभ्य इव सूचयितुं प्रियं स्वं शर्म प्रयच्छतु कपीशपदद्वयं तत् ॥ ३॥ रक्ता हि यत्र भृशमङ्गुलंयो रमन्तेऽ थात्सारितेव रुचिरा रुचिराश्रयं यम् । मत्वा परं व्रजति रक्ततराऽपि सस्वौ- जः संयुतो हनुमतो नु मतोंऽघ्रिपद्मः ॥ ४॥ कौ धावतेऽ तिगमिताम्बुधये तु यस्मै शल्यादिभिर्विरहितां सहितां प्रकाशैः । येयामिव स्फुटयितं पदवीं यदीया योज्येव याति पदरुक्पुरतः स पातु ॥ ५॥ दृष्ट्वा यदीयपदपङ्कजमेकवारं शौटीर्यवीर्यसहितं जलराशिलङ्घे । पापात् प्रमुच्यत इहैव नरश्च पूज्योऽ तुल्यो भवत्यऽवतु सोऽनिलनन्दनो नः ॥ ६॥ वित्यज्य याति जनकस्य गृहं हि जाता श्वासारतां सुदधती स्वविवृद्धिकाले । मिथ्यात्वहीनमिति निर्दिशतीव यद्भाऽ त्रस्थेनवेश्म भजते भज ते पदे हृत् ॥ ७॥ प्रिय सर्वदैव बहुरक्ततराऽङ्गुलीषु यः श्रीमतो हनुमतोऽङ्घ्रियुगप्रकाशः । श्रुत्यादिकीर्तितगुणो दशदिक्षु सूर्योऽ- तीन्धेऽयमित्यऽवगतः कविभिस्सवोऽव्यात् ॥ ८॥ घ्रातव्यभव्यसुरभिः सुरभिः सदा प्र- णन्दन्मनोभिरमरैर्भ्रमरैरिवोच्चैः । पापप्रतापसुसमापनतापरः सोऽ- तुल्यः पुनातु पुरु पावनिपादपद्मः ॥ ९॥ मय्युच्छ्रितात्मनि क एधत आ इतीव खज्योतिषां समुदयाय रुषेव रक्ता । त्रासं प्रदातुमित एति हि यत्प्रभोर्द्ध्वं तार्यात्स देव।भवतो भवतोंऽघ्रिपद्मः ॥ १०॥ इतिपादवर्णनं समाप्तम् ॥ मुञ्चन् फणामजगरोऽतिगरोऽयमित्थं खं संस्पृशन्नुपरितः परितश्च यस्य । सौलभ्यतः परिचितः कविभिः सुपुच्छो मिथ्यात्वमन्तयतु नः स समीरसूनुः ॥ ११॥ त्रिर्यं स्वपुच्छमलमच्छकशासुपट्ट- वत् सन्ततं ह्युपरितः परितः प्रकम्प्य । सन्ताडिता हनुमता रिपवः स धूते- लः कम्पयेत किमुनाऽस्मदरातिवर्गम् ॥ १२॥ जित्वाऽक्षमुच्छलितमन्यपरं प्रतीवाऽऽ- ह्वां कर्त्तुमीहितवतः समदं समानम् । विर्वालधी रयत ऐदिव खं हि यस्याऽ- द्याऽस्मान् प्रबोधयतु सोऽप्रथमोवनौकाः ॥ १३॥ निन्ये यमाशु शमितां शमितस्वभक्ताऽऽ- धिः शान्त एव हि हरिस्मरणे हनूमान् । पापिद्विषां च शमने स्वयमुद्भटः स्व- तुल्यं व्यधाच्छमिह गुच्छयतात्स पुच्छः ॥ १४॥ कन्दर्पदर्पदलनं गलनन्दिताऽहिं ठं दध्युषोऽवतु कपेः स्तिमितः स पुच्छः । भव्योऽभवत्तदनु यस्य हि वालहस्तो रक्षोदयाऽनुगतियन्त्रितसूत्रशाली ॥ १५॥ तन्यात्तमामतिमतिं विहितस्तुतीनां वन्द्यस्य तद्धनुमतो ललितं सुलूमम् । दिष्टाऽहिबन्धनमरिव्रजमाशु येने तःप्रक्षतोऽपि फणिनेव बबन्ध वीरः ॥ १६॥ स्कन्दाभ ईशजतया च सशक्तितायां धौरेयतां कपिबले दधदेधतां सः । दिष्ट्या तु यस्य भवकूपनिमग्नजन्तून् व्यामोहितानुपरि कर्षति पुच्छरज्जुः ॥ १७॥ युद्धे हि येन करटीव करेण वीरोऽ- धः पातयन् विटपिनो नहि विघ्नमाप । पापं लुनातु मलमल्लकिनः सुमल्ल- तुल्यस्य लूमममलं मम लम्बितं तत् ॥ १८॥ भुञ्जीत तत्फलमिहैव स यो यदञ्ज्याज्- जौर्त्यप्रदं परहृदो निदिशन्नितीव । भव्यो हि योऽरिषु तमैक्षयतर्द्धिमाप्याऽ- ग्नेः पूर्वमात्मनि स पातु कपीशपुच्छः ॥ १९॥ शक्तो निशाचरमहःशिथिलीकृतौ यः कार्ये वशीकरण आशु च शूर एव । मुञ्चेद्वशेस्थितमरिं सुकशैव शोभौ- कः प्रातु शौयमनिशं बहुशः स पुच्छः ॥ २०॥ इति पुच्छवर्णनं समाप्तम् ॥ कण्ठोत्तमाङ्गलसितौ सुसिताविवाऽही रौप्याविव स्वतनुजाय हरेण दत्तौ । सीदद्भिरेवमरिभिः प्रवितर्कितौ यौ तावत्र शं वितनुतां कपिराजबाहू ॥ २१॥ पद्मेशनामकथकान्प्रति नृन्प्रदत्तो- तिःश्रीशदूत उदितं यमदूतमन्ते । पात्यं प्रपात्य मिषतो नु ययोर्दधे तत्- तुच्छस्य मुद्गरयुगं भज तद्भजौ तौ ॥ २२॥ हृत्याऽङ्गतोऽरिसुदृशां मृतभर्तृकाणां दस्योः पृथोः स्वसहसा सहसा च हृत्या । यन्त्रेण योंऽगदमणेर्भुजयोश्च तत्राऽ- जानान्नु दाऽर्थचयमाशु विभुः स पायात् ॥ २३॥ मह्युद्भवाऽर्पितमणिग्रहणक्षणेऽनु- दग्ग्राऽऽननस्य सुकपेर्नमितो भुजो यः । न्यस्य स्वकेऽहिसमतां नतपाणिकोष- जित्। सन्मणीफणमणी मनुते स्तुवे तम् ॥ २४॥ मत्वा गिरिं तृणमिवोद्धृतवान्कपीशोऽ ध्यङ्ग हि यस्य सहसा स हरीशबाहुः । पापैर्निशाचरचयैस्त्रपयैव दृष्टोऽ- तुल्यः शुचं शमयतामयताञ्च शोभाम् ॥ २५॥ खद्योतमुद्गतमवेत्य रसालमेव रत्या तमाप्तुमित उत्पततोऽति वातेः । ध्वञ्जद्धृणिर्भुजयुगल्यधिरोहिणी या सीदन्नृणां दिवि गमायतता श्रये ताम् ॥ २६॥ नाभस्वतस्य च सदर्पकचेष्टितं तद् भिन्दानमर्तिगणमुज्ज्वलचारुशोभम् । जाग्रत्पलाशपतनं मधुमाधवीया- म्बह्वीं श्रियं तुलयदुच्यतु दोर्द्वयं वः ॥ २७॥ वन्येशितुर्भुजलताऽङ्गुलिशाखिकाऽव्या- दासक्तपाणिदलकङ्कणिकाः च तत्र । श्रद्धेयमुत्पृथु दरस्फुटितं सुमं तद् यः सार्थकः करधृतः खलु मुद्गरोऽस्ति ॥ २८॥ सष्ठु स्मराम्यऽपि च तौ सुकपिप्रवेष्टौ ग्रीवासुकम्बुमति नाभिजलभ्रमाढ्ये । वेलोत्कटे हनुमतोऽङ्ग्युदधौ च यौ साऽऽ शः सत्कविः सुमनुते तटभित्तिबन्धौ ॥ २९॥ कञ्जासनेन रचिता रिपुताडनाय टीक्याविमौ हनुमतः किमु दीर्घदण्डौ ?। पा स्तम्भको हरिरधादुत धर्तुमर्या- तुन्नं जगन्न्विति मतौ नम वातिबाहू ॥ ३०॥ इति भुजवर्णनं समाप्तम् ॥ सक्तद्युतेर्द्युतिविभातविभातकालोत्- थित्यऽच्छकच्छविधृतो रविमण्डलस्य । नीकाशभावमयमानमथाऽसमानं हर्यच्छभल्लपतिमन्त्रिमुखं तदव्यात् ॥ ३१॥ नुत्यो रविः किमुदितो न तु पूर्वसानु- मत्कूट एष किमु राजति पूर्णचन्द्रः ?। प्रत्यक्षमेतदह रा मनितं तु यस्याऽऽ- भुः। सम्मुदा जनकजाऽप्तिजयाऽऽन्तराणि ॥ ३२॥ ऊरू प्रताडयत एव हि तस्य वाते रूढप्रसादमवलोक्यत आननाब्जम् । रत्येति संप्रथित ऋक्षमुखैः सदा स घूतकृन्निशाटगणमेजयतां मुखेन्दुः ॥ ३३॥ तथ्यं भवेदजलजो यदि पद्म उद्यद्- मः सर्वदाऽपि च स तापनमण्डलेन । पादोत्करेण न हि जात्वऽपि तापितः स्यात् तुल्यत्वमात्मनि तदैव लभेत येन ॥ ३४॥ रत्या युतः सुकविवत्सुनिबन्धदत्ताऽ क्षः किं कथञ्चन हठात्तपदप्रयोक्ता । कुञ्चन् भ्रुवौ विरचने कविवर्यमानी लब्धुं कवीश्वरपदं प्रभवेन्मनुष्यः ? ॥ ३५॥ विज्ञाय हेतुत इतोऽतुलतां तु तस्य नाऽमूदृशो गुणगणं हनुमन्मुखस्य । शक्नोमि वर्णयितुमर्णवपूर्णताऽनु- कृत पार्थवं नु विरमामि नमामि यद्वा ॥ ३६॥ जातं यतो जनकजाऽधिगमोत्तरं चा- नुध्वानि गर्जितमुदूर्जितमार्जवाढ्यम् । नीत्वा स्वकर्णपथमव्धितटे भटेन्द्राः सेहुर्न कर्णयितुमर्णवपूर्णगीर्णम् ॥ ३७॥ तुष्टा वितर्क्य शिखिनो घनगर्जित्तं यत् कृतस्नाश्च नैजललनाललनाविलोलाः । पाथोधिमाप्तवत आप्तविदेहजस्य तुष्टिं हनूमत इवाऽऽतनितुंव्यनृत्यन् ॥ ३८॥ जन्तुव्रजोऽपि वनजो हृतभक्तसक्ताऽ- घेहं हि यत्सपदि केसरिनन्दनस्य । दक्षं निशम्य मनसाऽवहितेन चित्रं शर्मप्रकर्षमतुलं लभते सलीलम् ॥ ३९॥ मुख्यस्य मर्कटकुले बतयातुधानान् खाण्ड्यं सुनीतवत आशुगजस्य यच्च । तथ्यं व्यबुध्यत तदा जयतोपशब्दं कः सत्कविर्नहि कपीन्द्रमुखं तदव्यात् ॥ ४०॥ इति मुखवर्णनं समाप्तम् ॥ पादेन योऽरिशिरसि प्रहर्ति विधाय दौःख्यप्रदां स्वचरणस्य च शोणिमानम् । विज्ञो न्यदर्शयत रक्तमिषेण नूनं भीनाशकः कपिवरोऽस्तु स मे प्रसन्नः ॥ ४१॥ षट्रपभ्दिरीश्वरपदाम्बुजयोर्यकः प्र- णत्य स्थितोऽलिरिति चाशुगजश्व नागैः । श्रीमन्मृगारिभिरु केसरिपुत्र इत्यऽ- दः संप्रधार्य जगृहे स्वत एवमेभिः ॥ ४२॥ पातात्स पावनिरपावनपापपातात्- तुन्नस्वकानिह भवे परिधिन्वितुन्नः । रागाऽऽत्तराम इति चाक्षजयी निरागा मोक्षप्रदोऽप्यविहितस्वसुभक्तमोक्षः ॥ ४३॥ खिन्नत्वमाप्य रुदितेन च योऽस्त्रपत्वं लङ्कौकसामृतमसाधयदाञ्जनेयः । वन्द्यः स्व ऐक्षत शिवोद्भवतां यया चाऽऽ- पुः क्षेममात्मसुहृदः स करोतु भद्रम् ॥ ४४॥ इति श्रीहनुमद् वर्णनं समाप्तम् ॥ आद्याऽक्षरप्रकटितोत्तमरामरक्षा- स्तोत्रीयपद्यमणिनाऽत्यऽमुना स्तवेन । रक्षा भवत्युभयतस्त्विति गेय इत्योऽ- ष्टव्यस्तथैष पठनीय उचेलिमोऽर्च्यः ॥ ४५॥ दाधीचवंश उदये ह्युदियाय कास- ल्योपाह्वयश्छिर इनो द्विजरामवक्षः । तस्यात्मजेषु किल पञ्चसु पूर्वजन्मा श्रीमाधवोऽधरत धीरधुरन्धरत्वम् ॥ ४६॥ एकात्मवृत्तरचने विदधत्प्रतिज्ञा शास्त्रार्थसंलपनमाधित यः सभासु । श्रीगट्टुलालबुधतर्कगिरेशतारा- नाथादिभिर्गुणिवरैश्च बहुप्रशस्तः ॥ ४७॥ तत्पुत्रयोर्भगवतीतिपदादिलालो ज्येष्ठोऽस्ति पण्डितवरः पितृलब्धविद्यः । तस्याऽनुजेन च सुशिष्यवरेण नित्या- नन्दाभिधेन बुधपादसुकिङ्करेण ॥ ४८॥ एष स्तवोऽरचि मयोत्सववैजयन्त्यां सम्पूर्णवासरमहाधुरि वै जयन्त्याम् । लोकान् प्रमोदजलधावनुमज्जयन्त्यां वर्षेत्रिषण्नवकुगे हनुमज्जयन्त्याम् ॥ ४९॥ पुरोभागितया हीनाः पुरो भागितया युताः । उत्साहयेयुरत्राऽऽर्या दयादृक्पातनेन माम् ॥ ५०॥ इतिश्रीयोधपुरस्थदाधिमथ (दाहिमा) कासल्योपाख्य- धीरधुरीणश्रीमाधवात्मजाऽऽशुकवि पण्डित नित्यानन्दशास्त्रिरचितः श्रीमारुतिस्तवः समाप्तः ॥ शुभं भवतात् ॥