हनुमत्पञ्चरत्नस्तोत्रम्
(भगवत्पादानां रामभुजङ्गतः)
शंशंशंसिद्धनाथं प्रणमति चरणं वायुपुत्रं च रौद्रं
वंवंवंविश्वरूपं हहहहहसितं गर्जितं मेघक्षत्रम् ।
तन्तन्त्रैलोक्यनाथं तपति दिनकरं तं त्रिनेत्रस्वरूपं
कङ्कङ्कन्दर्पवश्यं कमलमनहरं शाकिनीकालरूपम् ॥ १॥
रंरंरंरामदूतं रणगजदमितं रावणच्छेददक्षं
बम्बम्बम्बालरूपं नतगिरिचरणं कम्पितं सूर्यबिम्बम् ।
मम्मम्मम्मन्त्रसिद्धिं कपिकुलतिलकं मर्दनं शाकिनीनां
हुंहूंहुङ्कारबीजं हनति हनुमतं हन्यते शत्रुसैन्यम् ॥ २॥
दन्दन्दन्दीर्घरूपं धरकरशिखरं पातितं मेघनादं
ऊँऊँउच्चाटितं वै सकलभुवतलं योगिनीवृन्दरूपम् ।
क्षङ्क्षङ्क्षं क्षिप्रवेगं क्रमति च जलधिं ज्वालितं रक्षदुर्गं
क्षेक्षेङ्क्षें क्षेमतत्वं दनुरुहकुलं मुच्यते बिम्बकारम् ॥ ३॥
कङ्कङ्कङ्कालदुष्टं जलनिधितरणं राक्षसानां विनाशे
दक्षं श्रेष्ठं कवीनां त्रिभुवनचरतां प्राणिनां प्राणरूपम् ।
ॐआंॐआंॐआंॐआंसतत्वं त्रिभुवनरचितं दैवतं सर्वभूते
देवानां च त्रयाणां फणिभुवनधरं व्यापकं वायुरूपम् ॥ ४॥
त्वन्त्वन्त्वंवेदत्वं बहुऋचयजुषं साम चाऽथर्वरूपं
कङ्कङ्कङ्कन्दने त्वं ननु कमलतले राक्षसान् रौद्ररूपान् ।
खङ्खङ्खङ्खड्गहस्तं झटिति भुवितले त्रोटितं नागपाशं
ॐऊँऊँकाररूपं त्रिभुवनपठितं वेदमन्त्राधिमन्त्रम् ॥ ५॥
सङ्ग्रामे शत्रुमध्ये जलनिधितरणे व्याघ्रसिंहे च सर्पे
राजद्वारे च मार्गे गिरिगुहविवरे चोषरे कन्दरे वा ।
भूतप्रेतादियुक्ते ग्रहगणविषये शाकिनीडाकिनीनां
देशे विस्फोटकानां ज्वरवमनशिरःपीडने नाशकस्त्वम् ॥ ६॥
From Hanumatstutimanjari, Mahaperiaval Publication
सोशल मीडिया पर शेयर करें:
सहेजें एवं डाउनलोड करें (Save & Export):