अक्षर आकार:

श्रीहनुमत्स्तोत्रम् व्यासतीर्थविरचितम्

shrIHanumatstotram

श्रीहनुमत्स्तोत्रम् व्यासतीर्थविरचितम्

नमामि दूतं रामस्य सुखदं च सुरद्रुमम् । पीनवृत्तमहाबाहुं सर्वशत्रुनिबर्हणम् ॥ १॥ नानारत्नसमायुक्तकुण्डलादिविभूषितम् । सर्वदाभीष्टदातारं सतां वै दृढमाहवे ॥ २॥ वासिनं चक्रतीर्थस्य दक्षिणस्थगिरौ सदा । तुङ्गाम्भोधितरङ्गस्य वातेन परिशोभिते ॥ ३॥ नानादेशागतैः सद्भिः सेव्यमानं नृपोत्तमैः । धूपदीपादिनैवेद्यैः पञ्चखाद्यैश्च शक्तितः ॥ ४॥ भजामि श्रीहनूमन्तं हेमकान्तिसमप्रभम् । व्यासतीर्थयतीन्द्रेण पूजितं प्रणिधानतः ॥ ५॥ त्रिवारं यः पठेन्नित्यं स्तोत्रं भक्त्या द्विजोत्तमः । वांछितं लभतेऽभीष्टं षण्मासाभ्यन्तरे खलु ॥ ६॥ पुत्रार्थी लभते पुत्रं यशोऽर्थी लभते यशः । विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥ ७॥ सर्वथा मास्तु सन्देहो हरिः साक्षी जगत्पतिः । यः करोत्यत्र सन्देहं स याति निरयं ध्रुवम् ॥ ८॥ इति श्रीव्यासतीर्थविरचितम् हनुमत्स्तोत्रं सम्पूर्णम् ।
From Hanumatstutimanjari, Mahaperiaval Publication