अक्षर आकार:

श्रीहनुमत्स्वरमालास्तोत्रम्

shrIhanumatsvaramAlAstotram

श्रीहनुमत्स्वरमालास्तोत्रम्

अञ्जनागर्भसम्भूतं अग्निमित्रस्य पुत्रकम् । नमामि रामदूतं तं सर्वकार्यार्थसिद्धये ॥ १॥ आदित्यसदृशं बालं अरुणोदयसम्भवम् । नमामि रामदूतं तं सर्वकार्यार्थसिद्धये ॥ २॥ इङ्गितज्ञस्य रामस्य दूतकार्यपरायणम् । नमामि रामदूतं तं सर्वकार्यार्थसिद्धये ॥ ३॥ ईश्वरस्यांशसम्भूतं ईषणारहितं हरिम् । नमामि रामदूतं तं सर्वकार्यार्थसिद्धये ॥ ४॥ उदधिक्रमणं वीरं उदारचरितं विभुम् । नमामि रामदूतं तं सर्वकार्यार्थसिद्धये ॥ ५॥ ऊरुवेगोत्थिता वृक्षा मुहूर्तं कपिमन्वयुः । नमामि रामदूतं तं सर्वकार्यार्थसिद्धये ॥ ६॥ ऋक्शाखाध्यायिनं शान्तं मृग्यमाणपदार्चितम् । नमामि रामदूतं तं सर्वकार्यार्थसिद्धये ॥ ७॥ ॠकाराद्यक्षरोत्पत्ति ज्ञानपूरितमानसम् । नमामि रामदूतं तं सर्वकार्यार्थसिद्धये ॥ ८॥ ऋऌ इत्यादिवर्णानां उच्चारणविधायकम् । ऌॡ नमामि रामदूतं तं सर्वकार्यार्थसिद्धये ॥ ९॥ एधमानशरीरं तं राजमानमुखाकृतिम् । नमामि रामदूतं तं सर्वकार्यार्थसिद्धये ॥ १०॥ ऐक्ष्वाकुकुलवीरस्य रामस्य प्रियपात्रकम् । नमामि रामदूतं तं सर्वकार्यार्थसिद्धये ॥ ११॥ ओषधाद्रिसमानीतदिव्यौषधिसमन्वितम् । नमामि रामदूतं तं सर्वकार्यार्थसिद्धये ॥ १२॥ औत्सुक्यमात्रकालेन शत्रुक्षयकरं विभुम् । नमामि रामदूतं तं सर्वकार्यार्थसिद्धये ॥ १३॥ इति श्रीहनुमत्स्वरमालास्तोत्रं सम्पूर्णम् ।