श्रीहनुमतः लघुपूजाक्रमः
१. ध्यानम् ॥ अतुलितबलधाम स्वर्णशैलाभदेहं दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् । सकलगुणनिधानं वानराणामधीशं रघुपतिप्रियभक्तं वातजातं नमामि ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः - ध्यायामि ॥ आगच्छ हनुमद्देव त्वं सुवर्चलया सह । पूजासमाप्तिपर्यन्तं भव सन्निहितो मुदा ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः - आवाहयामि । भीमाग्रज महाप्राज्ञ त्वं ममाभिमुखो भव । श्रीरामसेवक श्रीमन् प्रसीद जगतां पते ॥ हे स्वामिन्, स्थिरो भव, वरदो भव, सुमुखो भव, सुप्रसन्नो भव । स्थिरासनं कुरु । देव देव जगन्नाथ केसरीप्रियनन्दन । रत्नसिंहासनं तुभ्यं ददामि हनुमत्प्रभो ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः । नवरत्नखचितस्वर्णसिंहासनं समर्पयामि ॥ योगिध्येयाङ्घ्रिपद्माय जगतां पतये नमः । पाद्यं मयार्पितं देव गृहाण पुरुषोत्तम ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः । पादयोः पाद्यं समर्पयामि ॥ लक्ष्मणप्राणसंरक्ष सीताशोकविनाशन । गृहाणार्घ्यं मया दत्तं अञ्जनाप्रियनन्दन । श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः । हस्तयोः अर्घ्यं समर्पयामि ॥ वालाग्रसेतुबन्धाय शताननवधाय च । तुभ्यमाचमनं दत्तं प्रतिगृह्णीष्व मारुते ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः । मुखे आचमनीयं समर्पयामि ॥ अर्जुनध्वजसंवास दशाननमदापह । मधुपर्कं प्रदास्यामि हनुमन् प्रतिगृह्यताम् ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः । मधुपर्कं समर्पयापि ॥ गङ्गादिसर्वतीर्थेभ्यः समानीतैर्नवोदकैः । भवन्तं स्नपयिष्यामि कपिनायक गृह्यताम् ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः । शुद्धोदकस्नानं समर्पयामि ॥ पीताम्बरमिदं तुभ्यं तप्तहाटकसन्निभम् । दास्यामि वानरश्रेष्ठ सङ्गृहाण नमोऽस्तु ते ॥ उत्तरीयं तु दास्यमि संसारोत्तारकारण । गृहाण च मया प्रीत्या दत्तं धत्स्व यथाविधि ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः । वस्त्रं समर्पयामि । भूषणानि महार्हाणि किरीटप्रमुखान्यहम् । तुभ्यं दास्यामि सर्वेश गृहाण कपिनायक । श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः । आभरणानि समर्पयामि ॥ कस्तूरीकुङ्कुमामिश्रं कर्पूरागरुवासितम् । श्रीचन्दनं तु दास्यामि गृह्यतां हनुमत्प्रभो ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः । गन्धान्धारयामि ॥ सुगन्धीनि सुरूपाणि वन्यानि विविधानि च । चम्पकादीनि पुष्पाणि कमलान्युत्पलानि च ॥ तुलसीदलबिल्वानि मनसा कल्पितानि च । गृहाण हनुमद्देव प्रणतोऽस्मि पदाम्बुजे ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः । पुष्पाणि समर्पयामि ॥ शालीयानक्षतान् रम्यान् पद्मरागसमप्रभान् । अखण्डान् खण्डितध्वान्त स्वीकुरुष्व दयानिधे ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः । अक्षतान्समर्पयामि ॥ अथ अङ्गपूजा ॥ मारुतये नमः । पादौ पूजयामि । सुग्रीवसखाय नमः । गुल्फौ पूजयामि । अङ्गदमित्राय नमः । जङ्घे पूजयामि । रामदासाय नमः । ऊरू पूजयामि । अक्षघ्नाय नमः । कटिं पूजयामि । लङ्कादहनाय नमः । वालं पूजयामि । सञ्जीवननगाहर्त्रे नमः । स्कन्धौ पूजयामि । सौमित्रिप्राणदात्रे नमः । वक्षःस्थलं पूजयामि । कुण्ठितदशकण्ठाय नमः । कण्ठं पूजयामि । रामाभिषेककारिणे नमः । हस्तौ पूजयामि । मन्त्ररचितरामायणाय नमः । वक्त्रं पूजयामि । प्रसन्नवदनाय नमः । वदनं पूजयामि । पिङ्गलनेत्राय नमः । नेत्रे पूजयामि । श्रुतिपरायणाय नमः । श्रोत्रे पूजयामि । ऊर्ध्वपुण्ड्रधारिणे नमः । ललाटं पूजयामि । मणिकण्ठमालिकाय नमः । शिरः पूजयामि । सर्वाभीष्टप्रदाय नमः । सर्वाण्यङ्गनि पूजयामि । अथ अष्टोत्तरशतनामपूजा ॥ ॐ आञ्जनेयाय नमः । महावीराय नमः । तत्त्वज्ञानप्रदाय नमः । सीतादेवीमुद्राप्रदायकाय नमः । सर्वग्रहविनाशिने नमः । भीमसेनसहायकृते नमः । परविद्यापरीहाराय नमः । परशौर्यविनाशकाय नमः । परयन्त्रनिराकर्त्रे नमः । परमन्त्रप्रभेदकाय नमः । सर्वदुःखहराय नमः । सर्वलोकचारिणे नमः । मनोजवाय नमः । पारिजातद्रुममूलस्थाय नमः । अशोकवनिकाच्छेत्रे नमः । सर्वमायाविभञ्जकाय नमः । सर्वबन्धविमोक्त्रे नमः । रक्षोविध्वंसकारकाय नमः । सर्वयन्त्रात्मकाय नमः । कपीश्वराय नमः । २० ॐ महाकायाय नमः । सर्वरोगहराय नमः । सर्वविद्यासम्पत्प्रदायकाय नमः । कपिसेनानायकाय नमः । भविष्यच्चतुराननाय नमः । कुमारब्रह्मचारिणे नमः । रत्नकुण्डलदीप्तिमते नमः । सञ्चलद्वालसन्नद्धलम्बमानाय नमः । हनुमते नमः । मारुतात्मजाय नमः । महाबलपराक्रमाय नमः । कारागृहविमोक्त्रे नमः । शृङ्खलाबन्धमोचकाय नमः । सागरोत्तारकाय नमः । प्राज्ञाय नमः । रामदूताय नमः । प्रतापवते नमः । वानराय नमः । लङ्किणीभञ्जकाय नमः । श्रीमते नमः । ४० ॐ सर्वमन्त्रस्वरूपिणे नमः । सर्वतन्त्रस्वरूपिणे नमः । गन्धमादनशैलस्थाय नमः । लङ्कापुरविदाहकाय नमः । सुग्रीवसचिवाय नमः । धीराय नमः । शूराय नमः । दैत्यकुलान्तकाय नमः । सुरार्चिताय नमः । महातेजसे नमः । प्रभवे नमः । बलसिद्धिकराय नमः । केसरीसुताय नमः । शिखोज्ज्वलाय नमः । सीताशोकनिवारकाय नमः । अञ्जनागर्भसम्म्भूताय नमः । गन्धर्वविद्यातत्त्वज्ञाय नमः । लक्ष्मणप्राणदात्रे नमः । वज्रकायाय नमः । महाद्युतये नमः । ६० ॐ चिरजीविने नमः । रामभक्ताय नमः । दैत्यकार्यविघातकाय नमः । अक्षहन्त्रे नमः । काञ्चनाभाय नमः । पञ्चवक्त्राय नमः । महातपसे नमः । विजितेन्द्रियाय नमः । सिंहिकाप्राणभञ्जनाय नमः । महारावणमर्दनाय नमः । स्फटिकाभाय नमः । वागधीशाय नमः । नवव्याकरणपण्डिताय नमः । चतुर्बाहवे नमः । दीनबन्धवे नमः । महात्मने नमः । भक्तवत्सलाय नमः । रामचूडामणिप्रदाय नमः । कामरूपिणे नमः । पिङ्गलाक्षाय नमः । ८० ॐ वार्धिमैनाकपूजिताय नमः । कबलीकृतमार्तण्डमण्डलाय नमः । बालार्कसदृशाननाय नमः । विभीषणप्रियकराय नमः । दशग्रीवकुलान्तकाय नमः । दान्ताय नमः । शान्ताय नमः । प्रसन्नात्मने नमः । शतकण्ठमदापहर्त्रे नमः । योगिने नमः । रामकथालोलाय नमः । सीतान्वेषणपण्डिताय नमः । वज्रदंष्ट्राय नमः । वज्रनखाय नमः । रुद्रवीर्यसमुद्भवाय नमः । सञ्जीवननगाहर्त्रे नमः । शुचये नमः । वाग्मिने नमः । दृढव्रताय नमः । कालनेमिप्रमथनाय नमः । १०० ॐ हरिमर्कटमर्कटाय नमः । इन्द्रजित्प्रहितामोघब्रह्मास्त्रविनिवारकाय नमः । पार्थध्वजाग्रसंवासिने नमः । शरपञ्जरभेदकाय नमः । लोकपूज्याय नमः । जाम्बवत्प्रीतिवर्धनाय नमः । मारुतये नमः । धूपमाघ्रापयामि । दीपं दर्शयामि । धूपदीपानन्तरं आचमनीयं समर्पयामि । नैवेद्यं समर्पयामि । मध्ये मध्ये पानीयं समर्पयामि । उत्तरापोऽशनं समर्पयामि । हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि । शुद्धाचमनीयं समर्पयामि । नीराजनं समर्पयामि । नीराजनानन्तरं आचमनीयं समर्पयामि । सुवर्णदिव्यमन्त्रपुष्पं समर्पयामि । प्रदक्षिणनमस्कारान् समर्पयामि । श्रीहनुमदर्पणमस्तु ।From Hanumatstutimanjari, Mahaperiaval Publication