अक्षर आकार:

हनुमत्मङ्गलाष्टकम् प्रसन्नाञ्जनेय मङ्गलाष्टकम् च

Hanumatmangalashtakam or Prasananjaneya mangalashtakam

हनुमत्मङ्गलाष्टकम् प्रसन्नाञ्जनेय मङ्गलाष्टकम् च

ॐ गं गणपतये नमः । ॐ श्रीवागीश्वर्यै नमः । ॐ श्रीशोमेश्वराभ्यां नमः । ॐ श्री सीतारामाभ्यां नमः । ओं श्री प्रसन्नाञ्जनेयाय नमः ॥ श्रीमद्धर्मपुरी प्रसन्नाञ्जनेय मङ्गलाशासनम् ॥ भास्वद्वानररूपाय वायुपुत्राय धीमते । अञ्जनीगर्भजाताय आञ्जनेयाय मङ्गलम् ॥ १॥ सूर्यशिष्याय शूराय सूर्यकोटिप्रकाशिने । सुरेन्द्रादिभिर्वन्द्याय आञ्जनेयाय मङ्गलम् ॥ २॥ रामसुग्रीवसन्धात्रे रामायार्पितचेतसे । रामनामैक निष्ठाय राममित्राय मङ्गलम् ॥ ३॥ मनोजवेन गन्त्रे च समुद्रोल्लङ्घनाय च । मैनाकार्चितपादाय रामदूताय मङ्गलम् ॥ ४॥ निर्जित सुरसायास्मै संहृतसिंहिकासवे । लङ्किणीगर्वभङ्गाय रामदूताय मङ्गलम् ॥ ५॥ हृतलङ्केशगर्वाय लङ्कादहनकारिणे । सीताशोकविनाशाय रामदूताय मङ्गलम् ॥ ६॥ भीभत्सरणरङ्गाय दुष्टदैत्य विनाशिने । रामलक्ष्मणवाहाय रामभृत्याय मङ्गलम् ॥ ७॥ धृतसञ्जीवहस्ताय कृतलक्ष्मणजीविने । भृतलङ्कासुरार्ताय रामभटाय मङ्गलम् ॥ ८॥ जानकीरामसन्धात्रे जानकीह्लादकारिणे । हृत्प्रतिष्ठितरामाय रामदासाय मङ्गलम् ॥ ९॥ रम्ये धर्मपुरीक्षेत्रे नृसिंहस्य च मन्दिरे । विलसद् रामनिष्ठाय वायुपुत्राय मङ्गलम् ॥ १०॥ गायन्तं राम रामेति भक्तं तं रक्षकाय च । श्री प्रसन्नाञ्जनेयाय वरदात्रे च मङ्गलम् ॥ ११॥ विश्वलोकसुरक्षाय विश्वनाथनुताय च । श्रीप्रसन्नाञ्जनेयाय वरदात्रे च मङ्गलम् ॥ १२॥ इति श्रीकोरिडे विश्वनाथशर्मणाविरचितं श्रीमद्धर्मपुरी प्रसन्नाञ्जनेय मङ्गलाष्टकं सम्पूर्णम् ॥