अक्षर आकार:

श्रीहनुमत्कल्पः

Shrihanumatkalpa

श्रीहनुमत्कल्पः

देव्युवाच । शैवादिगाणपत्यादिशाक्तानि वैष्णवानि च । साधनानि च सौराणि चान्यानि यानि कानि च ॥ १॥ एतानि देवदेवेश त्वदुक्तानि श्रुतानि च । किञ्चिदन्यच्च देवानां साधनं यदि कथ्यताम् ॥ २॥ शङ्कर उवाच । श‍ृणु देवि प्रवक्ष्यामि सावधानावधारय । हनुमत्साधनं पुण्यं महापातकनाशनम् ॥ ३॥ एतद् गुह्यतमं लोके शीघ्रसिद्धिकरं परम् । जपो यस्य प्रसादेन लोकत्रयजितो भवेत् ॥ ४॥ तत्साधनविधिं वक्ष्ये नृणां सिद्धिकरं मतम् । हुङ्कारमादौ सम्प्रोक्तं हनुमते तदनन्तरम् । रुद्रात्मकाय हुं चैव फडिति द्वादशाक्षरम् ॥ ५॥ हुं हनुमते रुद्रात्मकाय हुं फट् ॥ एतन्मन्त्रं समाख्यातं गोपनीयं प्रयत्नतः । तव स्नेहेन भक्त्या च ददामि तव सुन्दरि ॥ ६॥ एतन्मन्त्रमर्जुनाय पुरा दत्तं तु शौरिणा । जपेन साधनं कृत्वा जितं सर्वं चराचरम् ॥ ७॥ नदीकूले विष्णुगेहे निर्जने पर्वते वने । एकाग्रचित्तमाधाय साधयेत् साधनं महत् ॥ ८॥ ध्यानं । महाशैलं समुत्पाट्य धावन्तं रावणं प्रति । तिष्ठ तिष्ठ रणे दुष्ट मम जीवन्न मोक्ष्यसे ॥ ९॥ इति ब्रुवन्तं कोपेन क्रोधरक्तमुखाम्बुजम् । भोगीन्द्राभं स्वलाङ्गूलमुत्क्षिपन्तं मुहुर्मुहुः ॥ १०॥ लाक्षारक्तारुणं रौद्रं कालान्तकयमोपमम् । ज्वलदग्निसमं नेत्रं सूर्यकोटिसमप्रभम् ॥ ११॥ अङ्गदाद्यैर्महावीरैर्वेष्टितं रुद्ररूपिणाम् । एवं रूपं हनूमन्तं ध्यात्वा यः प्रजपेन्मनुम् ॥ १२॥ लक्षजापात्प्रसन्नः स्यात् सत्यं ते कथितं मया । ध्यानैकमाश्रितानां च सिद्धिरेव न संशयः ॥ १३॥ प्रातः स्नात्वा नदीतीर उपविश्य कुशासने । प्राणायामं षडङ्गं च मूलेन सकलं चरेत् ॥ १४॥ पुष्पाञ्जल्यष्टकं दत्त्वा ध्यात्वा रामं ससीतकम् । ताम्रपात्रे ततः पद्ममष्टपत्रं सकेसरम् ॥ १५॥ रक्तचन्दनघृष्टेन लिखेत्तस्य शलाकया । कर्णिकायां लिखेन्मन्त्रं तत्रावाह्य कर्पि प्रभुम् ॥ १६॥ कर्णिकायां यजेद्देवं दत्त्वा पाद्यादिकं ततः । गन्धपुष्पादिकं चैव निवेद्य मूलमन्त्रतः ॥ १७॥ सुग्रीवं लक्ष्मणं चैव अङ्गदं नलनीलकम् । जाम्बवन्तं च कुमुदं केसरिणं दले दले ॥ १८॥ पूर्वादिक्रमतो देवि पूजयेद् गन्धचन्दनैः । पवनं चाञ्जनीं चैव पूजयेद् दक्षवामतः ॥ १९॥ दलाग्रेषु क्रमात्पूज्या लोकपालास्ततः परम् । ध्यात्वा जपेन्मन्त्रराजं लक्षं यावच्च साधकः ॥ २०॥ लक्षान्ते दिवसं प्राप्य कुर्याच्च पूजनं महत् । एकाग्रमनसा धीमांस्तस्मिन् पवननन्दने ॥ २१॥ दिवारात्रौ जपं कुर्याद् यावत्सन्दर्शनं भवेत् । सुदृढं साधकं मत्वा निशीथे पवनात्मजः ॥ २२॥ सुप्रसन्नस्ततो भूत्वा प्रयाति साधकाग्रतः । यथेप्सितं वरं दत्त्वा साधकाय कपिप्रभुः ॥ २३॥ सर्वसौख्यमवापोन्ति विहरेदात्मनः सुखैः । एतच्च साधनं पुण्यं देवानामपि दुर्लभम् । तव स्नेहात् समाख्यातं भक्तासि यदि पार्वति ॥ २४॥ वीरसाधनम् । हनुमतोऽतिगुह्यं च लिख्यते वीरसाधनम् । बाह्ये मुहुर्त उत्थाय कृतनित्यक्रियो द्विजः ॥ २५॥ गत्वा नदीं ततः स्नात्वा तीर्थमावाह्य त्वष्टधा । मूलमन्त्रं ततो जप्त्वा संसिक्तो नित्यसङ्ख्यया ॥ २६॥ ततो वासः परीधाय गङ्गातीरेऽथवा शुचौ । उपविश्य । ॐ अङ्गुष्ठाभ्यां नमः । ॐ हृदयाय नम इत्यादिना च कराङ्गन्यासौ कुर्यात् । करन्यासः - ॐ ह्रां अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं तर्जनीभ्यां नमः । ॐ ह्रूं मध्यमाभ्यां नमः । ॐ ह्रैं अनामिकाभ्यां नमः । ॐ ह्रौं कनिष्ठिकाभ्यां नमः । ॐ ह्रः करतलकरपृष्ठाभ्यां नमः । अङ्गन्यासः - ॐ ह्रां हृदयाय नमः । ॐ ह्रीं शिरसे स्वाहा । ॐ ह्रूं शिखायै वषट् । ॐ ह्रैं कवचाय हुं । ॐ ह्रौं नेत्रत्रयाय वौषट् । ॐ ह्रः अस्त्राय फट् । प्राणायामः । अकारादिवर्णानुच्चरन्वामनासापुटेन वायुं पूरयेत् । पञ्चवर्गानुच्चरत्कुम्भयेत्, यकाराद्येन रेचयेत् ॥ एवं वारत्रयं कृत्वा मन्त्रवर्णैरङ्गन्यास कुर्यात् । ध्यानम् । ध्यायेद्गणे हनूमन्तं कपिकोटिसमन्वितम् । धावन्तं रावणं जेतुं दृष्ट्वा सत्वरमागतम् ॥ २७॥ लक्ष्मणं च महावीरं पतितं रणभूतले । गुरुं च क्रोधमुत्पाद्य गृहीत्वा गुरुपर्वतम् ॥ २८॥ हाहाकारैः सदण्डैश्च कम्पयन्तं जगत्त्रयम् । आब्रह्माण्डसमप्रस्थं कृत्वा भीमं कलेवरम् ॥ २९॥ मन्त्रः । श्रीबीजं पूर्वमुच्चार्य पवनं च ततो वदेत् । नन्दनं च ततो देयं ङेऽवसानेऽनलप्रिया ॥ श्रीपवननन्दनाय स्वाहा ॥ ३०॥ दशार्णोऽयं मनुः प्रोक्तो नराणां सुरपादपः । सप्तदिवसं महाभयं दत्त्वा त्रिभागशेषासु निशासुनियतमागच्छति । यदि साधको मायां तरति ईप्सितं वरं प्राप्नोति ॥ विद्या वापि धनं वापि राज्यं वा शत्रुनिग्रहम् । तत्क्षणादेव प्राप्नोति सत्यं सत्यं सुनिश्चितम् ॥ ३१॥ ॥ इति तन्त्रसारोक्त श्रीहनुमत्कल्पः समाप्तः ॥