श्रीहनुमत्कवचम्
सनत्कुमार उवाच ।
कार्तवीर्यस्य कवचं कथितं ते मुनीश्वर । मोहविध्वंसनं जैत्रं मारुतेः कवचं शृणु ॥ १॥ यस्य सन्धारणात्सद्यः सर्वे नश्यन्त्युपद्रवाः । भूतप्रेतारिजं दुःखं नाशमेति न संशयः ॥ २॥ एकदाहं गतो द्रष्टुं रामं रमयतां वरम् । आनन्दवनिकासंस्थं ध्यायन्तं स्वात्मनः पदम् ॥ ३॥ तत्र रामं रमानाथं पूजितं त्रिदशेश्वरैः । नमस्कृत्य तदादिष्टमासनं स्थितवान् पुरः ॥ ४॥ तत्र सर्वं मया वृत्तं रावणस्य वधान्तकम् । पृष्टं प्रोवाच राजेन्द्रः श्रीरामः स्वयमादरात् ॥ ५॥ ततः कथान्ते भगवान्मारुतेः कवचं ददौ । मह्यं तत्ते प्रवक्ष्यामि न प्रकाश्यं हि कुत्रचित् ॥ ६॥ भविष्यदेतन्निर्द्दिष्टं बालभावेन नारद । श्रीरामेणाञ्जनासूनोर्भुक्तिमुक्तिप्रदायकम् ॥ ७॥अथ कवचम् ।
हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः । पातु प्रतीच्यामक्षघ्नः सौम्ये सागरतारकः ॥ ८॥ ऊर्ध्वं पातु कपिश्रेष्ठः केसरिप्रियनन्दनः । अधस्ताद्विष्णुभक्तस्तु पातु मध्ये च पावनिः ॥ ९॥ लङ्काविदाहकः पातु सर्वापद्भ्यो निरन्तरम् । सुग्रीवसचिवः पातु मस्तकं वायुनन्दनः ॥ १०॥ भालं पातु महावीरो भ्रुवोर्मध्ये निरन्तरम् । नेत्रे छायापहारी च पातु नः प्लवगेश्वरः ॥ ११॥ कपोलौ कर्णमूले च पातु श्रीरामकिङ्करः । नासाग्रमञ्जनासूनुः पातु वक्त्रं हरीश्वरः ॥ १२॥ पातु कण्ठे तु दैत्यारिः स्कन्धौ पातु सुरारिजित् । भुजौ पातु महातेजाः करौ च चरणायुधः ॥ १३॥ नखान्नखायुधः पातु कुक्षौ पातु कपीश्वरः । वक्षो मुद्रापहारी च पातु पार्श्वे भुजायुधः ॥ १४॥ लङ्कानिभर्जनः पातु पृष्ठदेशे निरन्तरम् । नाभिं श्रीरामभक्तस्तु कटिं पात्वनिलात्मजः ॥ १५॥ गुह्यं पातु महाप्राज्ञः सक्थिनी अतिथिप्रियः । ऊरू च जानुनी पातु लङ्काप्रासादभञ्जनः ॥ १६॥ जङ्घे पातु कपिश्रेष्ठो गुल्फौ पातु महाबलः । अचलोद्धारकः पातु पादौ भास्करसन्निभः ॥ १७॥ अङ्गानि पातु सत्त्वाढ्यः पातु पादाङ्गुलीः सदा । मुखाङ्गानि महाशूरः पातु रोमाणि चात्मवान् ॥ १८॥ दिवारात्रौ त्रिलोकेषु सदागतिसुतोऽवतु । स्थितं व्रजन्तमासीनं पिबन्तं जक्षतं कपिः ॥ १९॥ लोकोत्तरगुणः श्रीमान् पातु त्र्यम्बकसम्भवः । प्रमत्तमप्रमत्तं वा शयानं गहनेऽम्बुनि ॥ २०॥ स्थलेऽन्तरिक्षे ह्यग्नौ वा पर्वते सागरे द्रुमे । सङ्ग्रामे सङ्कटे घोरे विराड्रूपधरोऽवतु ॥ २१॥ डाकिनीशाकिनीमारीकालरात्रिमरीचिकाः । शयानं मां विभुः पातु पिशाचोरगराक्षसीः ॥ २२॥ दिव्यदेहधरो धीमान्सर्वसत्त्वभयङ्करः । साधकेन्द्रावनः शश्वत्पातु सर्वत एव माम् ॥ २३॥ यद्रूपं भीषणं दृष्ट्वा पलायन्ते भयानकाः । स सर्वरूपः सर्वज्ञः सृष्टिस्थितिकरोऽवतु ॥ २४॥ स्वयं ब्रह्मा स्वयं विष्णुः साक्षाद्देवो महेश्वरः । सूर्यमण्डलगः श्रीदः पातु कालत्रयेऽपि माम् ॥ २५॥ यस्य शब्दमुपाकर्ण्य दैत्यदानवराक्षसाः । देवा मनुष्यास्तिर्यञ्चः स्थावरा जङ्गमास्तथा ॥ २६॥ सभया भयनिर्मुक्ता भवन्ति स्वकृतानुगाः । यस्यानेककथाः पुण्याः श्रूयन्ते प्रतिकल्पके ॥ २७॥ सोऽवतात्साधकश्रेष्ठं सदा रामपरायणः । वैधात्रधातृप्रभृति यत्किञ्चिद्दृश्यतेऽत्यलम् ॥ २८॥ विद्धि व्याप्तं यथा कीशरूपेणानञ्जनेन तत् । यो विभुः सोऽहमेषोऽहं स्वीयः स्वयमणुर्बृहत् ॥ २९॥ ऋग्यजुःसामरूपश्च प्रणवस्त्रिवृदध्वरः । तस्मै स्वस्मै च सर्वस्मै नतोऽस्म्यात्मसमाधिना ॥ ३०॥ अनेकानन्तब्रह्माण्डधृते ब्रह्मस्वरूपिणे । समीरणात्मने तस्मै नतोऽस्म्यात्मस्वरूपिणे ॥ ३१॥ नमो हनुमते तस्मै नमो मारुतसूनवे । नमः श्रीरामभक्ताय श्यामाय महते नमः ॥ ३२॥ नमो वानरवीराय सुग्रीवसख्यकारिणे । लङ्काविदहनायाथ महासागरतारिणे ॥ ३३॥ सीताशोकविनाशाय राममुद्राधराय च । रावणान्तनिदानाय नमः सर्वोत्तरात्मने ॥ ३४॥ मेघनादमखध्वंसकारणाय नमो नमः । अशोकवनविध्वंसकारिणे जयदायिने ॥ ३५॥ वायुपुत्राय वीराय आकाशोदरगामिने । वनपालशिरश्छेत्रे लङ्काप्रासादभञ्जिने ॥ ३६॥ ज्वलत्काञ्चनवर्णाय दीर्घलाङ्गूलधारिणे । सौमित्रिजयदात्रे च रामदूताय ते नमः ॥ ३७॥ अक्षस्य वधकर्त्रे च ब्रह्मशस्त्रनिवारिणे । लक्ष्मणाङ्गमहाशक्तिजातक्षतविनाशिने ॥ ३८॥ रक्षोघ्नाय रिपुघ्नाय भूतघ्नाय नमो नमः । ऋक्षवानरवीरौघप्रासादाय नमो नमः ॥ ३९॥ परसैन्यबलघ्नाय शस्त्रास्त्रघ्नाय ते नमः । विषघ्नाय द्विषघ्नाय भयघ्नाय नमो नमः ॥ ४०॥ महारिपुभयघ्नाय भक्तत्राणैककारिणे । परप्रेरितमन्त्राणां मन्त्राणां स्तम्भकारिणे ॥ ४१॥ var यन्त्राणां स्तम्भकारिणे पयःपाषाणतरणकारणाय नमो नमः । बालार्कमण्डलग्रासकारिणे दुःखहारिणे ॥ ४२॥ नखायुधाय भीमाय दन्तायुधधराय च । विहङ्गमाय शर्वाय वज्रदेहाय ते नमः ॥ ४३॥ प्रतिग्रामस्थितायाथ भूतप्रेतवधार्थिने । करस्थशैलशस्त्राय रामशस्त्राय ते नमः ॥ ४४॥ कौपीनवाससे तुभ्यं रामभक्तिरताय च । दक्षिणाशाभास्कराय सतां चन्द्रोदयात्मने ॥ ४५॥ कृत्याक्षतव्यथाघ्नाय सर्वक्लेशहराय च । स्वाम्याज्ञापार्थसङ्ग्रामसख्यसञ्जयकारिणे ॥ ४६॥ भक्तानां दिव्यवादेषु सङ्ग्रामे जयकारिणे । किल्किलारवकाराय घोरशब्दकराय च ॥ ४७॥ var किल्किलाबुबुकाराय सर्वाग्निव्याधिसंस्तम्भकारिणे भयहारिणे । सदा वनफलाहारसन्तृप्ताय विशेषतः ॥ ४८॥ महार्णवशिलाबद्धसेतुबन्धाय ते नमः ।फलश्रुतिः ।
इत्येतत्कथितं विप्र मारुतेः कवचं शिवम् ॥ ४९॥ यस्मै कस्मै न दातव्यं रक्षणीयं प्रयत्नतः । अष्टगन्धैर्विलिख्याथ कवचं धारयेत्तु यः ॥ ५०॥ कण्ठे वा दक्षिणे बाहौ जयस्तस्य पदे पदे । किं पुनर्बहुनोक्तेन साधितं लक्षमादरात् ॥ ५१॥ प्रजप्तमेतत्कवचमसाध्यं चापि साधयेत् ॥ ५२॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे हनुमत्कवचनिरूपणं नामाष्टसप्ततितमोऽध्यायः ॥ ७८॥इस नारदपुराणोक्त मारुतिकवच में हनुमानजी को प्रत्येक श्लोकों के द्वारा नमस्कार किया गया है और उन्हें राम का बाण कहकर सम्बोधित भी किया है । इस कल्याणकारी मारुतिकवच का जो भी साधक प्रतिदिन ब्राह्ममुहूर्त में पाठ करता है, उसकी समस्त मनोकामनाएँ पूर्ण होती हैं । जो प्राणी इस कवच को अष्टगन्ध से लिखकर अपने गले या अपनी दाहिनी भुजा में धारण करता है । उसे हर कार्य में सफलता प्राप्त होती है । यदि एक लाख बार श्रद्धा एवं भक्ति से इस कवच का पाठ करके इसे सिद्ध कर लिया जाय तो असाध्य कार्य भी सिद्ध हो जाते हैं । इसमें संशय नहीं हैं ।
NA, Kirk Wortman Naradapurana Purvabhag Adhyaya 78