अक्षर आकार:

श्रीहनूमत् पञ्चचामरम्

shrI hanUmat pa~ncha chAmaram

श्रीहनूमत् पञ्चचामरम्

नमोऽस्तु ते हनूमते दयावते मनोगते सुवर्णपर्वताकृते नभस्स्वतः सुताय ते । न चाञ्जनेय ते समो जगत्त्रये महामते पराक्रमे वचःकमे समस्तसिद्धिसङ्क्रमे ॥ १॥ रविं ग्रसिष्णुरुत्पतन् फलेच्छया शिशुर्भवान् रवेर्गृहीतवानहो समस्तवेदशास्त्र्कम् । भवन्मनोज्ञभाषणं बभूव कर्णभूषणं रघूत्तमस्य मानसाम्बुजस्य पूर्णतोषणम् ॥ २॥ धरात्मजापतिं भवान् विभावयन् जगत्पतिं जगाम रामदासतां समस्तलोकविश्रुताम् । विलङ्घ्य वारिधिं जवात् विलोक्य दीनजानकीं दशाननस्य मानसं ददाह लङ्कया समम् ॥ ३॥ विलोक्य मातरं कृशां दशाननस्य तद्वने भवानभाषत प्रियं मनोहरं च संस्कृतम् । समस्तदुष्टरक्षसां विनाशकालसूचनं चकार रावणाग्रतः नयेन वा भयेन वा ॥ ४॥ महाबलो महाचलं समुह्य चौषधिप्रभं भवान् ररक्ष लक्ष्मणं भयावहे महावहे । महोपकारिणं तदा भवन्तमात्मबान्धवं समस्तलोकबान्धवोऽप्यमन्यत स्वयं विभुः ॥ ५॥ भवांश्च यत्र यत्र तत् श‍ृणोति रामकीर्तनं करोति तत्र तत्र भोः सभाष्पमस्तकाञ्जलिं । प्रदेहि मेऽञ्जनासुत त्वदीयभक्तिवैभवं विदेहि मे निरञ्जनं च रामदासदासताम् ॥ ६॥ अगण्यपुण्यवान् भवान् अनन्यधन्यजीवनः विमुच्य मौक्तिकस्रजं ददौ धरात्मजा मुदा । भवन्तमालिलिङ्ग यद् रघूत्तमः स्वयं वदन् इदं हि मे हनूमतः प्रदेयसर्वमित्यहो ॥ ७॥ विदेहराजनन्दिनीमनोहरे वरे परे विदेहमुक्तिदायके विधेहि मे मनो हरे । क्षणं क्षणं निरीक्षणं भवेद् यथा मयि प्रभोः तथा निवेदयस्व मद्दशां दशाननान्तके ॥ ८॥ इदं च पञ्चचामरं गृहाण दासकल्पितं समीरणात्मसम्भव प्रमोदमानचेतसा । रिपून् षडान्तरान् विनाशयाशु दुर्दमान् पुनर्भवाख्यकर्दमात् विमुच्य पाहि पाहि माम् ॥ ९॥ इति श्रीहनूमत् पञ्चचामरस्तोत्रं सम्पूर्णम् ।