अक्षर आकार:

श्रीहनुमत्स्तोत्रं विभीषणकृतम्

shrIvibhIShaNakRitam hanumatstotram

श्रीहनुमत्स्तोत्रं विभीषणकृतम्

श्रीगणेशाय नमः । नमो हनुमते तुभ्यं नमो मारुतसूनवे । नमः श्रीरामभक्ताय श्यामास्याय च ते नमः ॥ १॥ नमो वानरवीराय सुग्रीवसख्यकारिणे । लङ्काविदाहनार्थाय हेलासागरतारिणे ॥ २॥ सीताशोकविनाशाय राममुद्राधराय च । रावणान्तकुलच्छेदकारिणे ते नमो नमः ॥ ३॥ मेघनादमखध्वंसकारिणे ते नमो नमः । अशोकवनविध्वंसकारिणे भयहारिणे ॥ ४॥ वायुपुत्राय वीराय आकाशोदरगामिने । वनपालशिरश्छेदलङ्काप्रासादभञ्जिने ॥ ५॥ ज्वलत्कनकवर्णाय दीर्घलाङ्गूलधारिणे । सौमित्रिजयदात्रे च रामदूताय ते नमः ॥ ६॥ अक्षस्य वधकर्त्रे च ब्रह्मपाशनिवारिणे । लक्ष्मणाङ्गमहाशक्तिघातक्षतविनाशिने ॥ ७॥ रक्षोघ्नाय रिपुघ्नाय भूतघ्नाय च ते नमः । ऋक्षवानरवीरौघप्राणदाय नमो नमः ॥ ८॥ परसैन्यबलघ्नाय शस्त्रास्त्रघ्नाय ते नमः । विषघ्नाय द्विषघ्नाय ज्वरघ्नाय च ते नमः ॥ ९॥ महाभयरिपुघ्नाय भक्तत्राणैककारिणे । परप्रेरितमन्त्राणां यन्त्राणां स्तम्भकारिणे ॥ १०॥ पयःपाषाणतरणकारणाय नमो नमः । बालार्कमण्डलग्रासकारिणे भवतारिणे ॥ ११॥ नखायुधाय भीमाय दन्तायुधधराय च । रिपुमायाविनाशाय रामाज्ञालोकरक्षिणे ॥ १२॥ प्रतिग्रामस्थितायाथ रक्षोभूतवधार्थिने । करालशैलशस्त्राय द्रुमशस्त्राय ते नमः ॥ १३॥ बालैकब्रह्मचर्याय रुद्रमूर्तिधराय च । विहङ्गमाय सर्वाय वज्रदेहाय ते नमः ॥ १४॥ कौपीनवाससे तुभ्यं रामभक्तिरताय च । दक्षिणाशाभास्कराय शतचन्द्रोदयात्मने ॥ १५॥ कृत्याक्षतव्यथाघ्नाय सर्वक्लेशहराय च । स्वाम्याज्ञापार्थसङ्ग्रामसङ्ख्ये सञ्जयधारिणे ॥ १६॥ भक्तान्तदिव्यवादेषु सङ्ग्रामे जयदायिने । किल्किलाबुबुकोच्चारघोरशब्दकराय च ॥ १७॥ सर्पाग्निव्याधिसंस्तम्भकारिणे वनचारिणे । सदा वनफलाहारसन्तृप्ताय विशेषतः ॥ १८॥ महार्णवशिलाबद्धसेतुबन्धाय ते नमः । वादे विवादे सङ्ग्रामे भये घोरे महावने ॥ १९॥ सिंहव्याघ्रादिचौरेभ्यः स्तोत्रपाठाद् भयं न हि । दिव्ये भूतभये व्याधौ विषे स्थावरजङ्गमे ॥ २०॥ राजशस्त्रभये चोग्रे तथा ग्रहभयेषु च । जले सर्वे महावृष्टौ दुर्भिक्षे प्राणसम्प्लवे ॥ २१॥ पठेत् स्तोत्रं प्रमुच्येत भयेभ्यः सर्वतो नरः । तस्य क्वापि भयं नास्ति हनुमत्स्तवपाठतः ॥ २२॥ सर्वदा वै त्रिकालं च पठनीयमिदं स्तवम् । सर्वान् कामानवाप्नोति नात्र कार्या विचारणा ॥ २३॥ विभीषणकृतं स्तोत्रं तार्क्ष्येण समुदीरितम् । ये पठिष्यन्ति भक्त्या वै सिद्ध्यस्तत्करे स्थिताः ॥ २४॥ इति श्रीसुदर्शनसंहितायां विभीषणगरुडसंवादे विभीषणकृतं हनुमत्स्तोत्रं सम्पूर्णम् ॥