अक्षर आकार:

श्रीहनुमत्स्तवराजः

shrIhanumatstavarAjaH

श्रीहनुमत्स्तवराजः

श्रीगणेशाय नमः । हनुमानुवाच । तिरश्चामपि यो राजा समवायं समीयुषाम् । तथा सुग्रीवमुख्यानां यस्तं वन्द्यं नमाम्यहम् ॥ १॥ सकृदेव प्रसन्नाय विशिष्टायैव राज्यदः । विभीषणाय यो देवस्तं वीरं प्रणमाम्यहम् ॥ २॥ यो महापुरुषो व्यापी महाब्धौ कृतसेतुकः । स्तुतो येन जटायुश्च महाविष्णुं नमाम्यहम् ॥ ३॥ तेजसाप्यायिता यस्य ज्वलन्ति ज्वलनादयः । प्रकाशते स्वतन्त्रो यस्तं ज्वलन्तं नमाम्यहम् ॥ ४॥ सर्वतोमुखता येन लीलया दर्शिता रणे । राक्षसेश्वरयोधानां तं वन्दे सर्वतोमुखम् ॥ ५॥ नृभावं तु प्रपन्नानां हिनस्ति च सदा रुजम् । नृसिंहतनुमप्राप्तो यस्तं नृसिंहं नमाम्यहम् ॥ ६॥ यस्माद्विभ्यति वातार्कज्वलनेन्द्राः समृत्यवः । भयं तनोति पापानां भीषणं तं नमाम्यहम् ॥ ७॥ परस्य योग्यतां वीक्ष्य हरते पापसन्ततिम् । पुरस्य योग्यतां वीक्ष्य तं भद्रं प्रणमाम्यहम् ॥ ८॥ यो मृत्युं निजदासानां मारयत्यतिचेष्टदः । तत्रापि निजदासार्थं मृत्युमृत्युं नमाम्यहम् ॥ ९॥ यत्पादपद्मप्रणतो भवत्युत्तमपुरुषः । तमीशं सर्वदेवानां नमनीयं नमाम्यहम् ॥ १०॥ आत्मभावं समुत्क्षिप्य दास्यं चैव रघुत्तमम् । भजेऽहं प्रत्यहं रामं ससीतं सहलक्ष्मणम् ॥ ११॥ नित्यं श्रीरामभक्तस्य किङ्करा यमकिङ्कराः । शिववत्यो दिशस्तस्य सिद्धयस्तस्य दासिकाः ॥ १२॥ इदं हनुमता प्रोक्तं मन्त्रराजात्मकं स्तवम् । पठेदनुदिनं यस्तु स रामे भक्तिमान्भवेत् ॥ १३॥ ॥ इति हनुमत्कल्पे श्रीहनुमन्मन्त्रराजात्मकस्तवराजः सम्पूर्णम् ॥