अक्षर आकार:

श्रीहनुमत्स्तवः

shrIhanumatstavaH

श्रीहनुमत्स्तवः

कन्दर्पकोटिलावण्यं सर्वविद्याविशारदम् । उद्यदादित्यसङ्काशमुदारभुजविक्रमम् ॥ १॥ श्रीरामहृदयानन्दं भक्तकल्पमहीरुहम् । अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥ २॥ वामहस्तं महाकृत्स्नं दशास्यशिरखण्डनम् । उद्यद्दक्षिणदोर्दण्डं हनूमन्तं विचिन्तयेत् ॥ ३॥ बालार्कायुततेजसं त्रिभुवनप्रक्षोभकं सुन्दरं सुग्रीवाद्यखिलप्लवङ्गनिकरैराराधितं साञ्जलिम् । नादेनैव समस्तराक्षसगणान् सन्त्रासयन्तं प्रभुं श्रीमद्रामपदाम्बुजस्मृतिरतं ध्यायामि वातात्मजम् ॥ ४॥ आमिषीकृतमार्ताण्डं गोष्पदीकृतसागरम् । तृणीकृतदशग्रीवमाञ्जनेयं नमाम्यहम् ॥ ५॥ चित्ते मे पूर्णबोधोऽस्तु वाचि मे भातु भारती । क्रियासुर्गुरवः सर्वे दयां मयि दयालवः ॥ ६॥ From Hanumatstutimanjari, Mahaperiaval Publication