अक्षर आकार:

श्रीहनुमत्स्तवः

Shri Hanumatstava

श्रीहनुमत्स्तवः

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ आञ्जनेयाय विद्महे । रामदूताय धीमहि । तन्नो यजः प्रचोदयात् ॥ पवमानसुतं वीरं बलिष्ठं बलदायकम् । पाथोधितारणं भीमं हनुमन्तं नमाम्यहम् ॥ १॥ अणिमाद्यष्टसिद्धिं च आरोग्यबुद्धिदायिनम् । असमानप्रभावं तं आञ्जनेयं नमाम्यहम् ॥ २॥ अवरं वरभक्ताग्रं प्राञ्जलिप्रार्थनावरम् । वररागलयज्ञं तं मरुज्जातं नमाम्यहम् ॥ ३॥ रामभक्तिमुदाप्लावं भक्तिसागरपारगम् । नामध्यानसमाधिं तं मारुतिं प्रणमाम्यहम् ॥ ४॥ सीताराममहत्प्रेष्ठं सीताहृच्छिद्रशामनम् । सीतारामपरानिष्ठं महावीरं नमाम्यहम् ॥ ५॥ वाक्सौष्ठवातिनैपुण्यं महामेधाविलासिनम् । वाक्शब्दस्वरमाधुर्यं वातात्मजं नमाम्यहम् ॥ ६॥ गीतसुस्वरसानन्दं आनन्दबाष्पकण्ठिनम् । अतिमाधुर्यगायन्तं वायुपुत्रं नमाम्यहम् ॥ ७॥ रामनामफलाशं तं नामकीर्तनतन्मयम् । त्यागराजकृतिप्रीतं रामभक्तं नमाम्यहम् ॥ ८॥ नवव्याकरणाभिज्ञं तत्त्वसुज्ञानपण्डितम् । नवैतन्नुतिसान्निध्यं नमस्कर्यं प्रणौम्यहम् ॥ ९॥ त्यागराजगुरुस्वामिशिष्यापुष्पाकृपाकरम् । कष्टाधिवारणं वन्दे इष्टेष्टिसिद्धिपूरणम् ॥ १०॥ वानरश्रेष्ठरत्नं तं रामभक्तिरसार्णवम् । पाठितश्लोकसङ्गीतं परमानन्दमङ्गलम् ॥ ११॥ मङ्गलं रामदूताय कपीशाय सुमङ्गलम् । मङ्गलं भक्तिवन्द्याय आञ्जनेयाय मङ्गलम् ॥ १२॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतः श्रीहनुमत्स्तवः गुरौ समर्पितः । ॐ शुभमस्तु । Copyright Pushpa Srivatsan